सं॒ज्ञानव्ँ॑ वि॒ज्ञानं॑ प्र॒ज्ञान॑ञ्जा॒नद॑भिजा॒नत् । स॒ङ्कल्प॑मानं प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑कॢप्तङ्कॢ॒प्तम् । श्रेयो॒ वसी॑य आ॒यत्सम्भू॑तम्भू॒तम् । चि॒त्रᳵ के॒तुᳶ प्र॒भाना॒भान्त्स॒म्भान् । ज्योति॑ष्माँ॒स्तेज॑स्वाना॒तपँ॒ स्तप॑न्नभि॒तप॑न् । रो॒च॒नो रोच॑मानश्शोभ॒नश्शोभ॑मानᳵ क॒ल्याणः॑ । दर्शा॑ दृ॒ष्टा द॑र्श॒ता वि॒श्वरू॑पा सुदर्श॒ना । आ॒प्याय॑माना॒प्याय॑माना॒प्याया॑ सू॒नृतेरा॑ । आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ॑र्णमा॒सी । दा॒ता प्र॑दा॒ताऽऽन॒न्दो मोद॑ᳶ प्रमो॒दः ॥ 1 ॥