08 01

वि॒प॒श्चिते॒ पव॑मानाय गायत । म॒ही न धारात्यन्धो॑ अर्षति । अहि॑र्ह जी॒र्णामति॑सर्पति॒ त्वच॑म् । अत्यो॒ न क्रीड॑न्नसर॒द्वृषा॒ हरिः॑ । उ॒प॒या॒मगृ॑हीतोऽसि मृ॒त्यवे॑ त्वा॒ जुष्ट॑ङ्गृह्णामि । ए॒ष ते॒ योनि॑र्मृ॒त्यवे॑ त्वा । अप॑ मृ॒त्युमप॒ क्षुध॑म् । अपे॒तश्श॒पथ॑ञ्जहि । अधा॑ नो अग्न॒ आ व॑ह । रा॒यस्पोषँ॑ सह॒स्रिण॑म् ॥ 13 ॥