09 05

कस्मि॒न्नु तप॒ इति॑ । बल॒ इति॑ । किन्तद्बल॒मिति॑ । प्रा॒ण इति॑ । मा स्म॑ प्रा॒णमति॑ पृच्छ॒ इति॑ माऽऽचा॒र्यो॑ऽब्रवी॒दिति॑ होवाच ब्रह्मचा॒री । स हो॑वाच प्ल॒क्षो दैया॑म्पातिः । यद्वै ब्र॑ह्मचारिन्प्रा॒णमत्य॑प्रक्ष्यः । मू॒र्धा ते॒ व्यप॑तिष्यत् । अ॒हमु॑ त आचा॒र्याच्छ्रेया॑न्भविष्यामि । यो मा॑ सावि॒त्रे स॒मवा॑दि॒ष्टेति॑ ॥ 27 ॥