वृ॒श्चत॑श्च । सैषा मी॑माँ॒साऽग्नि॑हो॒त्र ए॒व स॑म्पन्ना । अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । होष्य॑न्न॒प उप॑स्पृशेत् । विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॒मिति॑ । अथ॑ हु॒त्वोप॑स्पृशेत् । वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मान॒मिति॑ । य॒क्ष्यमा॑णो वे॒ष्ट्वा वा॑ । वि च॑ है॒वास्यै॒ते दे॒वते॑ पा॒प्मान॒न्द्यतः॑ ॥ 24 ॥