वृ॒श्चत॑श्च । अ॒त्यँ॒हो हारु॑णिः । ब्र॒ह्म॒चा॒रिणे॑ प्र॒श्नान्प्रोच्य॒ प्रजि॑घाय । परे॑हि । प्ल॒क्षन्दैया॑म्पातिम्पृच्छ । वेत्थ॑ सावि॒त्रा ३ न्न वे॒त्था ३ इति॑ । तमा॒गत्य॑ पप्रच्छ । आ॒चार्यो॑ मा॒ प्राहै॑षीत् । वेत्थ॑ सावि॒त्रा ३ न्न वे॒त्था ३ इति॑ । स हो॑वाच॒ वेदेति॑ ॥ 25 ॥