04 1

सव्ँ॒ वत्स॒रो॑ऽसि परिवत्स॒रो॑ऽसि । इ॒दा॒व॒त्स॒रो॑ऽसीदुवत्स॒रो॑ऽसि । इ॒द्व॒त्स॒रो॑ऽसि वत्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तश्शिरः॑ । ग्री॒ष्मो दक्षि॑णᳶ प॒क्षः । व॒र्षाᳶ पुच्छ॑म् । श॒रदुत्त॑रᳶ प॒क्षः । हे॒म॒न्तो मध्य॑म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाᳶ पुरी॑षम् ॥ 7 ॥