का॒न्ता का॒म्या का॒मजा॒ताऽऽयु॑ष्मती काम॒दुघा॑ । अ॒भि॒शा॒स्तानु॑म॒न्ताऽऽन॒न्दो मोद॑ᳶ प्रमो॒दः । आ॒सा॒दय॑न्निषा॒दय॑न्त्सँ॒साद॑न॒स्सँस॑न्नस्स॒न्नः । आ॒भूर्वि॒भूᳶ प्र॒भूश्श॒म्भूर्भुवः॑ । प॒वित्रं॑ पवयि॒ष्यन्पू॒तो मेध्यः॑ । यशो॒ यश॑स्वाना॒युर॒मृतः॑ । जी॒वो जी॑वि॒ष्यन्त्स्व॒र्गो लो॒कः । सह॑स्वा॒न्त्सही॑या॒नोज॑स्वा॒न्त्सह॑मानः । जय॑न्नभि॒जय॑न्त्सु॒द्रवि॑णो द्रविणो॒दाः । आ॒र्द्रप॑वित्रो॒ हरि॑केशो॒ मोद॑ᳶ प्रमो॒दः ॥ 3 ॥