अ॒रु॒णो॑ऽरु॒णर॑जाᳶ पु॒ण्डरी॑को विश्व॒जिद॑भि॒जित् । आ॒र्द्रᳶ पिन्व॑मा॒नोऽन्न॑वा॒न्रस॑वा॒निरा॑वान् । स॒र्वौ॒ष॒धस्स॑म्भ॒रो मह॑स्वान् । ए॒ज॒त्का जो॑व॒त्काः । क्षु॒ल्ल॒काश्शि॑पिविष्ट॒काः । स॒रि॒स्र॒रास्सु॒शेर॑वः । अ॒जि॒रासो॑ गमि॒ष्णवः॑ । इ॒दानी॑न्त॒दानी॑मे॒तर्हि॑ क्षि॒प्रम॑जि॒रम् । आ॒शुर्नि॑मे॒षᳶ फ॒णो द्रव॑न्नति॒द्रव॑न् । त्वरँ॒स्त्वर॑माण आ॒शुराशी॑याञ्ज॒वः । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ऽतिरा॒त्रो द्वि॑रा॒त्रस्त्रि॑रा॒त्रश्च॑तूरा॒त्रः । अ॒ग्निर्ऋ॒तुस्सूर्य॑ ऋ॒तुश्च॒न्द्रमा॑ ऋ॒तुः । प्र॒जाप॑तिस्सव्ँ वत्स॒रो म॒हान्कः ॥ 4 ॥