इन्दु॒र्दक्ष॑श्श्ये॒न ऋ॒तावा॑ । हिर॑ण्यपक्षश्शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आनिष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । दिव॑म्मे यच्छ । अ॒न्तरि॑क्षम्मे यच्छ । पृ॒थि॒वीम्मे॑ यच्छ । पृ॒थि॒वीम्मे॑ यच्छ । अ॒न्तरि॑क्षम्मे यच्छ । दिव॑म्मे यच्छ । अह्ना॒ प्रसा॑रय । रात्र्या॒ सम॑च । रात्र्या॒ प्रसा॑रय । अह्ना॒ सम॑च । कामं॒ प्रसा॑रय । कामँ॒ सम॑च ॥ 9 ॥