स हो॑वाच । मा भै॑षीर्गौतम । जि॒तो वै ते॑ लो॒क इति॑ । तस्मा॒द्ये के च॑ सावि॒त्रव्ँ वि॒दुः । सर्वे॒ ते जि॒तलो॑काः । स यो ह॒ वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं प॒दँ श्रि॒याऽभिषि॑क्तव्ँ॒ वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । घृणि॒रिति॒ द्वे अ॒क्षरे॑ । सूर्य॒ इति॒ त्रीणि॑ । आ॒दि॒त्य इति॒ त्रीणि॑ ॥ 35 ॥