09 09

ए॒ष सव्ँ॑ वत्स॒रः । अथ॒ यदाह॑ । इ॒दानी॑न्त॒दानी॒मिति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते मु॑हू॒र्ताना॑म्मुहू॒र्ताः । ज॒न॒को ह॒ वैदे॑हः । अ॒हो॒रा॒त्रैस्स॒माज॑गाम । तँ हो॑चुः । यो वा अ॒स्मान् वैद॑ । वि॒ज॑हत्पा॒प्मान॑मेति ॥ 31 ॥