09 07

अथ॒ यदाह॑ । प्रस्तु॑तव्ँ॒ विष्टु॑तँ सु॒ता सु॑न्व॒तीति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व तान्यहा॑नि । ए॒ष रात्र॑यः । अथ॒ यदाह॑ । चि॒त्रः के॒तुर्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व तेऽह्नो॑ मुहू॒र्ताः । ए॒ष रात्रेः॑ ॥ 29 ॥