ये ते॑ स॒हस्र॑म॒युतं॒ पाशाः॑ । मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॑ । सर्वा॒नव॑ यजामहे । भ॒क्षो॑ऽस्यमृतभ॒क्षः । तस्य॑ ते मृ॒त्युपी॑तस्या॒मृत॑वतः । स्व॒गाकृ॑तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि । म॒न्द्राऽभिभू॑तिः के॒तुर्य॒ज्ञानाव्ँ॒ वाक् । असा॒वेहि॑ ॥ 14 ॥