सु॒ह॒स्तस्सु॑वा॒साः । शू॒षो नामा॑स्य॒मृतो॒ मर्त्ये॑षु । तन्त्वा॒ऽहन्तथा॒ वेद॑ । असा॒वेहि॑ । अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑य॒म्मयि॑ । अ॒हम॒मृते॑ । अ॒मृत॒म्ब्रह्म॑णि । वा॒युर्मे॑ प्रा॒णे श्रि॒तः ॥ 16 ॥