॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
काठके प्रथमः प्रपाठकः १
सावित्र चयनम्
१ सं॒ज्ञानं॑ वि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत् । सं॒कल्प॑मानं
प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑क्लृप्तं क्लृ॒प्तम् । श्रेयो॒ वसी॑य
आ॒यत्सम्भू॑तं भू॒तम् । चि॒त्रः के॒तुः प्र॒भाना॒भान्त्सं॒भान् । ज्योति॑ष्मा॒ग्
स्तेज॑स्वाना॒तपँ॒ स्तप॑न्नभि॒तप॑न् । रो॒च॒नो रोच॑मानः शोभ॒नः
शोभ॑मानः क॒ल्याणः॑ । दर्शा॑ दृ॒ष्टा द॑र्श॒ता वि॒श्वरू॑पा सुदर्श॒ना
। आ॒प्याय॑माना॒ प्याय॑माना॒ प्याया॑ सू॒नृतेरा॑ । आ॒पूर्य॑माणा॒ पूर्य॑माणा
पू॒रय॑न्ती पू॒र्णा पौ॑र्णमा॒सी । दा॒ता प्र॑दा॒ताऽऽन॒न्दो मोदः॑ प्रमो॒दः ॥
३। १०। १। १॥
२ आ॒वे॒शय॑न्निवे॒शय॑न्त्सं॒वेश॑नः॒ सँशा॑न्तः शा॒न्तः
। आ॒भव॑न्प्र॒भव॑न्त्सं॒भव॒न्त्सम्भू॑तो भू॒तः । प्रस्तु॑तं॒
विष्टु॑तँ॒ सँस्तु॑तं क॒ल्याणं॑ वि॒श्वरू॑पम् । शु॒क्रम॒मृतं॑
तेज॒स्वि तेजः॒ समि॑द्धम् । अ॒रु॒णं भा॑नु॒मन्मरी॑चिमदभि॒तप॒त्तप॑स्वत्
। स॒वि॒ता प्र॑सवि॒ता दी॒प्तो दी॒पय॒न्दीप्य॑मानः । ज्वल॑ञ्ज्वलि॒ता
तप॑न्वि॒तप॑न्त्सं॒तप॑न् । रो॒च॒नो रोच॑मानः शु॒म्भूः शुम्भ॑मानो वा॒मः
। सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑नाऽभिषू॒यमा॑णा । पीती॑ प्र॒पा सं॒पा
तृप्ति॑स्त॒र्पय॑न्ती ॥ ३। १०। १। २॥
३ का॒न्ता का॒म्या का॒मजा॒ताऽऽयु॑ष्मती काम॒दुघा॑ ।
अ॒भि॒शा॒स्ताऽनु॑म॒न्ताऽऽन॒न्दो मोदः॑ प्रमो॒दः ।
आ॒सा॒दय॑न्निषा॒दय॑न्त्सँ॒साद॑नः॒ सँस॑न्नः स॒न्नः ।
आ॒भूर्वि॒भूः प्र॒भूः शं॒भूर्भुवः॑ । प॒वित्रं॑ पवियि॒ष्यन्पू॒तो मेध्यः॑
। यशो॒ यश॑स्वाना॒युर॒मृतः॑ । जी॒वो जी॑वि॒ष्यन्त्स्व॒र्गो लो॒कः ।
सह॑स्वा॒न्त्सही॑या॒नोज॑स्वा॒न्त्सह॑मानः । जय॑न्नभि॒जय॑न्त्सु॒द्रवि॑णो
द्रविणो॒दाः । आ॒र्द्रप॑वित्रो॒ हरि॑केशो॒ मोदः॑ प्रमो॒दः ॥ ३। १०। १। ३॥
४ अ॒रु॒णो॑ऽरु॒णर॑जाः पु॒ण्डरी॑को विश्व॒जिद॑भि॒जित् । आ॒र्द्रः
पिन्व॑मा॒नोऽन्न॑वा॒न्रस॑वा॒निरा॑वान् । स॒र्वौ॒ष॒धः स॑म्भ॒रो मह॑स्वान्
। ए॒ज॒त्का जो॑व॒त्काः । क्षु॒ल्ल॒काः शि॑पिविष्ट॒काः । स॒रि॒स्र॒राः
सु॒शेर॑वः । अ॒जि॒रासो॑ गमि॒ष्णवः॑ । इ॒दानीं॑ त॒दानी॑मे॒तर्हि॑
क्षि॒प्रम॑जि॒रम् । आ॒शुर्नि॑मे॒षः फ॒णो द्रव॑न्नति॒द्रव॑न् ।
त्वरँ॒स्त्वर॑माण आ॒शुराशी॑याञ्ज॒वः । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ऽतिरा॒त्रो
द्वि॑रा॒त्रस्त्रि॑रा॒त्रश्च॑तूरा॒त्रः । अ॒ग्निरृ॒तुः सूर्य॑ ऋ॒तुश्च॒न्द्रमा॑
ऋ॒तुः । प्र॒जाप॑तिः संवत्स॒रो म॒हान्कः ॥ ३। १०। १। ४॥ प्र॒मो॒दस्त॒र्पय॑न्ती
प्रमो॒दो ज॒वस्त्रीणि॑ च ॥ १॥
५ भूर॒ग्निं च॑ पृथि॒वीं च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्त्सं॑वत्स॒रं
च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ।
भुवो॑ वा॒युं चा॒न्तरि॑क्षं च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्त्सं॑वत्स॒रं
च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ।
स्व॑रादि॒त्यं च॒ दिवं॑ च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्त्सं॑वत्स॒रं च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । भूर्भुवः॒
स्व॑श्च॒न्द्रम॑सं च॒ दिश॑श्च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्त्सं॑वत्स॒रं
च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३।
१०। २। १॥ सं॒व॒त्स॒रं च॒ षट्च॑ ॥ २॥
६ त्वमे॒व त्वां वे॑त्थ॒ यो॑ऽसि॒ सोऽसि॑ । त्वमे॒व त्वाम॑चैषीः । चि॒तश्चासि॒
सञ्चि॑तश्चास्यग्ने । ए॒तावा॒ग्श्चासि॒ भूयाग्॑श्चास्यग्ने । यत्ते॑ अग्ने॒
न्यू॑नं॒ यदु॒ तेऽति॑रिक्तम् । आ॒दि॒त्यास्तदङ्गि॑रसश्चिन्वन्तु । विश्वे॑ ते
दे॒वाश्चिति॒मापू॑रयन्तु । चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने । ए॒तावा॒ग्श्चासि॒
भूयाग्॑श्चास्यग्ने । मा ते॑ अग्ने च॒येन॒ माऽति॑ च॒ येनायु॒रावृ॑क्षि । सर्वे॑षां॒
ज्योति॑षां॒ ज्योति॒र्यद॒दावु॒देति॑ । तप॑सो जा॒तमनि॑भृष्ट॒मोजः॑ । तत्ते॒
ज्योति॑रिष्टके । तेन॑ मे तप । तेन॑ मे ज्वल । तेन॑ मे दीदिहि । याव॑द्दे॒वाः ।
याव॒दसा॑ति॒ सूर्यः॑ । याव॑दु॒तापि॒ ब्रह्म॑ ॥ ३। १०। ३। १॥ आ वृ॑क्षि॒ नव॑
च ॥ ३॥
७ सं॒व॒त्स॒रो॑ऽसि परिवत्स॒रो॑ऽसि । इ॒दा॒व॒त्स॒रो॑ऽसीदु वत्स॒रो॑ऽसि ।
इ॒द्व॒त्स॒रो॑ऽसि वत्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः
प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य॑म् ।
पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् ॥ ३। १०। ४। १॥
८ अ॒हो॒रा॒त्राणीष्ट॑काः । ऋ॒ष॒भो॑ऽसि स्व॒र्गो लो॒कः । यस्यां॑ दि॒शि
म॒हीय॑से । ततो॑ नो॒ मह॒ आव॑ह । वा॒युर्भू॒त्वा सर्वा॒ दिश॒ आवा॑हि । सर्वा॒
दिशोऽनु॒ विवा॑हि । सर्वा॒ दिशोऽनु॒ संवा॑हि । चित्या॒ चिति॒मापृ॑ण । अचि॑त्या॒
चिति॒मापृ॑ण । चिद॑सि समु॒द्रयो॑निः ॥ ३। १०। ४। २॥
९ इन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा॑ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आनिष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । एति॒
प्रेति॒ वीति॒ समित्युदिति॑ । दिवं॑ मे यच्छ । अ॒न्तरि॑क्षं मे यच्छ । पृ॒थि॒वीं
मे॑ यच्छ । पृ॒थि॒वीं मे॑ यच्छ । अ॒न्तरि॑क्षं मे यच्छ । दिवं॑ मे यच्छ ।
अह्ना॒ प्रसा॑रय । रात्र्या॒ सम॑च । रात्र्या॒ प्रसा॑रय । अह्ना॒ सम॑च । कामं॒
प्रसा॑रय । कामँ॒ सम॑च ॥ ३। १०। ४। ३॥ पुरी॑षँ समु॒द्रयो॑निः
पृथि॒वीं मे॑ यच्छा॒न्तरि॑क्षं मे यच्छ स॒प्त च॑ ॥ ४॥
१० भूर्भुवः॒ स्वः॑ । ओजो॒ बल॑म् । ब्रह्म॑ क्ष॒त्त्रम् । यशो॑ म॒हत् । स॒त्यं
तपो॒ नाम॑ । रू॒पम॒मृत॑म् । चक्षुः॒ श्रोत्र॑म् । मन॒ आयुः॑ । विश्वं॒
यशो॑ म॒हः । स॒मं तपो॒ हरो॒ भाः । जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ ।
वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ । शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् ।
ऊर्जं॒ पुष्टिं॒ दद॑द॒भ्याव॑वृत्स्व ॥ ३। १०। ५। १॥ भाश्च॒त्वारि॑ च ॥ ५॥
११ राज्ञी॑ वि॒राज्ञी॑ । स॒म्राज्ञी॑ स्व॒राज्ञी॑ । अ॒र्चिः शो॒चिः । तपो॒ हरो॒
भाः । अ॒ग्निरिन्द्रो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते मा॒ सर्वे॒
यश॑सा॒ सँसृ॑जन्तु ॥ ३। १०। ६। १॥ राज्ञीन्द्रो॑ मा स॒प्त ॥ ६॥
१२ अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ । विभु॑वे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा॑ ।
अ॒भि॒भुवे॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ । दि॒वां पत॑ये॒ स्वाहाऽँ॑हस्प॒त्याय॒
स्वाहा॑ । चा॒क्षु॒ष्म॒त्याय॒ स्वाहा॑ ज्योतिष्म॒त्याय॒ स्वाहा॑ । राज्ञे॒ स्वाहा॑
वि॒राज्ञे॒ स्वाहा॑ । सं॒राज्ञे॒ स्वाहा॑ स्व॒राज्ञे॒ स्वाहा॑ । शूषा॑य॒ स्वाहा॒
सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा॑ । सँ॒सर्पा॑य॒
स्वाहा॑ क॒ल्याणा॑य॒ स्वाहा॑ । अर्जु॑नाय॒ स्वाहा॑ ॥ ३। १०। ७। १॥ क॒ल्याणा॑य॒
स्वाहैकं॑ च ॥ ७॥
१३ वि॒प॒श्चिते॒ पव॑मानाय गायत । म॒ही न धाराऽत्यन्धो॑ अर्षति ।
अहि॑र्ह जी॒र्णामति॑सर्पति॒ त्वच॑म् । अत्यो॒ न क्रीड॑न्नसर॒द्वृषा॒ हरिः॑
। उ॒प॒या॒मगृ॑हीतोऽसि मृ॒त्यवे॑ त्वा॒ जुष्टं॑ गृह्णामि । ए॒ष ते॒
योनि॑र्मृ॒त्यवे॑ त्वा । अप॑ मृ॒त्युमप॒ क्षुध॑म् । अपे॒तः श॒पथं॑ जहि ।
अधा॑ नो अग्न॒ आव॑ह । रा॒यस्पोषँ॑ सह॒स्रिण॑म् ॥ ३। १०। ८। १॥
१४ ये ते॑ स॒हस्र॑म॒युतं॒ पाशाः॑ । मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्,
य॒ज्ञस्य॑ मा॒यया॑ । सर्वा॒नव॑यजामहे । भ॒क्षो॑ऽस्यमृतभ॒क्षः । तस्य॑
ते मृ॒त्युपी॑तस्या॒मृत॑वतः । स्व॒गाकृ॑तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो
भक्षयामि । म॒न्द्राऽभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाक् । असा॒वेहि॑ ॥ ३। १०। ८। २॥
१५ अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ॑क्रन्दयितरपान । असा॒वेहि॑ ।
अ॒ह॒स्तोऽस्त्वा॒ चक्षुः॑ । असा॒वेहि॑ । अ॒पा॒दाशो॒ मनः॑ । असा॒वेहि॑ । कवे॒
विप्र॑चित्ते॒ श्रोत्र॑ । असा॒वेहि॑ ।
१६ सु॒ह॒स्तः सु॑वा॒साः । शू॒षो नामा॑स्य॒मृतो॒ मर्त्ये॑षु । तं त्वा॒ऽहं तथा॒
वेद॑ । असा॒वेहि॑ । अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑यं॒ मयि॑
। अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे॑ प्रा॒णे श्रि॒तः ॥ ३। १०। ८। ४॥
१७ प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि
। सूऱ्यो॑ मे॒ चक्षु॑षि श्रि॒तः । चक्षु॒र्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ॥ ३। १०।
८। ५॥
१८ मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि
। दिशो॑ मे॒ श्रोत्रे॑ श्रि॒ताः । श्रोत्रँ॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । आपो॑ मे॒ रेत॑सि श्रि॒ताः ॥ ३। १०। ८। ६॥
१९ रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि ।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता । शरी॑रँ॒ हृद॑ये । हृद॑यं॒ मयि॑
। अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु
श्रि॒ताः ॥ ३। १०। ८। ७॥
२० लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि
। इन्द्रो॑ मे॒ बले॑ श्रि॒तः । बलँ॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ॥ ३। १०। ८। ८॥
२१ मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि ।
ईशा॑नो मे म॒न्यौ श्रि॒तः । म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑
। अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः ॥ ३। १०। ८। ९॥
२२ आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि
। पुन॑र्म आ॒त्मा पुन॒रायु॒रागा॑त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा॑त् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः
॥ ३। १०। ८। ९॥ स॒ह॒स्रिण॑मिहि॒ श्रोत्रासा॒वेहि॑ प्रा॒णे श्रि॒तो मन॑सि श्रि॒तो
रेत॑सि श्रि॒ता लोम॑सु श्रि॒ता मू॒र्ध्नि श्रि॒त आ॒त्मनि॑ श्रि॒तो॑ऽष्टौ च॑ ॥
८॥ अ॒ग्निर्वा॒युः सूर्य॑श्च॒न्द्रमा॒ दिश॒ आपः॑ पृथि॒व्यो॑षधिवनस्प॒तय॒
इन्द्रः॑ प॒र्जन्य॒ ईशा॑न आ॒त्मा पुन॑र्मे॒ त्रयो॑दश ॥
२३ प्र॒जाप॑तिर्दे॒वान॑सृजत । ते पा॒प्मना॒ सन्दि॑ता अजायन्त । तान्व्य॑द्यत् ।
यद्व्य॒द्यत् । तस्मा॑द्वि॒द्युत् । तम॑वृश्चत् । यदवृ॑श्चत् । तस्मा॒द्वृष्टिः॑ ।
तस्मा॒द्यत्रै॒ते दे॒वते॑ अभि॒प्राप्नु॑तः । वि च॑ है॒वास्य॒ तत्र॑ पा॒प्मानं॒
द्यतः॑ ॥ ३। १०। ९। १॥
२४ वृ॒श्चत॑श्च । सैषा मी॑माँ॒साऽग्नि॑हो॒त्र ए॒व सं॑पन्ना । अथो॑
आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । होष्य॑न्न॒प उप॑स्पृशेत् । विद्यु॑दसि॒
विद्य॑ मे पा॒प्मान॒मिति॑ । अथ॑ हु॒त्वोप॑स्पृशेत् । वृष्टि॑रसि॒ वृश्च॑
मे पा॒प्मान॒मिति॑ । य॒क्ष्यमा॑णो वे॒ष्ट्वा वा॑ । वि च॑ है॒वास्यै॒ते दे॒वते॑
पा॒प्मानं॒ द्यतः॑ ॥ ३। १०। ९। २॥
२५ वृ॒श्चत॑श्च । अ॒त्यँ॒हो हारु॑णिः । ब्र॒ह्म॒चा॒रिणे॑ प्र॒श्नान्प्रोच्य॒
प्रजि॑घाय । परे॑हि । प्ल॒क्षं दैया॑म्पातिं पृच्छ । वेत्थ॑ सावि॒त्रा ३ न्न वे॒त्था
३ इति॑ । तमा॒गत्य॑ पप्रच्छ । आ॒चाऱ्यो॑ मा॒ प्राहै॑षीत् । वेत्थ॑ सावि॒त्रा ३ न्न
वे॒त्था ३ इति॑ । स हो॑वाच॒ वेदेति॑ ॥ ३। १०। ९। ३॥
२६ स कस्मि॒न्प्रति॑ष्ठित॒ इति॑ । प॒रोर॑ज॒सीति॑ । कस्तद्यत्प॒रोर॑जा॒ इति॑ ।
ए॒ष वाव स प॒रोर॑जा॒ इति॑ होवाच । य ए॒ष तप॑ति । ए॒षो॑ऽर्वाग्र॑जा॒ इति॑ ।
स कस्मि॑न्त्वे॒ष इति॑ । स॒त्य इति॑ । किं तत्स॒त्यमिति॑ । तप॒ इति॑ ॥ ३। १०। ९। ४॥
२७ कस्मि॒न्नु तप॒ इति॑ । बल॒ इति॑ । किं तद्बल॒मिति॑ । प्रा॒ण इति॑ । मा स्म॑
प्रा॒णमति॑ पृच्छ॒ इति॑ माऽऽचा॒ऱ्यो॑ऽब्रवी॒दिति॑ होवाच ब्रह्मचा॒री । स
हो॑वाच प्ल॒क्षो दय्या॑म्पातिः । यद्वै ब्र॑ह्मचारिन्प्रा॒णमत्य॑प्रक्ष्यः । मू॒र्धा
ते॒ व्यप॑तिष्यत् । अ॒हमु॑त आचा॒र्याच्छ्रेया॑न्भविष्यामि । यो मा॑ सावि॒त्रे
स॒मवा॑दि॒ष्टेति॑ ॥ ३। १०। ९। ५॥
२८ तस्मा॑त्सावि॒त्रे न संव॑देत । स यो ह॒ वै सा॑वि॒त्रं वि॒दुषा॑ सावि॒त्रे
सं॒वद॑ते । सहा॑स्मि॒ञ्छ्रियं॑ दधाति । अनु॑ ह॒ वा अ॑स्मा अ॒सौ तप॒ञ्छ्रियं॑
मन्यते । अन्व॑स्मै॒ श्रीस्तपो॑ मन्यते । अन्व॑स्मै॒ तपो॒ बलं॑ मन्यते । अन्व॑स्मै॒
बलं॑ प्रा॒णं म॑न्यते । स यदाह॑ । सं॒ज्ञानं॑ वि॒ज्ञानं॒ दर्शा॑ दृ॒ष्टेति॑
। ए॒ष ए॒व तत् ॥ ३। १०। ९। ६॥
२९ अथ॒ यदाह॑ । प्रस्तु॑तं॒ विष्टु॑तँ सु॒ता सु॑न्व॒तीति॑ । ए॒ष ए॒व तत् ।
ए॒ष ह्ये॑व तान्यहा॑नि । ए॒ष रात्र॑यः । अथ॒ यदाह॑ । चि॒त्रः के॒तुर्दा॒ता
प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑ । ए॒ष ए॒व तत् ।
ए॒ष ह्ये॑व तेऽह्नो॑ मुहू॒र्ताः । ए॒ष रात्रेः॑ ॥ ३। १०। ९। ७॥
३० अथ॒ यदाह॑ । प॒वित्रं॑ पवयि॒ष्यन्त्सह॑स्वा॒न् त्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒
इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते॑ऽर्धमा॒साः । ए॒ष मासाः॑ । अथ॒ यदाह॑
। अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ऽग्निरृ॒तुः प्र॒जाप॑तिः संवत्स॒र इति॑ । ए॒ष ए॒व
तत् । ए॒ष ह्ये॑व ते य॑ज्ञक्र॒तवः॑ । ए॒ष ऋ॒तवः॑ ।
३१ ए॒ष सं॑वत्स॒रः । अथ॒ यदाह॑ । इ॒दानीं॑ त॒दानी॒मिति॑ । ए॒ष ए॒व तत् ।
ए॒ष ह्ये॑व ते मु॑हू॒र्तानां॑ मुहू॒र्ताः । ज॒न॒को ह॒ वैदे॑हः । अ॒हो॒रा॒त्रैः
स॒माज॑गाम । तँ हो॑चुः । यो वा अ॒स्मान्, वेद॑ । वि॒जह॑त्पा॒प्मान॑मेति ॥ ३।
१०। ९। ९॥
३२ सर्व॒मायु॑रेति । अ॒भि स्व॒र्गं लो॒कं ज॑यति । नास्या॒मुष्मिं॑ ल्लो॒केऽन्नं॑
क्षीयत॒ इति॑ । वि॒जह॑द्ध॒ वै पा॒प्मान॑मेति । सर्व॒मायु॑रेति । अ॒भि स्व॒र्गं
लो॒कं ज॑यति । नास्या॒मुष्मिं॑ ल्लो॒केऽन्नं॑ क्षीयते । य ए॒वं वेद॑ । अही॑ना॒
हाश्व॑थ्यः । सा॒वि॒त्रं वि॒दाञ्च॑कार ॥ ३। १०। ९। १०॥
३३ स ह॑ हँ॒सो हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गं लो॒कमि॑याय । आ॒दि॒त्यस्य॒
सायु॑ज्यम् । हँ॒सो ह॒ वै हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गं लो॒कमे॑ति ।
आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं वेद॑ । दे॒व॒भा॒गो ह॑ श्रौत॒र्षः ।
सा॒वि॒त्रं वि॒दाञ्च॑कार । तँ ह॒ वागदृ॑श्यमा॒नाऽभ्यु॑वाच ॥ ३। १०। ९। ११॥
३४ सर्वं॑ बत गौत॒मो वे॑द । यः सा॑वि॒त्रं वेदेति॑ । स हो॑वाच । कैषा वाग॒सीति॑
। अ॒यम॒हँ सा॑वि॒त्रः । दे॒वाना॑मुत्त॒मो लो॒कः । गुह्यं॒ महो॒ बिभ्र॒दिति॑
। ए॒ताव॑ति ह गौत॒मः । य॒ज्ञो॒प॒वी॒तं कृ॒त्वाऽधो निप॑पात । नमो॒ नम॒
इति॑ ॥ ३। १०। ९। १२॥
३५ स हो॑वाच । मा भै॑षीर्गौतम । जि॒तो वै ते॑ लो॒क इति॑ । तस्मा॒द्ये के च॑
सावि॒त्रं वि॒दुः । सर्वे॒ ते जि॒तलो॑काः । स यो ह॒ वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं
प॒दँ श्रि॒याऽभिषि॑क्तं॒ वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । घृणि॒रिति॒
द्वे अ॒क्षरे॑ । सूर्य॒ इति॒ त्रीणि॑ । आ॒दि॒त्य इति॒ त्रीणि॑ ॥ ३। १०। ९। १३॥
३६ ए॒तद्वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं प॒दँ श्रि॒याऽभिषि॑क्तम् । य ए॒वं
वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । तदे॒तदृ॒चाऽभ्यु॑क्तम् । ऋ॒चो अ॒क्षरे॑
पर॒मे व्यो॑मन् । यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तं न वेद॒ किमृ॒चा
क॑रिष्यति । य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑ । न ह॒ वा ए॒तस्य॒र्चा न
यजु॑षा॒ न साम्नाऽर्थो॑ऽस्ति । यः सा॑वि॒त्रं वेद॑ ॥ ३। १०। ९। १४॥
३७ तदे॒तत्प॑रि॒ यद्दे॑वच॒क्रम् । आ॒र्द्रं पिन्व॑मानँ स्व॒र्गे लो॒क ए॑ति ।
वि॒जह॒द्विश्वा॑ भू॒तानि॑ सं॒पश्य॑त् । आ॒र्द्रो ह॒ वै पिन्व॑मानः स्व॒र्गे लो॒क
ए॑ति । वि॒जह॒न्विश्वा॑ भू॒तानि॑ सं॒पश्य॑न् । य ए॒वं वेद॑ । शू॒षो ह॒
वै वा॑र्ष्णे॒यः । आ॒दि॒त्येन॑ स॒माज॑गाम । तँ हो॑वाच । एहि॑ सावि॒त्रं
वि॑द्धि । अ॒यं वै स्व॒र्ग्यो॑ऽग्निः पा॑रयि॒ष्णुर॒मृता॒त्सम्भू॑त॒ इति॑ ।
ए॒ष वाव स सा॑वि॒त्रः । य ए॒ष तप॑ति । एहि॒ मां वि॑द्धि । इति॑ है॒वैनं॒
तदु॑वाच ॥ ३। १०। ९। १५॥ द्यतो॒ द्यतो॒ वेदेति॒ तप॒ इति॑ स॒मवा॑दि॒ष्टेति॒
तद्रात्रे॑र् ऋ॒तव॑ एति चकारोवाच॒ नम॒ इत्या॑दि॒त्य इति॒ त्रीणि॑ सावि॒त्रं
वेद॑ विद्धि॒ पञ्च॑ च ॥ ९॥ प्र॒जाप॑तिर्दे॒वान्त्सं॒ज्ञानं॒ प्रस्तु॑तं॒
तान्यहा॑न्ये॒ष रात्र॑यश्चि॒त्रः के॒तुस्तेऽह्नो॑ मुहू॒र्ता रात्रेः॑ प॒वित्रं॒
ते॑ऽर्धमा॒सा अ॑ग्निष्टो॒मा य॑ज्ञक्र॒तव॑ इ॒दानीं॑ मुहू॒र्तानां॑ जन॒कोऽही॑ना
देवभा॒गः कैषा वाङ्माशू॒षो ह॒ वै षोड॑श ॥
३८ इ॒यं वाव स॒रघा॑ । तस्या॑ अ॒ग्निरे॒व सा॑र॒घं मधु॑ । या ए॒ताः
पू॑र्वपक्षापरप॒क्षयो॒ रात्र॑यः । ता म॑धु॒कृतः॑ । यान्यहा॑नि । ते
म॑धुवृ॒षाः । स यो ह॒ वा ए॒ता म॑धु॒कृत॑श्च मधुवृ॒षाग्श्च॒ वेद॑ ।
कु॒र्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्ये॑ष्टापू॒र्तं ध॑यन्ति । अथ॒ यो न वेद॑
॥ ३। १०। १०। १॥
३९ न हा॑स्यै॒ता अ॒ग्नौ मधु॑ कुर्वन्ति । धय॑न्त्यस्येष्टापू॒र्तम् । यो ह॒
वा अ॑होरा॒त्राणां॑ नाम॒धेया॑नि॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति
। सं॒ज्ञानं॑ वि॒ज्ञानं॒ दर्शा॑ दृ॒ष्टेति॑ । ए॒ताव॑नुवा॒कौ
पू॑र्वप॒क्षस्या॑होरा॒त्राणां॑ नाम॒धेया॑नि । प्रस्तु॑तं॒ विष्टु॑तँ सु॒ता
सु॑न्व॒तीति॑ । ए॒ताव॑नुवा॒काव॑परप॒क्षस्या॑होरा॒त्राणां॑ नाम॒धेया॑नि ।
नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ ॥ ३। १०। १०। २॥
४० यो ह॒ वै मु॑हू॒र्तानां॑ नाम॒धेया॑नि॒ वेद॑ । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति ।
चि॒त्रः के॒तुर्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑
। ए॒ते॑ऽनुवा॒का मु॑हू॒र्तानां॑ नाम॒धेया॑नि । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति ।
य ए॒वं वेद॑ । यो ह॒ वा अ॑र्धमा॒सानां॑ च॒ मासा॑नां च नाम॒धेया॑नि॒
वेद॑ । नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । प॒वित्रं॑
पवियि॒ष्यन्त्सह॑स्वा॒न्त्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒ इति॑ । ए॒ते॑ऽनुवा॒का
अ॑र्धमा॒सानां॑ च॒ मासा॑नां च नाम॒धेया॑नि ॥ ३। १०। १०। ३॥
४१ नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । यो ह॒ वै
य॑ज्ञक्रतू॒नां च॑र्तू॒नां च॑ संवत्स॒रस्य॑ च नाम॒धेया॑नि॒ वेद॑ । न
य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑वत्स॒र आर्ति॒मार्च्छ॑ति । अ॒ग्नि॒ष्टो॒म
उ॒क्थ्यो॑ऽग्निर् ऋ॒तुः प्र॒जाप॑तिः संवत्स॒र इति॑ । ए॒ते॑ऽनुवा॒का
य॑ज्ञक्रतू॒नां च॑र्तू॒नां च॑ संवत्स॒रस्य॑ च नाम॒धेया॑नि । न
य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑वत्स॒र आर्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । यो ह॒
वै मु॑हू॒र्तानां॑ मुहू॒र्तान्, वेद॑ । न मु॑हू॒र्तानां॑ मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति ।
४२ इ॒दानीं॑ त॒दानी॒मिति॑ । ए॒ते वै मु॑हू॒र्तानां॑ मुहू॒र्ताः । न मु॑हू॒र्तानां॑
मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । अथो॒ यथा॑ क्षेत्र॒ज्ञो भू॒त्वाऽनु॑
प्र॒विश्यान्न॒मत्ति॑ । ए॒वमे॒वैतान् क्षे॑त्र॒ज्ञो भू॒त्वाऽनु॑ प्र॒विश्यान्न॑मत्ति ।
स ए॒तेषा॑मे॒व स॑लो॒कताँ॒ सायु॑ज्यमश्नुते । अप॑ पुनर्मृ॒त्युं ज॑यति
। य ए॒वं वेद॑ ॥ ३। १०। १०। ४॥ न वेदै॒वं वेदा॑नुवा॒का अ॑र्धमा॒सानां॑
च॒ मासा॑नां च नाम॒धेया॑नि मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति॒ नव॑ च ॥ १०॥
इ॒यम॑होरा॒त्राणाँ॑ सं॒ज्ञानं॑ पूर्वप॒क्षस्य॒ प्रस्तु॑तमपरप॒क्षस्य॑
मुहू॒र्तानां॑ चि॒त्रः के॒तुर॑र्धमा॒सानां॑ प॒वित्रं॑ यज्ञक्रतू॒नाम॑ग्निष्टो॒मो
य॑ज्ञक्रतू॒नामि॒दानीं॑ मुहू॒र्तानां॑ मुहू॒र्तान्, वेदे॒दानी॒मथो॒ द्वाद॑श ॥
४३ कश्चि॑द्ध॒ वा अ॒स्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानं॑ वेद । अ॒यम॒हम॒स्मीति॑ ।
कश्चि॒त्स्वं लो॒कं न प्रति॒ प्रजा॑नाति । अ॒ग्निमु॑ग्धो है॒व धू॒मता॑न्तः ।
स्वं लो॒कं न प्रति॒ प्रजा॑नाति । अथ॒ यो है॒वैतम॒ग्निँ सा॑वि॒त्रं वेद॑ ।
स ए॒वास्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानं॑ वेद । अ॒यम॒हम॒स्मीति॑ ॥ ३। १०। ११। १॥
४४ स स्वं लो॒कं प्रति॒प्रजा॑नाति । ए॒ष उ॑ वे॒वैनं॒ तत्सा॑वि॒त्रः ।
स्व॒र्गं लो॒कम॒भिव॑हति । अ॒हो॒रा॒त्रैर्वा इ॒दँ स॒युग्भिः॑ क्रियते ।
इ॒ति॒रा॒त्राया॑दीक्षिषत । इ॒ति॒रा॒त्राय॑ व्र॒तमुपा॑गु॒रिति॑ । तानि॒हाने॑वं
वि॒दुषः॑ । अ॒मुष्मिं॑ ल्लो॒के शे॑व॒धिं ध॑यन्ति । धी॒तँ है॒व स
शे॑व॒धिमनु॒ परै॑ति । अथ॒ यो है॒वैतम॒ग्निँ सा॑वि॒त्रं वेद॑ ॥ ३। १०।
११। १॥
४५ तस्य॑ है॒वाहो॑रा॒त्राणि॑ । अ॒मुष्मिं॑ ल्लो॒के शे॑व॒धिं न ध॑यन्ति
। अधी॑तँ है॒व स शे॑व॒धिमनु॒ परै॑ति । भ॒रद्वा॑जो ह
त्रि॒भिरायु॑र्भिर्ब्रह्म॒चर्य॑मुवास । तँ ह॒ जीर्णिँ॒ स्थवि॑रँ॒
शया॑नम् । इन्द्र॑ उप॒ व्रज्यो॑वाच । भर॑द्वाज । यत्ते॑ चतु॒र्थमायु॑र्द॒द्याम् ।
किमे॑नेन कुर्या॒ इति॑ । ब्र॒ह्म॒चर्य॑मे॒वैने॑न चरेय॒मिति॑ होवाच ॥ ३। १०।
११। ३॥
४६ तँ ह॒ त्रीन्गि॒रिरू॑पा॒नवि॑ज्ञातानिव दर्श॒याञ्च॑कार । तेषाँ॒
हैकै॑कस्मान्मु॒ष्टिनाऽऽद॑दे । स हो॑वाच । भर॑द्वा॒जेत्या॒मन्त्र्य॑ । वेदा॒
वा ए॒ते । अ॒न॒न्ता वै वेदाः॑ । ए॒तद्वा ए॒तैस्त्रि॒भिरायु॑र्भि॒रन्व॑वोचथाः ।
अथ॑ त॒ इत॑र॒दन॑नूक्तमे॒व । एही॒मं वि॑द्धि । अ॒यं वै स॑र्ववि॒द्येति॑ ॥
३। १०। ११। ४॥
४७ तस्मै॑ है॒तम॒ग्निँ सा॑वि॒त्रमु॑वाच । तँ स वि॑दि॒त्वा । अ॒मृतो॑
भू॒त्वा । स्व॒र्गं लो॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । अ॒मृतो॑ है॒व भू॒त्वा
। स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं वेद॑ । ए॒षो ए॒व त्रयी॑
वि॒द्या ॥ ३। १०। ११। ५॥
४८ याव॑न्तँ ह॒ वै त्र॒य्या वि॒द्यया॑ लो॒कं ज॑यति । ताव॑न्तं लो॒कं ज॑यति
। य ए॒वं वेद॑ । अ॒ग्नेर्वा ए॒तानि॑ नाम॒धेया॑नि । अ॒ग्नेरे॒व सायु॑ज्यँ
सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । वा॒योर्वा ए॒तानि॑ नाम॒धेया॑नि । वा॒योरे॒व
सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । इन्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि
॥ ३। १०। ११। ६॥
४९ इन्द्र॑स्यै॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । बृह॒स्पते॒र्वा
ए॒तानि॑ नाम॒धेया॑नि । बृह॒स्पते॑रे॒व सायु॑ज्यँ सलो॒कता॑माप्नोति ।
य ए॒वं वेद॑ । प्र॒जाप॑ते॒र्वा ए॒तानि॑ नाम॒धेया॑नि । प्र॒जाप॑तेरे॒व
सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । ब्रह्म॑णो॒ वा ए॒तानि॑
नाम॒धेया॑नि । ब्रह्म॑ण ए॒व सायु॑ज्यँ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ ।
स वा ए॒षो॑ऽग्निर॑पक्षपु॒च्छो वा॒युरे॒व । तस्या॒ग्निर्मुख॑म् । अ॒सावा॑दि॒त्यः
शिरः॑ । स यदे॒ते दे॒वते॒ अन्त॑रेण । तत्सर्वँ॑ सीव्यति । तस्मा॑त्सावि॒त्रः ॥
३। १०। ११। ७॥
अ॒यम॒हम॒स्मीति॒ वेद॑ होवाच सर्ववि॒द्येति॑ वि॒द्येन्द्र॑स्य॒ वा ए॒तानि॑
नाम॒धेया॑नि॒ ब्रह्म॑ण ए॒व सायु॑ज्यँ सलो॒कता॑माप्नोति स॒प्त च॑ ॥ ११॥
अ॒ग्नेर्वा॒योरिन्द्र॑स्य॒ बृह॒स्पतेः॑ प्र॒जाप॑ते॒र्ब्रह्म॑णः॒ स वै स॒प्त ॥
सं॒ज्ञानं॒ भूस्त्वमे॒व सं॑वत्स॒रो॑सि॒ भू राज्ञ्यस॑वे विप॒श्चिते॑
प्र॒जाप॑तिर्दे॒वानि॒यं वाव स॒रघा॒ कश्चि॒द्धैका॑दश ॥ ११॥
सं॒ज्ञानँ॒ राज्ञी॑ मू॒र्धा हृद॑य ए॒ष सं॑वत्स॒रो नार्ध॑मा॒सेषु॒
नव॑ चत्वारिँशत् ॥ ४९॥
सं॒ज्ञानँ॑ सावि॒त्रः ॥
काठके द्वितीयः प्रपाठकः २
नाचिकेत चयनम्
१ लो॒को॑ऽसि स्व॒र्गो॑ऽसि । अ॒न॒न्तो॑ऽस्यपा॒रो॑ऽसि । अक्षि॑तोऽस्यक्ष॒य्यो॑ऽसि
। तप॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑
भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता ।
तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वतया॑ऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १॥
२ तपो॑ऽसि लो॒के श्रि॒तम् । तेज॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य
जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। २॥
३ तेजो॑ऽसि॒ तप॑सि श्रि॒तम् । स॒मु॒द्रस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य
जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ३॥
४ स॒मु॒द्रो॑ऽसि॒ तेज॑सि श्रि॒तः । अ॒पां प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य
जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ४॥
५ आपः॑ स्थ समु॒द्रे श्रि॒ताः । पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः
। विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्ऱ्यो॑
विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ५॥
६ पृ॒थि॒व्य॑स्य॒प्सु श्रि॒ता । अ॒ग्नेः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य
जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ६॥
७ अ॒ग्निर॑सि पृथि॒व्याग् श्रि॒तः । अ॒न्तरि॑क्षस्य प्रति॒ष्ठा । त्वयी॒दम॒न्तः
। विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता
विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ७॥
८ अ॒न्तरि॑क्षमस्य॒ग्नौ श्रि॒तम् । वा॒योः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य
जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ८॥
९ वा॒युर॑स्य॒न्तरि॑क्षे श्रि॒तः । दि॒वः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य
जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ९॥
१० द्यौर॑सि वा॒यौ श्रि॒ता । आ॒दि॒त्यस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑
य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य
जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १०॥
११ आ॒दि॒त्यो॑ऽसि दि॒वि श्रि॒तः । च॒न्द्रम॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः ।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता
विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ११॥
१२ च॒न्द्रमा॑ अस्यादि॒त्ये श्रि॒तः । नक्ष॑त्राणां प्रति॒ष्ठा । त्वयी॒दम॒न्तः ।
विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता
विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १२॥
१३ नक्ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑ । सं॒व॒त्स॒रस्य॑ प्रति॒ष्ठा
यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑
सुभू॒तम् । विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑ । तानि॑
व॒ उप॑दधे काम॒दुघा॒न्यक्षि॑तानि । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १३॥
१४ सं॒व॒त्स॒रो॑ऽसि॒ नक्ष॑त्रेषु श्रि॒तः । ऋ॒तू॒नां प्र॑ति॒ष्ठा ।
त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १४॥
१५ ऋ॒तवः॑ स्थ संवत्स॒रे श्रि॒ताः । मासा॑नां प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः
। विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒
विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १५॥
१६ मासाः॑ स्थ॒र्तुषु॑ श्रि॒ताः । अ॒र्ध॒मा॒सानां॑ प्रति॒ष्ठा यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य
भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १६॥
१७ अ॒र्ध॒मा॒साः स्थ॑ मा॒सु श्रि॒ताः । अ॒हो॒रा॒त्रयोः॑ प्रति॒ष्ठा यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य
भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १७॥
१८ अ॒हो॒रा॒त्रे स्थो॑ऽर्धमा॒सेषु॑ श्रि॒ते । भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य
प्रति॒ष्ठे । यु॒वयो॑रि॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑
सुभू॒तम् । विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ॑ । ते वा॒मुप॑दधे
काम॒दुघे॒ अक्षि॑ते । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा
सी॑द ॥ ३। ११। १। १८॥
१९ पौ॒र्ण॒मा॒स्यष्ट॑काऽमावा॒स्या॑ । अ॒न्ना॒दाः स्था॑न्न॒दुघो॑ यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् । विश्व॑स्य
भ॒र्त्ऱ्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १९॥
२० राड॑सि बृह॒ती श्रीर॒सीन्द्र॑पत्नी॒ धर्म॑पत्नी । विश्वं॑ भू॒तमनु॒प्रभू॑ता
। त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वँ॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। २०॥
२१ ओजो॑ऽसि॒ सहो॑ऽसि । बल॑मसि॒ भ्राजो॑ऽसि । दे॒वानां॒ धामा॒मृत॑म्
। अम॑र्त्यस्तपो॒जाः । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं
विश्वँ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे
काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा
सी॑द ॥ ३। ११। १। २१॥ लो॒कस्तप॒स्तेजः॑ समु॒द्र आपः॑ पृथि॒व्य॑ग्निर॒न्तरि॑क्षं
वा॒युर्द्यौरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि संवत्स॒र ऋ॒तवो॒ मासा॑ अर्धमा॒सा
अ॑होरा॒त्रे पौ॑र्णमा॒सी राड॒स्योजो॒स्येक॑विँशतिः ॥ १॥ लो॒को॑ऽसि भ॒र्ता तम् ।
तप॒स्तेजो॑ऽसि भ॒र्तृ तत् । स॒मु॒द्रो॑ऽसि भ॒र्ता तम् । आपः॑ स्थ भ॒र्त्र्य॑स्ता
वः॑ । पृ॒थि॒वी भ॒र्त्री ताम् । अ॒ग्निर॑सि भ॒र्ता तम् । अ॒न्तरि॑क्षं भ॒र्तृ तत्
। वा॒युर॑सि भ॒र्ता तम् । द्यौर॑सि भ॒र्त्री ताम् । आ॒दि॒त्यश्च॒न्द्रमा॑ भ॒र्ता
तम् । नक्ष॑त्राणि स्थ भ॒र्तॄणि॒ तानि॑ वः । सं॒व॒त्स॒रो॑सि भ॒र्ता तम् ।
ऋ॒तवो॒ मासा॑ अर्धमा॒सा भ॒र्तार॒स्तान्, वः॑ । अ॒हो॒रा॒त्रे भ॒र्त्र्यौ॑ ते
वा॑म् । पौ॒र्ण॒मा॒सी भ॒र्त्र्य॑स्ता वः॑ । राड॑सि भ॒र्त्री ताम् । ओजो॑ऽसि भ॒र्ता
तमेक॑विँशतिः ॥
२२ त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वँ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ । देवा॑
दे॒वेषु॑ श्रयध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम् । द्विती॑यास्तृ॒तीये॑षु
श्रयध्वम् । तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम् । च॒तु॒र्थाः प॑ञ्च॒मेषु॑
श्रयध्वम् । प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम् ॥ ३। ११। २। १॥
२३ ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम्
। अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयध्वम् ।
द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम् । ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम् ।
द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम् । त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम्
। च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम् । प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑
श्रयध्वम् ॥ ३। ११। २। २॥
२४ षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑
श्रयध्वम् । अ॒ष्टा॒द॒शा ए॑कान्नविँ॒शेषु॑ श्रयध्वम् ।
ए॒का॒न्न॒विँ॒शा विँ॒शेषु॑ श्रयध्वम् । विँ॒शा
ए॑कविँ॒शेषु॑ श्रयध्वम् । ए॒क॒विँ॒शा द्वा॑विँ॒शेषु॑
श्रयध्वम् । द्वा॒विँ॒शास्त्र॑योविँ॒शेषु॑ श्रयध्वम् ।
त्र॒यो॒विँ॒शाश्च॑तुर्विँ॒शेषु॑ श्रयध्वम् । च॒तु॒र्विँ॒शाः
प॑ञ्चविँ॒शेषु॑ श्रयध्वम् । प॒ञ्च॒विँ॒शाः ष॑ड्विँ॒शेषु॑
श्रयध्वम् ॥ ३। ११। २। ३॥
२५ ष॒ड्विँ॒शाः स॑प्तविँ॒शेषु॑ श्रयध्वम् । स॒प्त॒विँ॒शा
अ॑ष्टाविँ॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒विँ॒शा ए॑कान्नत्रिँ॒शेषु॑
श्रयध्वम् । ए॒का॒न्न॒त्रिँ॒शास्त्रिँ॒शेषु॑ श्रयध्वम् । त्रिँ॒शा
ए॑कत्रिँ॒शेषु॑ श्रयध्वम् । ए॒क॒त्रिँ॒शा द्वा॑त्रिँ॒शेषु॑
श्रयध्वम् । द्वा॒त्रिँ॒शास्त्र॑यस्त्रिँ॒शेषु॑ श्रयध्वम् ।
देवा॑स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिँशाः । उत्त॑रे भवत । उत्त॑रवर्त्मान॒
उत्त॑रसत्वानः । यत्का॑म इ॒दं जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यँ
स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा॑ ॥ ३। ११। २। ४॥ ष॒ष्ठेषु॑
श्रयध्वँ षोड॒शेषु॑ श्रयध्वँ षड्विँ॒शेषु॑ श्रयध्व॒मुत्त॑रे
भव॒तोत्त॑र वर्त्मान॒ उत्त॑रसत्वानश्च॒त्वारि॑ च ॥ २॥
२६ अग्ना॑विष्णू स॒जोष॑सा । इ॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम्
। राज्ञी॑ वि॒राज्ञी॑ । स॒म्राज्ञी॑ स्व॒राज्ञी॑ । अ॒र्चिः शो॒चिः । तपो॒ हरो॒
भाः । अ॒ग्निः सोमो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते सर्वे॑
सं॒गत्य॑ । इ॒दं मे॒ प्राव॑ता॒ वचः॑ । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।
भूर्भुवः॒ स्वः॑ स्वाहा॑ ॥ ३। ११। ३। १॥ सं॒गत्य॒ त्रीणि॑ च ॥ ३॥
२७ अन्न॑प॒तेऽन्न॑स्य नो देहि । अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑
तारिषः । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अग्ने॑ पृथिवीपते । सोम॑ वीरुधां
पते । त्वष्टः॑ समिधां पते । विष्ण॑वाशानां पते । मित्र॑ सत्यानां पते । वरु॑ण
धर्मणां पते ॥ ३। ११। ४। १॥
२८ म॒रुतो॑ गणानां पतयः । रुद्र॑ पशूनां पते । इन्द्रौ॑जसां पते । बृह॑स्पते
ब्रह्मणस्पते । आ रु॒चा रो॑चे॒ऽहँ स्व॒यम् । रु॒चा रु॑रुचे॒ रोच॑मानः ।
अ॒तीत्या॒दः स्व॑रा भ॑रे॒ह । तस्मि॒न् योनौ॑ प्रज॒नौ प्रजा॑येय । व॒यँ
स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा॑ ॥ ३। ११। ४। २॥ वरु॑ण धर्मणां
पते॒ स्वः॑ स्वाहा॑ ॥ ४॥
२९ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑
। स॒प्त होत्रा॑ अनुवि॒द्वान् । स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ । प्राची॒ दिक् ।
अ॒ग्निर्दे॒वता॑ । अ॒ग्निँ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑
दि॒शो॑ऽभि॒दास॑ति । द॒क्षि॒णा दिक् । इन्द्रो॑ दे॒वता॑ ॥ ३। ११। ५। १॥
३० इन्द्रँ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑
दि॒शो॑ऽभि॒दास॑ति । प्र॒तीची॒ दिक् । सोमो॑ दे॒वता॑ । सोमँ॒ स दि॒शां
दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । उदी॑ची॒ दिक् ।
मि॒त्रावरु॑णौ दे॒वता॑ । मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु ।
यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति ॥ ३। ११। ५। २॥
३१ ऊ॒र्ध्वा दिक् । बृह॒स्पति॑र्दे॒वता॑ । बृह॒स्पतिँ॒ स दि॒शां
दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । इ॒यं दिक्
। अदि॑तिर्दे॒वता॑ । अदि॑तिँ॒ स दि॒शां दे॒वीं दे॒वता॑नामृच्छतु । यो
मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । पुरु॑षो॒ दिक् । पुरु॑षो मे॒ कामा॒न्त्सम॑र्धयतु
॥ ३। ११। ५। ३॥
३२ अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ॑क्रन्दयितरपान । असा॒वेहि॑ ।
उ॒षस॑मुषसमशीय । अ॒हमसो॒ ज्योति॑रशीय । अ॒हमसो॒ऽपो॑ऽशीय । व॒यँ
स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा॑ ॥ ३। ११। ५। ३॥ द॒क्षि॒णा
दिगिन्द्रो॑ दे॒वता॑ मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो
मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑त्यर्धयतु॒ नव॑ च ॥ ५॥
३३ यत्तेऽचि॑तं॒ यदु॑ चि॒तं ते॑ अग्ने । यत्त॑ ऊ॒नं यदु॒ तेऽति॑रिक्तम्
। आ॒दि॒त्यास्तदङ्गि॑रसश्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒मा पू॑रयन्तु ।
चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने । ए॒तावा॒ग्श्चासि॒ भूयाग्॑श्चास्यग्ने । लो॒कं
पृ॑ण च्छि॒द्रं पृ॑ण । अथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑
। अ॒स्मिन्, योना॑वसीषदन् ॥ ३। ११। ६। १॥
३४ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । ता अ॑स्य॒ सूद॑दोहसः । सोमग्ग्॑
श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विशः॑ । त्रि॒ष्वारो॑च॒ने दि॒वः । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अग्ने॑ दे॒वाँ इ॒हाव॑ह । ज॒ज्ञा॒नो
वृ॒क्तब॑र्हिषे । असि॒ होता॑ न॒ ईड्यः॑ । अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम् ॥
३। ११। ६। २॥
३५ यो दी॒दाय॒ समि॑द्ध॒ स्वे दु॑रो॒णे । चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी ।
स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च॑म् । मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम् ।
अ॒ग्निँ होता॑रं परि॒भूत॑मं म॒तिम् । त्वामर्भ॑स्य ह॒विषः॑ समा॒नमित्
। त्वां म॒हो वृ॑णते॒ नरो॒ नान्यं त्वत् । म॒नु॒ष्वत्त्वा॒ निधी॑महि ।
म॒नु॒ष्वत्समि॑धीमहि । अग्ने॑ मनु॒ष्वद॑ङ्गिरः ॥ ३। ११। ६। ३॥
३६ दे॒वान्दे॑वाय॒ते य॑ज । अ॒ग्निर्हि वा॒जिनं॑ वि॒शे । ददा॑ति वि॒श्वच॑र्षणिः ।
अ॒ग्नी रा॒ये स्वा॒भुव॑म् । स प्री॒तो या॑ति॒ वार्य॑म् । इषग्ग्॑ स्तो॒तृभ्य॒ आभ॑र ।
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम् । पृ॒ष्टो विश्वा॒ ओष॑धी॒रावि॑वेश
। वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः । स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म्
॥ ३। ११। ६। ४॥ अ॒सी॒ष॒द॒न् यवि॑ष्ठमङ्गिरो॒ नक्त॑म् ॥ ६॥
३७ अ॒यं वाव यः पव॑ते । सो॑ऽग्निर्ना॑चिके॒तः । स यत्प्राङ्पव॑ते । तद॑स्य॒
शिरः॑ । अथ॒ यद्द॑क्षि॒णा । स दक्षि॑णः प॒क्षः । अथ॒ यत्प्र॒त्यक् । तत्पुच्छ॑म्
। यदुदङ्॑ । स उत्त॑रः प॒क्षः ॥ ३। ११। ७। १॥
३८ अथ॒ यत्सं॒वाति॑ । तद॑स्य स॒मञ्च॑नं च प्र॒सार॑णं च । अथो॑
स॒म्पदे॒वास्य॒ सा । सँ ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते । यत्का॑मो॒
यज॑ते । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । यो ह॒ वा
अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठां वेद॑ । आ॒यत॑नवान्भवति । गच्छ॑ति
प्रति॒ष्ठाम् ॥ ३। ११। ७। २॥
३९ हिर॑ण्यं॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठा । य ए॒वं वेद॑ ।
आ॒यत॑नवान्भवति । गच्छ॑ति प्रति॒ष्ठाम् । यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒
शरी॑रं॒ वेद॑ । सश॑रीर ए॒व स्व॒र्गं लो॒कमे॑ति । हिर॑ण्यं॒
वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रम् । य ए॒वं वेद॑ । सश॑रीर ए॒व स्व॒र्गं
लो॒कमे॑ति । अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात् ॥ ३। ११। ७। ३॥
४० ए॒वमे॒व स तेज॑सा॒ यश॑सा । अ॒स्मिँश्च॑ लो॒के॑ऽमुष्मिग्ग्॑श्च भाति ।
उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः । येऽव॑रेणादि॒त्यम् । अथ॑ है॒ते वरी॑याँसो
लो॒काः । ये परे॑णादि॒त्यम् । अन्त॑वन्तँ ह॒ वा ए॒ष क्ष॒य्यं लो॒कं ज॑यति ।
योऽव॑रेणादि॒त्यम् । अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति ।
यः परे॑णादि॒त्यम् ॥ ३। ११। ७। ४॥
४१ अ॒न॒न्तँ ह॒ वा अ॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति । यो॑ऽग्निं ना॑चिके॒तं
चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथो॒ यथा॒ रथे॒ तिष्ठ॒न्पक्ष॑सी
पर्या॒वर्त॑माने प्र॒त्यपे॑क्षते । ए॒वम॑होरा॒त्रे प्र॒त्यपे॑क्षते । नास्या॑होरा॒त्रे
लो॒कमा॑प्नुतः । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३।
११। ७। ५॥ उत्त॑रः प॒क्षो गच्छ॑ति प्रति॒ष्ठां भा॒य्याद्यः परे॑णादि॒त्यम॒ष्टौ
च॑ ॥ ७॥
४२ उ॒शन् ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ । तस्य॑ ह॒ नचि॑केता॒
नाम॑ पु॒त्र आ॑स । तँ ह॑ कुमा॒रँ सन्त॑म् । दक्षि॑णासु नी॒यमा॑नासु
श्र॒द्धाऽऽवि॑वेश । स हो॑वाच । तत॒ कस्मै॒ मां दा॑स्य॒सीति॑ । द्वि॒तीयं॑
तृ॒तीय॑म् । तँ ह॒ परी॑त उवाच । मृ॒त्यवे॑ त्वा ददा॒मीति॑ । तँ ह॒
स्मोत्थि॑तं॒ वाग॒भिव॑दति ॥ ३। ११। ८। १॥
४३ गौत॑म कुमा॒रमिति॑ । स हो॑वाच । परे॑हि मृ॒त्योर्गृ॒हान् । मृ॒त्यवे॒
वै त्वा॑ऽदा॒मिति॑ । तं वै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच । तस्य॑ स्म ति॒स्रो
रात्री॒रना॑श्वान्गृ॒हे व॑सतात् । स यदि॑ त्वा पृ॒च्छेत् । कुमा॑र॒ कति॒
रात्री॑रवात्सी॒रिति॑ । ति॒स्र इति॒ प्रति॑ ब्रूतात् । किं प्र॑थ॒माँ रात्रि॑माश्ना॒
इति॑ ॥ ३। ११। ८। २॥
४४ प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒मिति॑ । प॒शूग्स्त॒ इति॑ । किं तृ॒तीया॒मिति॑
। सा॒धु॒कृ॒त्यां त॒ इति॑ । तं वै प्र॒वस॑न्तं जगाम । तस्य॑ ह ति॒स्रो
रात्री॒रना॑श्वान्गृ॒ह उ॑वास । तमा॒गत्य॑ पप्रच्छ । कुमा॑र॒ कति॒
रात्री॑रवात्सी॒रिति॑ । ति॒स्र इति॒ प्रत्यु॑वाच ॥ ३। ११। ८। ३॥
४५ किं प्र॑थ॒माँ रात्रि॑माश्ना॒ इति॑ । प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒मिति॑
। प॒शूग्स्त॒ इति॑ । किं तृ॒तीया॒मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ । नम॑स्ते
अस्तु भगव॒ इति॑ होवाच । वरं॑ वृणी॒ष्वेति॑ । पि॒तर॑मे॒व जीव॑न्नया॒नीति॑
। द्वि॒तीयं॑ वृणी॒ष्वेति॑ ॥ ३। ११। ८। ४॥
४६ इ॒ष्टा॒पू॒र्तयो॒र्मेऽक्षि॑तिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं
ना॑चिके॒तमु॑वाच । ततो॒ वै तस्ये॑ष्टापू॒र्ते ना क्षी॑येते । नास्ये॑ष्टापू॒र्ते
क्षी॑येते । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । तृ॒तीयं॑
वृणी॒ष्वेति॑ । पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं
ना॑चिके॒तमु॑वाच । ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम॑जयत् ॥ ३। ११। ८। ५॥
४७ अप॑ पुनर्मृ॒त्युं ज॑यति । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं
वेद॑ । प्र॒जाप॑ति॒र्वै प्र॒जाका॑म॒स्तपो॑ऽतप्यत । स हिर॑ण्य॒मुदा॑स्यत् ।
तद॒ग्नौ प्रास्य॑त् । तद॑स्मै॒ नाच्छ॑दयत् । तद्द्वि॒तीयं॒ प्रास्य॑त् । तद॑स्मै॒
नैवाच्छ॑दयत् । तत्तृ॒तीयं॒ प्रास्य॑त् ॥ ३। ११। ८। ६॥
४८ तद॑स्मै॒ नैवाच्छ॑दयत् । तदा॒त्मन्ने॒व हृ॑द॒य्ये॑ऽग्नौ वै॑श्वान॒रे
प्रास्य॑त् । तद॑स्मा अच्छदयत् । तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नाम् ।
भु॒ञ्जत्प्रि॒यत॑मम् । हृ॒द॒य॒जँ हि । स वै तमे॒व नावि॑न्दत् । यस्मै॒ तां
दक्षि॑णा॒मने॑ष्यत् । ताग् स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत् । तां प्रत्य॑गृह्णात् ॥
३। ११। ८। ७॥
४९ दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑ । सो॑ऽदक्षत॒ दक्षि॑णां
प्रति॒गृह्य॑ । दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं वेद॑ ।
ए॒तद्ध॑ स्म॒ वै तद्वि॒द्वाँसो॑ वाजश्रव॒सा गोत॑माः । अप्य॑नूदे॒श्यां॑
दक्षि॑णां॒ प्रति॑गृह्णन्ति । उ॒भये॑न व॒यं द॑क्षिष्यामह ए॒व दक्षि॑णां
प्रति॒गृह्येति॑ । ते॑ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ । दक्ष॑ते ह॒
वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं वेद॑ । प्रहा॒न्यं व्ली॑नाति ॥ ३। ११।
८। ८॥ व॒द॒त्या॒श्ना॒ इत्यु॑वाच द्वि॒तीयं॑ वृणी॒ष्वेत्य॑जयत्तृ॒तीयं॒
प्रास्य॑दगृह्णा॒द्य ए॒वं वेदैकं॑ च ॥ ८॥
५० तँ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते ।
उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो॑ऽग्निरिति॒ वद॑न्तः । तन्न तथा॑ कु॒र्यात् ।
ए॒तम॒ग्निं कामे॑न॒ व्य॑र्द्धयेत् । स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः । कामे॑न॒
व्य॑र्द्धयेत् । सौ॒म्ये वावैन॑मध्व॒रे चि॑न्वी॒त । यत्र॑ वा॒ भूयि॑ष्ठा॒
आहु॑तयो हू॒येर॑न् । ए॒तम॒ग्निं कामे॑न॒ सम॑र्द्धयति । स ए॑नं॒ कामे॑न॒
समृ॑द्धः ॥ ३। ११। ९। १॥
५१ कामे॑न॒ सम॑र्द्धयति । अथ॑ हैनं पु॒रर्ष॑यः । उ॒त्त॒र॒वे॒द्यामे॒व
स॒त्रिय॑मचिन्वत । ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् । अ॒भि स्व॒र्गं लो॒कम॑जयन्
। वि॒न्दत॑ ए॒व प्र॒जाम् । अ॒भि स्व॒र्गं लो॒कं ज॑यति । यो॑ऽग्निं ना॑चिके॒तं
चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं वा॒युरृद्धि॑कामः ॥ ३। ११। ९। २॥
५२ य॒था॒न्यु॒प्तमे॒वोप॑दधे । ततो॒ वै स ए॒तामृद्धि॑मार्ध्नोत् । यामि॒दं
वा॒युर् ऋ॒द्धः । ए॒तामृद्धि॑मृध्नोति । यामि॒दं वा॒युर् ऋ॒द्धः । यो॑ऽग्निं
ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं गोब॒लो वार्ष्णः॑
प॒शुका॑मः । पाङ्क्त॑मे॒व चि॑क्ये । पञ्च॑ पु॒रस्ता॑त् ॥ ३। ११। ९। ३॥
५३ पञ्च॑ दक्षिण॒तः । पञ्च॑ प॒श्चात् । पञ्चो॑त्तर॒तः । एकां॒ मध्ये॑
। ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो॑त् । प्र स॒हस्रं॑ प॒शूना॑प्नोति ।
यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं
प्र॒जाप॑ति॒र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः । त्रि॒वृत॑मे॒व
चि॑क्ये ॥ ३। ११। ९। ४॥
५४ स॒प्त पु॒रस्ता॑त् । ति॒स्रो द॑क्षिण॒तः । स॒प्त प॒श्चात् । ति॒स्र उ॑त्तर॒तः ।
एकां॒ मध्ये॑ । ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत् । ए॒तां प्रजा॑तिं॒ प्राजा॑यत
। यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । त्रि॒वृद्वै ज्यैष्ठ्य॑म् । मा॒ता पि॒ता पु॒त्रः ॥
३। ११। ९। ५॥
५५ त्रि॒वृत्प्र॒जन॑नम् । उ॒पस्थो॒ योनि॑र्मध्य॒मा । प्र यशो॒ ज्यैष्ठ्य॑माप्नोति ।
ए॒तां प्रजा॑तिं॒ प्रजा॑यते । यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । यो॑ऽग्निं ना॑चिके॒तं
चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः । ऊ॒र्ध्वा
ए॒वोप॑दधे । ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ॥ ३। ११। ९। ६॥
५६ ज्यैष्ठ्यं॑ गच्छति । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं
वेद॑ । अथ॑ हैनम॒सावा॑दि॒त्यः स्व॒र्गका॑मः । प्राची॑रे॒वोप॑दधे । ततो॒
वै सो॑ऽभि स्व॒र्गं लो॒कम॑जयत् । अ॒भि स्व॒र्गं लो॒कं ज॑यति । यो॑ऽग्निं
ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । स यदी॒च्छेत् ॥ ३। ११। ९। ७॥
५७ ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । प्राङाहोतु॒र्धिष्ण्या॒दुत्स॑र्पेत् ।
येयं प्रागा॒द्यश॑स्वती । सा मा॒ प्रोर्णो॑तु । तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।
ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति । अथ॒ यदी॒च्छेत् । भूयि॑ष्ठं
मे॒ श्रद्द॑धीरन् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑ । दक्षि॑णासु नी॒यमा॑नासु॒
प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒
हत्या॑हव॒नीये॑ जुहुयात् ॥ ३। ११। ९। ८॥
५८ भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति
। पुरी॑षमुप॒धाय॑ । चि॒ति॒क्लृ॒प्तिभि॑रभि॒मृश्य॑ । अ॒ग्निं
प्र॒णीयो॑पसमा॒धाय॑ । चत॑स्र ए॒ता आहु॑तीर्जुहोति । त्वम॑ग्ने रु॒द्र
इति॑ शतरु॒द्रीय॑स्य रू॒पम् । अग्ना॑विष्णू॒ इति॑ वसो॒र्धारा॑याः ।
अन्न॑पत॒ इत्य॑न्न हो॒मः । स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा
इति॑ विश्व॒प्रीः ॥ ३। ११। ९। ९॥ समृ॑द्ध॒ ऋद्धि॑कामः पु॒रस्ता॑च्चिक्ये
पु॒त्रो॑ऽगच्छदि॒च्छेज्जु॑हुयाद्विश्व॒प्रीः ॥ ९॥ पु॒रर्ष॑यो वा॒युर्गो॑ब॒लः
स॒हस्रं॑ प्र॒जाप॑तिस्त्रि॒वृदिन्द्रो॒सावा॑दि॒त्यः स यदी॒च्छेत् ॥
५९ यां प्र॑थ॒मामिष्ट॑कामुप॒दधा॑ति । इ॒मं तया॑ लो॒कम॒भिज॑यति । अथो॒
या अ॒स्मि३ल्ँ लो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति ।
यां द्वि॒तीया॑मुप॒दधा॑ति । अ॒न्त॒रि॒क्ष॒लो॒कं तया॒ऽभिज॑यति । अथो॒
या अ॑न्तरिक्षलो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति । यां
तृ॒तीया॑मुप॒दधा॑ति । अ॒मुं तया॑ लो॒कम॒भिज॑यति ॥ ३। ११। १०। १॥
६० अथो॒ या अ॒मुष्मिं॑ ल्लो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति ।
अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श । य ए॒वामी उ॒रव॑श्च॒ वरी॑याँसश्च लो॒काः
। ताने॒व ताभि॑र॒भिज॑यति । का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यःसु
च लो॒केषु॑ भवति । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑
। सं॒व॒त्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ ॥ ३। ११। १०। २॥
६१ ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षा उत्त॑रः । श॒रत्पुच्छ॑म् । मासाः॑
कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीय॑म् । प॒र्जन्यो॒ वसो॒र्धारा॑ । यथा॒ वै
प॒र्जन्यः॒ सुवृ॑ष्टं वृ॒ष्ट्वा । प्र॒जाभ्यः॒ सर्वा॒न्कामा॑न्त्सम्पू॒रय॑ति ।
ए॒वमे॒व स तस्य॒ सर्वा॒न्कामा॒न्त्सम्पू॑रयति । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते ॥
३। ११। १०। ३॥
६२ य उ॑ चैनमे॒वं वेद॑ । सं॒व॒त्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तः
शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः
प॒क्षः । हे॒म॒न्तो मध्य॑म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः
पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । ए॒ष वाव सो॑ऽग्निर॑ग्नि॒मयः॑ पुनर्ण॒वः
। अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य॒
सायु॑ज्यम् । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ११। १०।
४॥ अ॒मुं तया॑ लो॒कम॒भि ज॑यति॒ शिर॑श्चिनु॒त इष्ट॑का॒ष्षट्च॑ ॥ १०॥
लो॒कस्त्वम॒ग्नेऽग्ना॑विष्णू॒ अन्न॑पते स॒प्त ते॑ अग्ने॒ यत्ते चि॑तम॒यमु॒शन्,
ह॒ वै तँ है॒तं यां प्र॑थ॒मामिष्ट॑कां॒ दश॑ ॥ १०॥ लो॒क आ॑दि॒त्य
ओजो॑स्यू॒र्ध्वा दिग॑न॒न्तँ ह॒ वै कामे॑न ग्री॒ष्मो द्विष॑ष्टिः ॥ ६२॥ लो॒को॑सि॒
य उ॑चैनमे॒वं वेद॑ ॥
काठके तृतीयः प्रपाठकः ३
चातुर्होत्र चयनं वैश्वसृज चयनं च
१ तुभ्यं॒ ता अ॑ङ्गिरस्तमा॒ऽश्याम॒ तं काम॑मग्ने । आशा॑नां त्वा॒ विश्वा॒ आशाः॑
। अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । कामो॑ भू॒तस्य॒ काम॒स्तदग्रे॑ ।
ब्रह्म॑ जज्ञा॒नं पि॒ता वि॒राजा॑म् । य॒ज्ञो रा॒यो॑ऽयं य॒ज्ञः । आपो॑ भ॒द्रा
आदित्प॑श्यामि । तुभ्यं॑ भरन्ति॒ यो दे॒ह्यः । पूर्वं॑ देवा॒ अप॑रेण प्राणापा॒नौ ।
ह॒व्य॒वाहँ॒ स्वि॑ष्टम् ॥ ३। १२। १। १॥ तुभ्यं॒ दश॑ ॥ १॥
२ दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन्
। प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ ।
तं य॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् ।
तमिष्टि॑भि॒रन्वै॑च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् ।
एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया
इव॒ हि दे॒वाः ॥ ३। १२। २। १॥
३ तमाशा॑ऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्रा॑म्यसि । अ॒हमु॒ वा आशा॑ऽस्मि । मां नु
य॑जस्व । अथ॑ ते स॒त्याऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑
। स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । आ॒शायै॑
च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽऽशा॑ऽभवत् । अनु॑ स्व॒र्गं
लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्याशा॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒
कामा॑य॒ स्वाहा॒ऽऽशायै॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। २॥
४ तं कामो॑ऽब्रवीत् । प्रजा॑पते॒ कामे॑न॒ वै श्रा॑म्यसि । अ॒हमु॒ वै कामो॑ऽस्मि
। मां नु य॑जस्व । अथ॑ ते स॒त्यः कामो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं
वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् ।
कामा॑य च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यः कामो॑ऽभवत् । अनु॑
स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य॒ कामो॑ भवति । अनु॑ स्व॒र्गं लो॒कं
वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति
। अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ कामा॑य॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒
स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ३॥
५ तं ब्रह्मा॑ब्रवीत् । प्रजा॑पते॒ ब्रह्म॑णा॒ वै श्रा॑म्यसि । अ॒हमु॒ वै ब्रह्मा॑स्मि
। मां नु य॑जस्व । अथ॑ ते ब्रह्म॒ण्वान्, य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं
वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् ।
ब्रह्म॑णे च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ ब्रह्म॒ण्वान्, य॒ज्ञो॑ऽभवत्
। अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । ब्र॒ह्म॒ण्वान्, ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑
स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑
। सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑
प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑
॥ ३। १२। २। ४॥
६ तं य॒ज्ञो॑ऽब्रवीत् । प्रजा॑पते य॒ज्ञेन॒ वै श्रा॑म्यसि । अ॒हमु॒ वै
य॒ज्ञो॑ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यो य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं
लो॒कं वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर॑वपत् । य॒ज्ञाय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यो
य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य य॒ज्ञो
भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑
चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑
। अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑
स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ५॥
७ तमापो॑ऽब्रुवन् । प्रजा॑पते॒ऽप्सु वै सर्वे॒ कामाः॑ श्रि॒ताः । व॒यमु॒ वा आपः॑ स्मः
। अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामाः॑ श्रयिष्यन्ते । अनु॑ स्व॒र्गं लो॒कं
वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् ।
अ॒द्भ्यश्च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मि॒न्त्सर्वे॒ कामा॑ अश्रयन्त ।
अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न् कामाः॑ श्रयन्ते । अनु॑ स्व॒र्गं
लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑
जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽद्भ्यः स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒
स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ६॥
८ तम॒ग्निर्ब॑लि॒मान॑ब्रवीत् । प्रजा॑पते॒ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑
ब॒लिँ ह॑रन्ति । अ॒हमु॒ वा अ॒ग्निर्ब॑लि॒मान॑स्मि । मां नु य॑जस्व । अथ॑ ते॒
सर्वा॑णि भू॒तानि॑ ब॒लिँ ह॑रिष्यन्ति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स
ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑
च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लिम॑हरन् ।
अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लिँ ह॑रन्ति ।
अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं
वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽग्नये॑ बलि॒मते॒ स्वाहा॑ ।
अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑
स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ७॥
९ तमनु॑वित्तिरब्रवीत् । प्रजा॑पते स्व॒र्गं वै लो॒कमनु॑ विवित्ससि । अ॒हमु॒ वा
अनु॑वित्तिरस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽनु॑वित्तिर्भविष्यति । अनु॑ स्व॒र्गं
लो॒कं वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर॑वपत् । अनु॑वित्त्यै च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑
स॒त्याऽनु॑वित्तिरभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा
अ॒स्यानु॑वित्तिर्भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहाऽनु॑वित्त्यै॒
स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒
स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ८॥
१० ता वा ए॒ताः स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । दि॒वःश्ये॑न॒योऽनु॑वित्तयो॒
नाम॑ । आशा॑ प्रथ॒माँ र॑क्षति । कामो॑ द्वि॒तीया॑म् । ब्रह्म॑ तृ॒तीया॑म् ।
य॒ज्ञश्च॑तु॒र्थीम् । आपः॑ पञ्च॒मीम् । अ॒ग्निर्ब॑लि॒मान्त्ष॒ष्ठीम् । अनु॑वित्तिः
सप्त॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति । का॒म॒चारो॑ऽस्य स्व॒र्गे लो॒के
भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि ।
प॒ष्ठौ॒ही॒व॒रां द॑द्यात्कँ॒सं च॑ । स्त्रियै॑ चाभा॒रँ समृ॑द्ध्यै
॥ ३। १२। २। ९॥
११ तप॑सा दे॒वा दे॒वता॒मग्र॑ आयन् । तप॒सर्ष॑यः॒ स्व॑रन्व॑विन्दन् ।
तप॑सा स॒पत्ना॒न् प्रणु॑दा॒मारा॑तीः । येने॒दं विश्वं॒ परि॑भूतं॒ यदस्ति॑ ।
प्र॒थ॒म॒जं दे॒वँ ह॒विषा॑ विधेम । स्व॒यं॒भु ब्रह्म॑ पर॒मं तपो॒ यत्
। स ए॒व पु॒त्रः स पि॒ता स मा॒ता । तपो॑ ह य॒क्षं प्र॑थ॒मँ सम्ब॑भूव ।
श्र॒द्धया दे॑वो देव॒त्वम॑श्नुते । श्र॒द्धा प्र॑ति॒ष्ठा लो॒कस्य॑ दे॒वी ॥ ३।
१२। ३। १॥
१२ सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा॑त् । काम॑वत्सा॒ऽमृतं॒ दुहा॑ना । श्र॒द्धा
दे॒वी प्र॑थम॒जा ऋ॒तस्य॑ । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । ताग्
श्र॒द्धाँ ह॒विषा॑ यजामहे । सा नो॑ लो॒कम॒मृतं॑ दधातु । ईशा॑ना दे॒वी
भुव॑न॒स्याधि॑पत्नी । आगा॑त्स॒त्यँ ह॒विरि॒दं जु॑षा॒णम् । यस्मा॑द्दे॒वा
ज॑ज्ञिरे॒ भुव॑नं च॒ विश्वे॑ । तस्मै॑ विधेम ह॒विषा॑ घृ॒तेन॑ ॥ ३। १२।
३। २॥
१३ यथा॑ दे॒वैः स॑ध॒मादं॑ मदेम । यस्य॑ प्रति॒ष्ठोर्व॑न्तरि॑क्षम् ।
यस्मा॑द्दे॒वा ज॑ज्ञिरे॒ भुव॑नं च॒ सर्वे॑ । तत्स॒त्यमर्च॒दुप॑ य॒ज्ञं
न॒ आगा॑त् । ब्रह्माहु॑ती॒रुप॒मोद॑मानम् । मन॑सो॒ वशे॒ सर्व॑मि॒दं ब॑भूव ।
नान्यस्य॒ मनो॒ वश॒मन्वि॑याय । भी॒ष्मो हि दे॒वः सह॑सः॒ सही॑यान् । स नो॑
जुषा॒ण उप॑ य॒ज्ञमागा॑त् । आकू॑तीना॒मधि॑पतिं॒ चेत॑सां च ॥ ३। १२। ३। ३॥
१४ सं॒क॒ल्पजू॑तिं दे॒वं वि॑प॒श्चिम् । मनो॒ राजा॑नमि॒ह व॒र्धय॑न्तः ।
उ॒प॒ह॒वे॑ऽस्य सुम॒तौ स्या॑म । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णम् ।
येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ताः
। अति॑ पा॒प्मान॒मरा॑तिं तरेम । लो॒कस्य॒ द्वार॑मर्चि॒मत्प॒वित्र॑म्
। ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् । अ॒मृत॑स्य॒ धारा॑ बहु॒धा
दोह॑मानम् । चर॑णं नो लो॒के सुधि॑तां दधातु । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑
नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाहँ॒ स्वि॑ष्टम् ॥ ३। १२। ३। ४॥
दे॒वी घृ॒तेन॒ चेत॑सां च॒ दोह॑मानं च॒त्वारि॑ च ॥ ३॥
१५ दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन्
। प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ ।
तं य॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् ।
तमिष्टि॑भि॒रन्वै॑च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् ।
एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया
इव॒ हि दे॒वाः ॥ ३। १२। ४। १॥
१६ तं तपो॑ऽब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै श्रा॑म्यसि । अ॒हमु॒ वै तपो॑ऽस्मि ।
मां नु य॑जस्व । अथ॑ ते स॒त्यं तपो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑
। स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । तप॑से च॒रुम् । अनु॑मत्यै च॒रुम्
। ततो॒ वै तस्य॑ स॒त्यं तपो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यँ
ह॒ वा अ॑स्य॒ तपो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒
यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा॑
। अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑
स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। २॥
१७ तँ श्र॒द्धाऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्रा॑म्यसि । अ॒हमु॒
वै श्र॒द्धाऽस्मि॑ । मां नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति ।
अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् ।
श्र॒द्धायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धाऽभ॑वत्
। अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति । अनु॑ स्व॒र्गं
लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑
जुहोति । अ॒ग्नये॒ स्वाहा॑ श्र॒द्धायै॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒
स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ३॥
१८ तँ स॒त्यम॑ब्रवीत् । प्रजा॑पते स॒त्येन॒ वै श्रा॑म्यसि । अ॒हमु॒ वै
स॒त्यम॑स्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यँ स॒त्यं भ॑विष्यति । अनु॑
स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् ।
स॒त्याय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यँ स॒त्यम॑भवत्
। अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यँ ह॒ वा अ॑स्य स॒त्यं भ॑वति । अनु॑
स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं
वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॑ स॒त्याय॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑
प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑
॥ ३। १२। ४। ४॥
१९ तं मनो॑ऽब्रवीत् । प्रजा॑पते॒ मन॑सा॒ वै श्रा॑म्यसि । अ॒हमु॒ वै मनो॑ऽस्मि ।
मां नु य॑जस्व । अथ॑ ते स॒त्यं मनो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑
। स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । मन॑से च॒रुम् । अनु॑मत्यै च॒रुम्
। ततो॒ वै तस्य॑ स॒त्यं मनो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यँ
ह॒ वा अ॑स्य॒ मनो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒
यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ मन॑से॒ स्वाहा॑
। अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑
स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ५॥
२० तं चर॑णमब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्रा॑म्यसि । अ॒हमु॒ वै
चर॑णमस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं चर॑णं भविष्यति । अनु॑ स्व॒र्गं
लो॒कं वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । चर॑णाय
च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं चर॑णमभवत् । अनु॑ स्व॒र्गं
लो॒कम॑विन्दत् । स॒त्यँ ह॒ वा अ॑स्य॒ चर॑णं भवति । अनु॑ स्व॒र्गं लो॒कं
वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति
। अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑
। स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ६॥
२१ ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । अपा॑घा॒ अनु॑वित्तयो॒ नाम॑
। तपः॑ प्रथ॒माँ र॑क्षति । श्र॒द्धा द्वि॒तीया॑म् । स॒त्यं तृ॒तीया॑म् ।
मन॑श्चतु॒र्थीम् । चर॑णं पञ्च॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति ।
का॒म॒चारो॑ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑
चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒व॒रां द॑द्यात्कँ॒सं च॑
। स्त्रियै॑ चाभा॒रँ समृ॑द्ध्यै ॥ ३। १२। ४। ७॥
२२ ब्रह्म॒ वै चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । नैनँ॑
श॒प्तम् । नाभिच॑रित॒माग॑च्छति । य ए॒वं वेद॑ । यो ह॒ वै चतु॑र्होतृणां
चतुर्होतृ॒त्वं वेद॑ । अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते ।
वा॒चस्पति॒र् होता॒ दश॑होतॄणाम् । पृ॒थि॒वी होता॒ चतु॑र्होतॄणाम् ॥ ३। १२।
५। १॥
२३ अ॒ग्निर्होता॒ पञ्च॑होतॄणाम् । वाग्घोता॒ षड्ढो॑तॄणाम् । म॒हाह॑वि॒र् होता॑
स॒प्तहो॑तॄणाम् । ए॒तद्वै चतु॑र्होतृणां चतुर्होतृ॒त्वम् । अथो॒ पञ्च॑होतृत्वम्
। सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । य ए॒वं वेद॑ । ए॒षा वै स॑र्ववि॒द्या ।
ए॒तद्भे॑ष॒जम् । ए॒षा प॒ङ्क्तिः स्व॒र्गस्य॑ लो॒कस्या॑ञ्ज॒साऽय॑निः स्रु॒तिः ॥
३। १२। ५। २॥
२४ ए॒तान्, योऽध्यैत्यछ॑दिर्द॒र्शे याव॑त्त॒रस॑म् । स्व॑रेति । अ॒न॒प॒ब्र॒वः
सर्व॒मायु॑रेति । वि॒न्दते॑ प्र॒जाम् । रा॒यस्पोषं॑ गौप॒त्यम् । ब्र॒ह्म॒व॒र्च॒सी
भ॑वति । ए॒तान्, योऽध्यैति॑ । स्पृ॒णोत्या॒त्मान॑म् । प्र॒जां पि॒तॄन् । ए॒तान्,
वा अ॑रु॒ण औ॑पवे॒शिर्वि॒दाञ्च॑कार ॥ ३। १२। ५। ३॥
२५ ए॒तैर॑धिवा॒दमपा॑जयत् । अथो॒ विश्वं॑ पा॒प्मान॑म् । स्व॑र्ययौ । ए॒तान्,
योऽध्यैति॑ । अ॒धि॒वा॒दं ज॑यति । अथो॒ विश्वं॑ पा॒प्मान॑म् । स्व॑रेति ।
ए॒तैर॒ग्निं चि॑न्वीत स्व॒र्गका॑मः । ए॒तैरायु॑ष्कामः । प्र॒जा प॒शुका॑मो वा ॥
३। १२। ५। ४॥
२६ पु॒रस्ता॒द्दश॑होतार॒मुद॑ञ्च॒मुप॑दधाति यावत्प॒दम् । हृद॑यं॒
यजु॑षी॒ पत्न्यौ॑ च । द॒क्षि॒ण॒तः प्राञ्चं॒ चतु॑र्होतारम् ।
प॒श्चादुद॑ञ्चं॒ पञ्च॑होतारम् । उ॒त्त॒र॒तः प्राञ्चँ॒ षड्ढो॑तारम् ।
उ॒परि॑ष्टा॒त्प्राञ्चँ॑ स॒प्तहो॑तारम् । हृद॑यं॒ यजूँ॑षि॒ पत्न्य॑श्च ।
य॒था॒व॒का॒शं ग्रहा॑न् । य॒था॒व॒का॒शं प्र॑तिग्र॒हां ल्लो॑कम्पृ॒णाश्च॑
। सर्वा॑ हास्यै॒ता दे॒वताः॑ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ ३। १२। ५। ५॥
२७ सदे॑वम॒ग्निं चि॑नुते । र॒थसं॑मितश्चेत॒व्यः॑ । वज्रो॒ वै रथः॑ ।
वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्यँ स्तृणुते । प॒क्षः सं॑मितश्चेत॒व्यः॑
। ए॒तावा॒न् वै रथः॑ । याव॑त्प॒क्षः । र॒थसं॑मितमे॒व चि॑नुते । इ॒ममे॒व
लो॒कं प॑शुब॒न्धेना॒भिज॑यति । अथो॑ अग्निष्टो॒मेन॑ ॥ ३। १२। ५। ६॥
२८ अ॒न्तरि॑क्षमु॒क्थ्ये॑न । स्व॑रतिरा॒त्रेण॑ । सर्वा॑न् लो॒कान॑ही॒नेन॑ । अथो॑
स॒त्रेण॑ । वरो॒ दक्षि॑णा । वरे॑णै॒व वरग्ग्॑ स्पृणोति । आ॒त्मा हि वरः॑ ।
एक॑विँशति॒र्दक्षि॑णा ददाति । ए॒क॒विँ॒शो वा इ॒तः स्व॒र्गो लो॒कः ।
प्र स्व॒र्गं लो॒कमा॑प्नोति ॥ ३। १२। ५। ७॥
२९ अ॒सावा॑दि॒त्य ए॑कविँ॒शः । अ॒मुमे॒वादि॒त्यमा॑प्नोति । श॒तं द॑दाति ।
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒हस्रं॑
ददाति । स॒हस्र॑सम्मितः स्व॒र्गो लो॒कः । स्व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
अ॒न्वि॒ष्ट॒कं दक्षि॑णा ददाति । सर्वा॑णि॒ वयाँ॑सि ॥ ३। १२। ५। ८॥
३० सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुद्ध्यै । यदि॒ न वि॒न्देत॑ । म॒न्थाने॑ताव॒तो
द॑द्यादोद॒नान्, वा॑ । अ॒श्नु॒ते तं काम॑म् । यस्मै॒ कामा॑या॒ग्निश्ची॒यते॑ ।
प॒ष्ठौ॒हीं त्व॒न्तर्व॑तीं दद्यात् । सा हि सर्वा॑णि॒ वयाँ॑सि । सर्व॒स्याप्त्यै॑
। सर्व॒स्याव॑रुद्ध्यै ॥ ३। १२। ५। ९॥
३१ हिर॑ण्यं ददाति । हिर॑ण्यज्योतिरे॒व स्व॒र्गं लो॒कमे॑ति । वासो॑ ददाति । तेनायुः॒
प्रति॑रते । वे॒दि॒तृ॒ती॒ये य॑जेत । त्रिष॑त्या॒ हि दे॒वाः । स स॑त्यम॒ग्निं
चि॑नुते । तदे॒तत्प॑शुब॒न्धे ब्राह्म॑णं ब्रूयात् । नेत॑रेषु य॒ज्ञेषु॑ । यो ह॒
वै चतु॑र्होतॄननुसव॒नं त॑र्पयित॒व्या॑न् वेद॑ ॥ ३। १२। ५। १०॥
३२ तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नँ सोमपी॒थो न॑मति । ए॒ते वै
चतु॑र्होतारोऽनुसव॒नं त॑र्पयित॒व्याः॑ । ये ब्रा॑ह्म॒णा ब॑हु॒विदः॑ । तेभ्यो॒
यद्दक्षि॑णा॒ न नये॑त् । दुरि॑ष्टँ स्यात् । अ॒ग्निम॑स्य वृञ्जीरन् । तेभ्यो॑
यथाश्र॒द्धं द॑द्यात् । स्वि॑ष्टमे॒वैतत्क्रि॑यते । नास्या॒ग्निं वृ॑ञ्जते ॥ ३। १२।
५। ११॥
३३ हि॒र॒ण्ये॒ष्ट॒को भ॑वति । याव॑दुत्त॒मम॑ङ्गुलिका॒ण्डं य॑ज्ञप॒रुषा॒
सम्मि॑तम् । तेजो॒ हिर॑ण्यम् । यदि॒ हिर॑ण्यं॒ न वि॒न्देत् । शर्क॑रा अ॒क्ता उप॑दध्यात्
। तेजो॑ घृ॒तम् । सते॑जसमे॒वाग्निं चि॑नुते । अ॒ग्निं चि॒त्वा सौ॑त्राम॒ण्या य॑जेत
मैत्रावरु॒ण्या वा॑ । वी॒र्ये॑ण॒ वा ए॒ष व्यृ॑द्ध्यते । यो॑ऽग्निं चि॑नु॒ते ।
३४ याव॑दे॒व वी॒र्य॑म् । तद॑स्मिन्दधाति । ब्रह्म॑णः॒ सायु॑ज्यँ सलो॒कता॑माप्नोति
। ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् । सा॒र्ष्टिताँ॑ समान लो॒कता॑माप्नोति
। य ए॒तम॒ग्निं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । ए॒तदे॒व सा॑वि॒त्रे
ब्राह्म॑णम् । अथो॑ नाचिके॒ते ॥ ३। १२। ५। १२॥ होता॒ चतु॑र्होतॄणाग् स्रु॒तिश्च॑कार
वा भवन्त्यग्निष्टो॒मेना॑प्नोति॒ वयाँ॑सि॒ वयाँ॑सि॒ सर्व॒स्याप्त्यै॒
सर्व॒स्याव॑रुध्यै॒ वेद॑ वृञ्जते चिनु॒ते नव॑ च ॥ ५॥
३५ यच्चा॒मृतं॒ यच्च॒ मर्त्य॑म् । यच्च॒ प्राणि॑ति॒ यच्च॒ न । सर्वा॒स्ता
इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । सर्वाः॒ स्त्रियः॒ सर्वा॑न् पुँ॒सः । सर्वं॒
न स्त्री॑पुमं च॒ यत् । सर्वा॒स्ताः । याव॑न्तः पाँ॒सवो॒ भूमेः॑ ॥ ३। १२। ६। १॥
३६ सङ्ख्या॑ता देवमा॒यया॑ । सर्वा॒स्ताः । याव॑न्त॒ ऊषाः॑ पशू॒नाम् । पृ॒थि॒व्यां
पुष्टि॑र्हि॒ताः । सर्वा॒स्ताः । याव॑तीः॒ सिक॑ताः॒ सर्वाः॑ । अ॒प्स्व॑न्तश्च॒ याः
श्रि॒ताः । सर्वा॒स्ताः । याव॑तीः॒ शर्क॑रा॒ धृत्यै॑ । अ॒स्यां पृ॑थि॒व्यामधि॑
॥ ३। १२। ६। २॥
३७ सर्वा॒स्ताः । याव॒न्तोऽश्मा॑नो॒ऽस्यां पृ॑थि॒व्याम् । प्र॒ति॒ष्ठासु॒ प्रति॑ष्ठिताः
। सर्वा॒स्ताः । याव॑तीर्वी॒रुधः॒ सर्वाः॑ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ।
याव॑ती॒रोष॑धीः॒ सर्वाः॑ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ॥ ३। १२। ६। ३॥
३८ याव॑न्तो॒ वन॒स्पत॑यः । अ॒स्यां पृ॑थि॒व्यामधि॑ । सर्वा॒स्ताः ।
याव॑न्तो ग्रा॒म्याः प॒शवः॒ सर्वे॑ । आ॒र॒ण्याश्च॒ ये । सर्वा॒स्ताः ।
ये द्वि॒पाद॒श्चतु॑ष्पादः । अ॒पाद॑ उदरस॒र्पिणः॑ । सर्वा॒स्ताः ।
याव॒दाञ्ज॑नमु॒च्यते॑ ॥ ३। १२। ६। ४॥
३९ दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । याव॑त्कृ॒ष्णाय॑सँ॒ सर्व॑म्
। दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । याव॑ल्लो॒हाय॑सँ॒ सर्व॑म् ।
दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । सर्वँ॒ सीसँ॒ सर्वं॒ त्रपु॑
। दे॒व॒त्रा यच्च॑ मानु॒षम् ॥ ३। १२। ६। ५॥
४० सर्वा॒स्ताः । सर्वँ॒ हिर॑ण्यँ रज॒तम् । दे॒व॒त्रा यच्च॑ मानु॒षम्
। सर्वा॒स्ताः । सर्वँ॒ सुव॑र्णँ॒ हरि॑तम् । दे॒व॒त्रा यच्च॑
मानु॒षम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒
तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२। ६। ६॥
भूमे॒रधि॒ विष्ठि॑ताः पृथि॒वीमनु॒ सर्वा॒स्ता उ॒च्यते॑ मानु॒षँ सी॑द ॥
६॥ यच्च॒ स्त्रियः॑ पाँ॒सव॒ ऊषाः॒ सिक॑ताः॒ शर्क॑रा॒ अश्मा॑नो वी॒रुध॒
ओष॑धी॒र्वन॒स्पत॑यो ग्रा॒म्या ये द्वि॒पादो॒ याव॒दाञ्ज॑नं॒ याव॑त्कृ॒ष्णाय॑सं
लो॒हाय॑सँ॒ सीसँ॒ हिर॑ण्यँ॒ सुव॑र्णँ॒ हरि॑तम॒ष्टाद॑श
॥
४१ सर्वा॒ दिशो॑ दि॒क्षु । यच्चा॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ता
इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अ॒न्तरि॑क्षं च॒ केव॑लम् ।
यच्चा॒स्मिन्न॑न्त॒राहि॑तम् । सर्वा॒स्ताः । आ॒न्त॒रि॒क्ष्य॑श्च॒ याः प्र॒जाः ॥ ३।
१२। ७। १॥
४२ ग॒न्ध॒र्वा॒प्स॒रस॑श्च॒ ये । सर्वा॒स्ताः । सर्वा॑नुदा॒रान्त्स॒लिला॑न् ।
अ॒न्तरि॑क्षे॒ प्रति॑ष्ठितान् । सर्वा॒स्ताः । सर्वा॑नुदा॒रान्त्स॑लि॒लान् । स्था॒व॒राः
प्रो॒ष्या॑श्च॒ ये । सर्वा॒स्ताः । सर्वां॒ धुनिँ॒ सर्वा॑न्ध्वँ॒सान् ।
हि॒मो यच्च॑ शी॒यते॑ ॥ ३। १२। ७। २॥
४३ सर्वा॒स्ताः । सर्वा॒न्मरी॑ची॒न् वित॑तान् । नी॒हा॒रो यच्च॑ शी॒यते॑ । सर्वा॒स्ताः
। सर्वा॑ वि॒द्युतः॒ सर्वा॑न्त्स्तनयि॒त्नून् । ह्रा॒दुनी॒र्यच्च॑ शी॒यते॑ । सर्वा॒स्ताः
। सर्वाः॒ स्रव॑न्तीः स॒रितः॑ । सर्व॑मप्सुच॒रं च॒ यत् । सर्वा॒स्ताः ॥ ३। १२। ७। ३॥
४४ याश्च॒ कूप्या॒ याश्च॑ ना॒द्याः॑ समु॒द्रियाः॑ । याश्च॑ वैश॒न्तीरु॒त
प्रा॑स॒चीर्याः । सर्वा॒स्ताः । ये चो॒त्तिष्ठ॑न्ति जी॒मूताः॑ । याश्च॒ वर्ष॑न्ति
वृ॒ष्टयः॑ । सर्वा॒स्ताः । तप॒स्तेज॑ आका॒शम् । यच्चा॑का॒शे प्रति॑ष्ठितम् ।
सर्वा॒स्ताः । वा॒युं वयाँ॑सि॒ सर्वा॑णि ॥ ३। १२। ७। ४॥
४५ अ॒न्त॒रि॒क्ष॒च॒रं च॒ यत् । सर्वा॒स्ताः । अ॒ग्निँ सूर्यं॑ च॒न्द्रम् ।
मि॒त्रं वरु॑णं॒ भग॑म् । सर्वा॒स्ताः । स॒त्यँ श्र॒द्धां तपो॒ दम॑म् । नाम॑
रू॒पं च॑ भू॒ताना॑म् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे ।
तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२।
७। ५॥ प्र॒जा हि॒मो यच्च॑ शी॒यते॒ सर्वा॒स्ताः सर्वा॑णि॒ ब्रह्म॒णैकं॑ च ॥
७॥ दिशो॒ऽन्तरि॑क्षमान्तरि॒क्ष्य॑ उदा॒रानु॑दा॒रान्धुनिं॒ मरी॑चीन्, वि॒द्युतः॒
स्रव॑न्ती॒र्याश्च॒ ये च॒ तपो॑ वा॒युम॒ग्निँ स॒त्यं पञ्च॑दश ॥
४६ सर्वा॒न्दिवँ॒ सर्वा॑न्दे॒वान्दि॒वि । यच्चा॒न्तर्भू॒तं प्रति॑ष्ठितम् ।
सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । याव॑ती॒स्तार॑काः॒ सर्वाः॑ । वित॑ता
रोच॒ने दि॒वि । सर्वा॒स्ताः । ऋचो॒ यजूँ॑षि॒ सामा॑नि ॥ ३। १२। ८। १॥
४७ अ॒थ॒र्वा॒ङ्गि॒रस॑श्च॒ ये । सर्वा॒स्ताः । इ॒ति॒हा॒स॒पु॒रा॒णं च॑
। स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः । ये च॑ लो॒का ये चा॑लो॒काः ।
अ॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ताः । यच्च॒ ब्रह्म॒ यच्चा॑ब्र॒ह्म ।
अ॒न्तर्ब्र॒ह्मन्प्रति॑ष्ठितम् ॥ ३। १२। ८। २॥
४८ सर्वा॒स्ताः । अ॒हो॒रा॒त्राणि॒ सर्वा॑णि । अ॒र्ध॒मा॒साग्श्च॒ केव॑लान् । सर्वा॒स्ताः
। सर्वा॑नृ॒तून्त्सर्वा॑न्मा॒सान् । सं॒व॒त्स॒रं च॒ केव॑लम् । सर्वा॒स्ताः ।
सर्वं॒ भूतँ॒ सर्वं॒ भव्य॑म् । यच्चा॒तोऽधि॑ भवि॒ष्यति॑ । सर्वा॒स्ता
इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑
दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२। ८। ३॥ सामा॑नि ब्र॒ह्मन्प्रति॑ष्ठितं
कृ॒त्वा त्रीणि॑ च ॥ ८॥ दिवं॒ तार॑का॒ ऋच॑ इतिहासपुरा॒णं च॒ ये च॒
यच्चा॑होरा॒त्राण्यृ॒तून्भूतं॒ नव॑ ॥
४९ ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते । दक्षि॑णामाहु॒र्यजु॑षामपा॒राम् ।
अथ॑र्वणा॒मङ्गि॑रसां प्र॒तीची॑ । साम्ना॒मुदी॑ची मह॒ती दिगु॑च्यते । ऋ॒ग्भिः
पू॑र्वा॒ह्णे दि॒वि दे॒व ई॑यते । य॒जु॒र्वे॒दे ति॑ष्ठति॒ मध्ये॒ अह्नः॑
। सा॒म॒वे॒देना॑स्तम॒ये मही॑यते । वेदै॒रशू॑न्यस्त्रि॒भिरे॑ति॒ सूर्यः॑ ।
ऋ॒ग्भ्यो जा॒ताँ स॑र्व॒शो मूर्ति॑माहुः । सर्वा॒ गति॑र्याजु॒षी है॒व शश्व॑त्
॥ ३। १२। ९। १॥
५० सर्वं॒ तेजः॑ सामरू॒प्यँ ह॑ शश्वत् । सर्वँ॑ हे॒दं ब्रह्म॑णा
है॒व सृ॒ष्टम् । ऋ॒ग्भ्यो जा॒तं वैश्यं॒ वर्ण॑माहुः । य॒जु॒र्वे॒दं
क्ष॑त्रि॒यस्या॑हु॒ऱ्योनि॑म् । सा॒म॒वे॒दो ब्रा॑ह्म॒णानां॒ प्रसू॑तिः । पूर्वे॒
पूर्वे॑भ्यो॒ वच॑ ए॒तदू॑चुः । आ॒द॒र्शम॒ग्निं चि॑न्वा॒नाः । पूर्वे॑
विश्व॒सृजो॒ऽमृताः॑ । श॒तं व॑र्ष सह॒स्राणि॑ । दी॒क्षि॒ताः स॒त्त्रमा॑सत
॥ ३। १२। ९। २॥
५१ तप॑ आसीद्गृ॒हप॑तिः । ब्रह्म॑ ब्र॒ह्माऽभ॑वत्स्व॒यम् । स॒त्यँ ह॒
होतै॑षा॒मासी॑त् । यद्वि॑श्व॒सृज॒ आस॑त । अ॒मृत॑मेभ्य॒ उद॑गायत् ।
स॒हस्रं॑ परिवत्स॒रान् । भू॒तँ ह॑ प्रस्तो॒तैषा॒मासी॑त् । भ॒वि॒ष्यत्प्रति॑
चाहरत् । प्रा॒णो अ॑ध्व॒र्युर॑भवत् । इ॒दँ सर्वँ॒ सिषा॑सताम् ॥ ३। १२।
९। ३॥
५२ अ॒पा॒नो वि॒द्वाना॒वृतः॑ । प्रति॒ प्राति॑ष्ठदध्व॒रे । आ॒र्त॒वा
उ॑पगा॒तारः॑ । स॒द॒स्या॑ ऋ॒तवो॑ऽभवन् । अ॒र्ध॒मा॒साश्च॒ मासा॑श्च
। च॒म॒सा॒ध्व॒र्य॒वोऽभ॑वन् । अशँ॑स॒द्ब्रह्म॑ण॒स्तेजः॑
। अ॒च्छा॒वा॒कोऽभ॑व॒द्यशः॑ । ऋ॒तमे॑षां प्रशा॒स्ताऽऽसी॑त् ।
यद्वि॑श्व॒सृज॒ आस॑त ॥ ३। १२। ९। ४॥
५३ ऊर्ग्राजा॑न॒मुद॑वहत् । ध्रु॒व॒गो॒पः सहो॑ऽभवत् । ओजो॒ऽभ्य॑ष्टौ॒द्ग्राव्ण्णः॑ ।
यद्वि॑श्व॒सृज॒ आस॑त । अप॑चितिः पो॒त्रीया॑मयजत् । ने॒ष्ट्रीया॑मयज॒त्त्विषिः॑
। आग्नी॑द्ध्राद्वि॒दुषी॑ स॒त्यम् । श्र॒द्धा है॒वाय॑जत्स्व॒यम् । इरा॒ पत्नी॑
विश्व॒सृजा॑म् । आकू॑तिरपिनड्ढ॒विः ॥ ३। १२। ९। ५॥
५४ इ॒ध्मँ ह॒ क्षुच्चै॑भ्य उ॒ग्रे । तृ॒ष्णा चाव॑हतामु॒भे । वागे॑षाँ
सुब्रह्म॒ण्याऽऽसी॑त् । छ॒न्दो॒यो॒गान्, वि॑जान॒ती । क॒ल्प॒त॒न्त्राणि॑ तन्वा॒नाऽहः॑
। सँ॒स्थाश्च॑ सर्व॒शः । अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ । मु॒हू॒र्ताः प्रे॒ष्या॑
अभवन् । मृ॒त्युस्तद॑भवद्धा॒ता । श॒मि॒तोग्रो वि॒शां पतिः॑ ॥ ३। १२। ९। ६॥
५५ वि॒श्व॒सृजः॑ प्रथ॒माः स॒त्त्रमा॑सत । स॒हस्र॑समं॒ प्रसु॑तेन॒ यन्तः॑
। ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः । हि॒र॒ण्मयः॑ श॒कुनि॒र्ब्रह्म॒ नाम॑ ।
येन॒ सूर्य॒स्तप॑ति॒ तेज॑से॒द्धः । पि॒ता पु॒त्रेण॑ पितृ॒मान्, योनि॑ योनौ ।
नावे॑दविन्मनुते॒ तं बृ॒हन्त॑म् । स॒र्वा॒नु॒भुमा॒त्मानँ॑ सम्परा॒ये । ए॒ष
नि॒त्यो म॑हि॒मा ब्रा॑ह्म॒णस्य॑ । न कर्म॑णा वर्धते॒ नो कनी॑यान् ॥ ३। १२। ९। ७॥
५६ तस्यै॒वात्मा प॑द॒वित्तं वि॑दित्वा । न कर्म॑णा लिप्यते॒ पाप॑केन ।
पञ्च॑पञ्चा॒शत॑स्त्रि॒वृतः॑ संवत्स॒राः । पञ्च॑पञ्चा॒शतः॑
पञ्चद॒शाः । पञ्च॑पञ्चा॒शतः॑ सप्तद॒शाः । पञ्च॑ पञ्चा॒शत॑
एकविँ॒शाः । वि॒श्व॒सृजाँ॑ स॒हस्र॑संवत्सरम् । ए॒तेन॒
वै वि॑श्व॒सृज॑ इ॒दं विश्व॑मसृजन्त । यद्विश्व॒मसृ॑जन्त ।
तस्मा॑द्विश्व॒सृजः॑ । विश्व॑मेना॒ननु॒ प्रजा॑यते । ब्रह्म॑णः॒ सायु॑ज्यँ
सलो॒कतां॑ यन्ति । ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् । सा॒र्ष्टिताँ॑ समान
लो॒कतां॑ यन्ति । य ए॒तदु॑प॒यन्ति॑ । ये चै॑न॒त्प्राहुः॑ । येभ्य॑श्चैन॒त्प्राहुः॑
। (ओम्) (सम्प्रदायदल्लि हेळुवुदिल्ल) ॥ ३। १२। ९। ८॥
शश्व॑दासत॒ सिषा॑सता॒मास॑त ह॒विष्पतिः॒ कनी॑या॒न्तस्मा॑द्विश्व॒सृजो॒ऽष्टौ
च॑ ॥ ९॥
तुभ्यं॑ दे॒वेभ्य॒स्तप॑सा दे॒वेभ्यो॒ ब्रह्म॒ वै चतु॑र् होतारो॒
यच्चा॒मृतँ॒ सर्वा॒ दिशो॑ दि॒क्षु सर्वां॒ दिव॑मृ॒चां प्राची॒ नव॑ ॥ ९॥
तुभ्यं॒ तप॑सा॒ ता वा ए॒ताः पञ्च॒ हिर॑ण्यं ददाति॒ सर्वा॒ दिश॒स्तप॑
आसीद्गृ॒हप॑तिः॒ षट्प॑ञ्चा॒शत् ॥ ५६॥
तुभ्यं॒ येभ्य॑श्चैन॒त्प्राहुः॑ ॥
(तुभ्य॒मोम्) ॥ (सम्प्रदायदल्लि हेळुवुदिल्ल)
इति काठकं सम्पूर्णम् ॥
इति तैत्तिरीय-ब्राह्मणम् ॥
आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ हरिः॑ ओ(३)म् ॥
॥ श्री कृष्णार्पणमस्तु ॥