सर्व॒मायु॑रेति । अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति । नास्या॒मुष्मिल्ँ॑ लो॒केऽन्न॑ङ्क्षीयत॒ इति॑ । वि॒जह॑द्ध॒ वै पा॒प्मान॑मेति । सर्व॒मायु॑रेति । अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति । नास्या॒मुष्मिल्ँ॑ लो॒केऽन्न॑ङ्क्षीयते । य ए॒वव्ँ वेद॑ । अही॑ना॒ हाश्व॑त्थ्यः । सा॒वि॒त्रव्ँ वि॒दाञ्च॑कार ॥ 32 ॥