तस्मा॑त्सावि॒त्रे न सव्ँ व॑देत । स यो ह॒ वै सा॑वि॒त्रव्ँ वि॒दुषा॑ सावि॒त्रे सव्ँ॒ वद॑ते । सहा॑स्मि॒ञ्छ्रिय॑न्दधाति । अनु॑ ह॒ वा अ॑स्मा अ॒सौ तप॒ञ्छ्रियं॑ मन्यते । अन्व॑स्मै॒ श्रीस्तपो॑ मन्यते । अन्व॑स्मै॒ तपो॒ बलं॑ मन्यते । अन्व॑स्मै बलं॑ प्रा॒णं म॑न्यते । स यदाह॑ । सं॒ज्ञानव्ँ॑ वि॒ज्ञान॒न्दर्शा॑ दृ॒ष्टेति॑ । ए॒ष ए॒व तत् ॥ 28 ॥