2

भास्करोक्त-विनियोगः

1चतस्रस् स्वयमातृण्णा दिक्षूपदधाति -

विश्वास-प्रस्तुतिः

भूर्! अ॒ग्निञ् च॑ पृथि॒वीञ् च॒ माञ् च॑ ।
त्रीँश् च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ् च॑ ।
प्र॒जाप॑तिस् त्वा +++(स्वयम्-आतृण्णे!)+++ सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

भट्टभास्कर-टीका

भूर्व्याहृतिः, अग्निर्देवता, पृथिवी लोकः, अहम् उपधाता,
त्रिलोकवासिनो जनाः, संवत्सरस् सर्वानुग्राही कालः,
सर्वमिदं त्वद्-उपधान-लब्धात्मकं, तस्माद्भूराद्यात्मिकां त्वां प्रजापतिस्सादयतु,
त्वं च तया देवतया सह
अङ्गिरसाम् इव स्थिरा सीद ।
एवं सर्वासु दिक्षु योज्यम् ॥

मूलम्

भूर॒ग्निञ्च॑ पृथि॒वीञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒युञ् चा॒न्तरि॑क्षञ् च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

मूलम्

भुवो॑ वा॒युञ्चा॒न्तरि॑क्षञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

स्व॑र् आदि॒त्यञ् च॒ दिव॑ञ् च॒ माञ् च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

मूलम्

स्व॑रादि॒त्यञ्च॒ दिव॑ञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

भूर् भुव॒स् स्व॑श् च॒न्द्रम॑सञ् च॒ दिश॑श् च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ 5 ॥

मूलम्

भूर्भुव॒स्स्व॑श्च॒न्द्रम॑सञ्च॒ दिश॑श्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 5 ॥