आ॒वे॒शय॑न्निवे॒शय॑न्त्सव्ँ॒ वेश॑न॒स्सँशा॑न्तश्शा॒न्तः । आ॒भव॑न्प्र॒भव॑न्त्स॒म्भव॒न्त्सम्भू॑तो भू॒तः । प्रस्तु॑तं॒ विष्टु॑तँ॒ सँस्तु॑तङ्क॒ल्याणव्ँ॑ वि॒श्वरू॑पम् । शु॒क्रम॒मृत॑न्तेज॒स्वि तेज॒स्समि॑द्धम् । अ॒रु॒णम्भा॑नु॒मन्मरी॑चिमदभि॒तप॒त्तप॑स्वत् । स॒वि॒ता प्र॑सवि॒ता दी॒प्तो दी॒पय॒न्दीप्य॑मानः । ज्वल॑ञ्ज्वलि॒ता तप॑न्वि॒तप॑न्त्स॒न्तप॑न् । रो॒च॒नो रोच॑मानश्शु॒म्भूश्शुम्भ॑मानो वा॒मः । सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑नाऽभिषू॒यमा॑णा । पीती॑ प्र॒पा सं॒पा तृप्ति॑स्त॒र्पय॑न्ती ॥ 2 ॥