प्र॒जाप॑तिर्दे॒वान॑सृजत । ते पा॒प्मना॒ सन्दि॑ता अजायन्त । तान्व्य॑द्यत् । यद्व्य॒द्यत् । तस्मा॑द्वि॒द्युत् । तम॑वृश्चत् । यदवृ॑श्चत् । तस्मा॒द्वृष्टिः॑ । तस्मा॒द्यत्रै॒ते दे॒वते॑ अभि॒प्राप्नु॑तः । वि च॑ है॒वास्य॒ तत्र॑ पा॒प्मान॒न्द्यतः॑ ॥ 23 ॥