09 04

स कस्मि॒न्प्रति॑ष्ठित॒ इति । प॒रोर॑ज॒सीति॑ । कस्तद्यत्प॒रोर॑जा॒ इति॑ । ए॒ष वाव स प॒रोर॑जा॒ इति॑ होवाच । य ए॒ष तप॑ति । ए॒षो॑ऽर्वाग्र॑जा॒ इति॑ । स कस्मि॑न्त्वे॒ष इति॑ । स॒त्य इति॑ । किन्तत्स॒त्यमिति॑ । तप॒ इति॑ ॥ 26 ॥