अ॒हो॒रा॒त्राणीष्ट॑काः । ऋ॒ष॒भो॑ऽसि स्व॒र्गो लो॒कः । यस्या॑न्दि॒शि म॒हीय॑से । ततो॑ नो॒ मह॒ आव॑ह । वा॒युर्भू॒त्वा सर्वा॒ दिश॒ आवा॑हि । सर्वा॒ दिशोऽनु॒ विवा॑हि । सर्वा॒ दिशोऽनु॒ सव्ँ वा॑हि । चित्या॒ चिति॒मापृ॑ण । अचि॑त्या॒ चिति॒मापृ॑ण । चिद॑सि समु॒द्रयो॑निः ॥ 8 ॥