स ह॑ हँ॒सो हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गल्ँ लो॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । हँ॒ऽसो ह॒ वै हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गल्ँ लो॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वव्ँ वेद॑ । दे॒व॒भा॒गो ह॑ श्रौत॒र्षः । सा॒वि॒त्रव्ँ वि॒दाञ्च॑कार । तँ ह॒ वागदृ॑श्यमा॒नाऽभ्यु॑वाच ॥ 33 ॥