अथ॒ यदाह॑ । प॒वित्र॑म्पवयि॒ष्यन्त्सह॑स्वा॒न्त्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒ इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते॑ऽर्धमा॒साः । ए॒ष मासाः॑ । अथ॒ यदाह॑ । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ऽग्निर्ऋ॒तुः प्र॒जाप॑तिस्सव्ँ वत्स॒र इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते य॑ज्ञक्र॒तवः॑ । ए॒ष ऋ॒तवः॑ ॥ 30 ॥