जगतो वेदमूलता

सायणो ऽत्र

ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते ।
दक्षि॑णामाहु॒र् यजु॑षाम् अपा॒राम् ।
अथ॑र्वणा॒म् अङ्गि॑रसां प्र॒तीची॑ ।
साम्ना॒मुदी॑ची मह॒ती दिगु॑च्यते ।

ऋ॒ग्भिः पू॑र्वा॒ह्णे दि॒वि +++(सूर्य)+++दे॒व ई॑यते ।
यु॒जु॒र्वे॒दे ति॑ष्ठति॒ मध्ये॒ अह्नः॑ ।
सा॒म॒वे॒देना॑स्तम॒ये मही॑यते ।
वेदै॒रशू॑न्यस् त्रि॒भिरे॑ति॒ सूर्यः॑ ।

ऋ॒ग्भ्यो जा॒ताँ स॑र्व॒शो मूर्ति॑माहुः ।
सर्वा॒ गति॑र्याजु॒षी है॒व शश्व॑त् ॥
सर्व॒न् तेज॑स् सामरू॒प्यँ ह॑ शश्वत् ।
सर्वँ॑ हे॒दं ब्रह्म॑णा+++(=वेदेन!)+++ है॒व सृ॒ष्टम् ।

ऋ॒ग्भ्यो जा॒तव्ँ वैश्यव्ँ॒ वर्ण॑माहुः ।
य॒जु॒र्वे॒दङ् क्ष॑त्रि॒यस्या॑हु॒र् योनि॑म् ।
सा॒म॒वे॒दो ब्रा॑ह्म॒णानां॒ प्रसू॑तिः ।
पूर्वे॒ पूर्वे॑भ्यो॒ वच॑ ए॒तदू॑चुः ।