ए॒तद्वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं प॒दँ श्रि॒याऽभिषि॑क्तम् । य ए॒वव्ँ वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । तदे॒तदृ॒चाऽभ्यु॑क्तम् । ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑मन् । यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति । य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑ । न ह॒ वा ए॒तस्य॒र्चा न यजु॑षा॒ न साम्नाऽर्थो॑ऽस्ति । यस्सा॑वि॒त्रव्ँ वेद॑ ॥ 36 ॥