तैत्तिरीयब्राह्मणे तृतीयाष्टकम् ॥
अथ द्वादशप्रपाठकः - तृतीयकाठकः ॥
3.12.1
1अथ दिवश्श्येनयो नाम सप्तेष्टयस्त्रिहविष्काः, प्राग्दीक्षणीयायास्ताभिर्यजते । तासां सप्तानामेता याज्यानुवाकाः - ‘तुभ्यं ताः’ इत्याद्याः । वैश्वदेवं काण्डं, तत्र सप्तानामप्याद्यन्तयोरग्निः कामोऽनुमतिश्च, तयोर्मध्येऽन्या देवताः आशादयः । तेन नवानां सस्विष्टकृतां विंशतिर्मन्त्राः । तेषामेतानि प्रतीकग्रहणानि । तत्राग्नेः - ‘तुभ्यं ता अङ्गिरस्तम विश्वाः’ इति गायत्री, ‘आश्याम तं काममग्ने तवोती’ इति त्रिष्टुप् । एते ‘त्वमग्ने रुद्रः’ इत्यत्र व्याख्याते ॥
2अथाशायाः - ‘आशानां त्वाऽऽशापालेभ्यः’ इत्यनुष्टुप्, ‘विश्वा आशा मधुना संसृजामि’ इति त्रिष्टुप् । एते ‘पुनर्नः’ इत्यत्र व्याख्याते ॥
3अथानुमतेः - ‘अनु नोऽद्यानुमतिर्यज्ञं’ इत्यनुष्टुप्, ‘अन्विदनुमते त्वं मन्यासै’ इत्यनुष्टुप् । एते च ‘इदं वामास्ये’ इत्यत्र व्याख्याते ॥
4अथ कामस्य - ‘कामो भूतस्य भव्यस्य’ इत्यनुष्टुप्, ‘कामस्तदग्रे समवर्तताधि’ इति त्रिष्टुप् । एते ‘जुष्टो दमुनाः’ इत्यत्र व्याख्याते ॥
5अथ ब्रह्मणः - ‘ब्रह्म जज्ञानं प्रथमं पुरस्तात्’ इति त्रिष्टुप्, ‘पिता विराजामृषभः’ इति त्रिष्ठुप् । एते ‘अभ्यस्यात्’ , ‘अहमस्मि’ इत्यनुवाकयोर्व्याख्याते ॥
6अथ यज्ञस्य - ‘यज्ञो रायो यज्ञः’ इति त्रिष्टुप्, ‘अयं यज्ञो वर्धतां गोभिरश्वैः’ इति त्रिष्टुप् । एते व्याख्याते ॥
7अथापां - ‘आपो भद्रा घृतमित्, आदित्पश्याम्युत वा’ इति त्रिष्टुभौ ‘हिरण्यवर्णाः’ इत्यत्र व्याख्याते ॥
8अथाग्नेर्बलिमतः - ‘तुभ्यं भरन्ति क्षितयो यविष्ठ, यो देह्यो अनमयत्’ इति त्रिष्टुभौ ‘वृषाऽस्यंशुः’ इत्यत्र व्याख्याते ॥
9अथानुवित्तेः - ‘पूर्वं देवा अपरेणानुपश्यन्, प्राणापानौ चक्षुश्श्रोत्रं’ इति त्रिष्टुबस्तारपङ्क्ती ‘वार्त्रहत्याय शवसे’ इत्यत्र व्याख्याते ॥
10अथ सर्वासां स्विष्टकृतः - ‘हव्यवाहमभिमातिषाहं, स्विष्टमग्ने’ इति त्रिष्टुभौ ‘जुष्टो दमूनाः’ इत्यत्र व्याख्याते ॥
इति तृतीये काठके प्रथमोऽनुवाकः ॥
3.12.2
1अथासामिष्टीनां ब्राह्मणम् - देवेभ्यो वा इत्यादि ॥ तिरोभवत् अदर्शनमगमत् । यज्ञक्रतवो यपूवन्तः । व्याख्यातमश्वमेधे । एष्टय दति । एषणसाधनत्वादेष्टयः । अनोरर्थे आकारः । तस्मादेष्टयस्सत्य इष्टयोऽभूवन्नित्याचक्षते परोक्षत्वाय । विभक्तिव्यत्ययो वा । एष्टीस्ता इष्टय इत्याचक्षते । यद्वा - प्रजापतेस्स्वर्गान्वेषणकाले चेत्यस्य गता इष्टयः एष्टयः ताश्चेत्याः दिवश्श्येनयस्सप्त ॥
2इदानीं क्रमेण विदधाति - तमाशेति ॥ तं स्वर्गमन्विच्छन्तं प्रजापतिं आशा लिप्सा अब्रवीत् - हे प्रजापते! आशया स्वर्गलिप्सया खलु त्वं श्राम्यसि आशा मे संप्रपद्यतामिति, सा खल्वाशाऽहमस्मि तस्मात् मां नु क्षिप्रं यजस्व, अथ अनन्तरमेव तवाशा सत्या भविष्यति अभिप्रेतफलवती भविष्यति ततश्चानन्तरमेव स्वर्गं लोकं वेत्स्यसि लप्स्यसे । स एतमित्यादि । गतम् । कामानां साधयिता कामसंज्ञोग्निः प्रथमः, आशा द्वितीया, अनुमतिस्तृतीया । सोत्रेति । अग्नत्रादयस्त्रयो हविर्देवताः प्रजापतिरिष्टेर्द्रष्टा, स्वर्गः प्राप्यः, स्विष्टकृत् इष्टसाद्गुण्यकारी । एतया उत्तरा व्याख्याताः ॥
3कामः इच्छा लिप्साया उत्तरकालं फलसाधनेषूपादित्सा इदमनेन साधयामीति ॥
4ब्रह्म आत्मा मन्त्रो वा । ब्रह्मण्वान् ‘अनो नुट्’ इति नुटि ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुबुदात्तत्वम् ॥
5यज्ञ इष्ट्यादिः ॥
6आपो यज्ञसंपादनद्वारेण इष्टिसाधन्यः ॥
7अग्निर्बलिमान्नाम । बलिः पूजा ॥
8अनुवित्तिस्साधनानुष्ठानान्तरमेव साध्यलाभः ॥
9ता वा इत्यादि ॥ यथोक्तलक्षणाः ताः सप्तेष्टयः स्वर्गस्य द्वारः द्वारस्थानीयाः प्राप्त्युपाया इत्यर्थः । एता नानामार्गाः दिवश्श्येनयः दिवो द्युलोकस्य प्रापयित्र्यः । ‘श्यैङ् गतौ’ औणादिको निप्रत्ययः, एत्वं च । अनुवित्तय इति वाऽऽसां नाम, अनुष्ठानानन्तरमेव स्वर्गलाभहेतुत्वात् । तासां मध्ये प्रथमां द्वारमाशा रक्षति देवतात्वेन वर्तमाना अभिमतं साधयति । कामादयो द्वितीयाद्या रक्षन्ति । अनु ह वा इत्यादि स्तुतिर्गता ॥
10तास्वित्यादि । । अन्विष्टि इष्टाविष्टौ एतानि दद्यात् तदभीप्सितफलसमृद्ध्यै भवति । तत्र पष्ठौही चतुर्वर्षा गौः वरिष्ठा पष्ठौहीवरा प्रसूता प्राप्तगर्भा वा । कंसं भाजनं किंचित् । स्त्रियै च आभारं किंचिदाभरणं दद्यात् ॥
इति तृतीये काठके द्वितीयोऽनुवाकः ॥
3.12.3
1अथापाघा नाम पञ्चेष्टयः । वैश्वदेवं काण्डम् । एताश्च त्रिहविष्काः । उदवसानीयानन्तरमेताभिर्यजते । आसामाद्यन्तयोरग्न्यनुमस्योर्मध्ये तपआदयः पञ्च देवताः । तत्र तासामेता याज्यानुवाक्याः ‘तपसा देवाः’ इत्याद्याः । अग्न्यनुमतिस्विष्टकृतामन्ते वक्ष्यन्ते । तत्र तपसः - प्रथमा बृहती । तपसा प्रकृष्टेन देवा इन्द्रादयः अग्रे आदौ देवता आयन् अगच्छन् । ऋषयो दर्शनवन्तः तपसैव स्वरन्वविन्दन् अनुक्रमेणालभन्त । तस्माद्वयमपि तपसा सपत्नान् शत्रून् अरातीः अदानशीलान् प्रणुदाम प्रकर्षेण नाशयामः । तपो विशेष्यते - येन तपसा इदं विश्वं परिभूतं सर्वत उत्पन्नं सर्वतो व्याप्तं वा यत्किंचिच्चेतनं वा विद्यते तदिदं विश्वं येन परिभूतं तेन तपसेति ॥
2प्रथमजमिति त्रिष्टुप् ॥ प्रथमजं अग्रे जातं देवं दीप्ततमं स्वयंभु स्वयमेव भूतं अनन्यजनितं नित्यसंनिहितत्वादीश्वरे, ब्रह्म परिबृढं परमं सर्वस्मात्प्रकृष्टं ईदृशं यत्तपः तदेव वयं हविषा परिचरेम । पुनश्च तपो वर्णयति - तदेव तपः पुत्रः पिता माता च, तत्कार्यकरणात् । प्रथमजमिति यदुक्तं तत्समर्थयते - तपः खलु यक्षं यजनीयं पूज्यं प्रथमं सर्वस्यादौ संबभूव संपद्यते स्म । यद्वा - परं ब्रह्म यक्षरूपं प्रथमं आदौ तप एव संबभूव तपसो महिम्ना तादृशं ब्रह्माभूदिति ॥
3अथ श्रद्धायाः - श्रद्धयेति विराट् ॥ देवस्सर्वोपि श्रद्धया देवत्वमश्नुते आश्नुत । यद्वा - यस्सर्वोपि जनो देवो भूत्वा दीप्तिमान् भूत्वा देवत्वं प्राप्नोति श्रद्धया । किंच - लोकस्य सर्वस्य श्रद्धा प्रतिष्ठा स्थितिहेतुः । देवी दीप्तिमती । सा तादृशो श्रद्धा अस्माकं यज्ञमुपागात् आगच्छतु जुषाणा प्रीयमाणा कामवत्सा कामस्थानीयवत्सा अमृतं अमरणमपि पुरुषेभ्यो दुहाना क्षरन्ती । पुरुषाणां काम एवाभिमतक्षरणहेतुः, कामवत्सेत्युक्तम् ॥
4श्रद्धा देवी इति शक्वरी पञ्चपदा ॥ ऋतस्य यज्ञस्य प्रथमजा उपकारकत्वेनारम्भ एव जाता देवो श्रद्धा । विश्वस्य जगतः भर्त्री पोषयित्री प्रतिष्ठा स्थितिहेतुश्च । तां तादृशीं श्रद्धां वयं हविषा एतेन यजामहे । साऽस्माभिरिष्टा अस्मभ्यं अमृतं अविनाशं लोकं स्थानं दधातु ददातु । भुवनस्य भूतजातस्य सर्वस्य ईशाना देवी अधिपत्नी अधिकं पालयित्री च । तस्मात् सा नो लोकममृतं दधात्विति ॥
5अथ सत्यस्य - आगादिति ॥ अतःपरं सर्वास्त्रिष्टुभः । आगात् आगच्छतु । सत्यं सत्यात्मिका देवता इदमस्मदीयं हविः जुषाणं सेवमानं, यद्वा - जुषाणं प्रीयमाणं सत् इदं हविरागात् । यस्मात्सत्याद्विश्वे देवा जज्ञिरे, भुवनं च विश्वं जज्ञे, तस्मै सत्याय धृतेनानेन हविषा विधेम परिचरेम । किमर्थमिति चेत् - यथा वयं देवैस्सधमादं सहस्थानं मदेम तदनुरूपं विधेम । मदे तृप्तियोगे पुरादिराधृषीयो द्रष्टव्यः ॥
6यस्येति ॥ यस्य सत्यस्य प्रतिष्ठा स्थानं उरु विस्तीर्णं अन्तरिक्षं तद्वद्विस्तर्णिमिति यावत् । यस्मात् सर्वे देवा भुवनं च जज्ञिरे । गतम् । तत्तादृशं सत्यं अस्माकं यज्ञमुपागात् उपगच्छतु । कीदृशं सत्? अर्चत् पूजयत् अस्मद्यज्ञं प्रशंसत् तुष्यदिति यावत् । ब्रह्म परिबृढं आहुतीः अस्मदीयाः उपमोदमानम् ॥
7अथ मनसः - मनसो वश इति ॥ इदं विश्वं मनसो वशे विधेयत्वे बभूव भवति वर्तते, बन्धमोक्षयोरपि तन्निमित्तत्वात् । अयं तु नान्यस्य कस्यचिदपि वशं विधेयत्वं अन्वियाय अनुगच्छति, इन्द्रियादीनामपि स्वस्यैव विधेयत्वात् । तस्मात् मनोनामाऽयं भीष्मो देवः दुर्धर्षः परमस्वतन्त्रः कश्चिद्देवः । सहसः सहस्वतः बलवतोपि सहीयान् सहस्वत्तरः । ‘विन्मतोर्लुक्’ इति लुक् । स मनआत्मा देवोऽस्माकं यज्ञं जुषाणः उपागच्छतु ॥
8आकूतीनामिति ॥ आकूतीनां अभिप्रायाणामध्यवसायानां अधिपतिं अधिकं पातारमुत्पादकं चेतसां चित्तवृत्तीनां सर्वज्ञानविकल्पानां चाधिपतिं, संकल्पजूतिं संकल्पः जूतिर्गतिरस्येति संकल्पजूतिः तत्कारित्वात्, देवं देवनशीलं व्यवहर्तृस्वभावं, विपश्चिं मेधाविनं ईदृशं मनआत्मकं देवं राजानं दीप्यमानं इहोपहवे यज्ञे वर्धयन्तः स्तुत्यादिभिस्समर्धयन्तो वयं अस्य देवस्य सुमतौ कल्याणबुद्धावनुग्रहात्मिकायां स्याम भूयास्म ॥
9अथ चरणस्य - चरणं पवित्रमिति ॥ चर्यत इति चरणं धर्मः पवित्रं शोधकं विततं विस्तीर्णं पुराणं सर्वेभ्यः पूर्वं विद्यमानमीदृशेन येन पूतश्शुद्धो जनो दुष्कृतानि पापानि तरति नाशयति, तेन तादृशेन पवित्रेण शोधकेन शुद्धेन स्वयमप्यधर्मरहितेन धर्मेण पूताः क्षाळितसर्वदुष्कृता वयं पाप्मानं अधर्मं सर्वं प्राचीनमपि अरातिं अदानशीलं सर्वश्रेयसां बाधकं अतितरेम अतिक्रम्य पुण्यं स्थानं गच्छेम ॥
10लोकस्येत्यादि ॥ लोकस्य प्रकाशवतः स्थानस्य स्वर्गादेः द्वारं प्राप्तिहेतुं, अर्चिमत् अर्चनवत् सर्वैरपि पूज्यम् । ‘इन् सर्वधातुभ्यः’ इतीन्प्रत्ययः, ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । पवित्रं शोधकं ज्योतिष्मत् दीप्तिमत् भ्राजमानं उज्ज्वलितं महस्वत् ख्यातिमत्, अमृतस्य धाराः बहुधा बहुप्रकाराः दोहमानं धार्मिकेभ्य उत्पादयत् ईदृशं चरणं नः अस्मान् सुधितान् सुष्ठु निहितान् लोके दधातु स्थापयतु । ‘सुधितवुसुधित’ इति निपात्यते ॥
11अथ षण्णां प्रतीकग्रहणं, तत्राग्नेः - ‘अग्निर्मूर्धा’ इति गायत्री, ‘भुवो यज्ञस्य’ इति त्रिष्टुप् । व्याख्याते ॥
12अथानुमतेः - ‘अनु नोद्य’ इति, ‘अन्विदनुमते’ इति । प्रथमेऽनुवाके गते ॥
13अथ स्विष्टकृतः - ‘हव्यवाहं, स्विष्टं’ इति ॥ एते च तत्रैव गते ॥
इति तृतीये काठके तृतीयोऽनुवाकः ॥
3.12.4
1देवेभ्यो वा इत्यादि ॥ व्याख्यातम् ॥
2तं तपोऽब्रवीदिति । । उपवासादिकं शोधकं तपः ॥
3श्रद्धा श्रुतिस्मृत्यादिकर्मादरः ॥
4सति साधु सत्यं तथाभावः ॥
5मनः अन्तःकरणम् ॥
6चरणं धर्मः ॥
7ता एताः तपःप्रभृतिदेवताकाः पञ्चेष्टयोऽपाघा नाम पापापघातहेतवः, अनुवित्तयः अनुक्रमेणेष्टलाभहेतवः, स्वर्गस्य लोकस्य द्वारस्थानीयाः । तासां मध्ये प्रथमामिष्टिं तपो रक्षतीत्यादि गतम् ॥
8अनु ह वा इत्यादि ॥ व्याख्यातम् ॥
इति तृतीये काठके चतुर्थोऽनुवाकः ॥
3.12.5
1अथ चातुर्होत्राग्निकाण्डः हव्यवाडार्षेयः एकोऽतुवाकः - ब्रह्मवै चतुर्होतार इत्यादि ॥ ब्रह्म आत्मा, तदेव चतुर्होतारः दशहोत्रादिसप्तहोत्रान्ताः पञ्चानुवाकाः ‘चित्तिस्स्रुक्’ इत्यादयः । आत्मन्नात्मन्नित्याहूतः प्रजापतेरात्मा दशहूतत्वादिहेतुकदशहोत्रादिरूपेणाविरभवत्, ते च सर्वेऽपि दशहोत्रादयश्चतुर्होतारः । यथोक्तम् - ‘अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता’ इति । तेभ्यश्चतुर्होतृभ्योऽधियज्ञो निर्मितः तत्प्रधान उदपादि चातुर्होत्राख्यः । एवमेतेषां ब्रह्मत्वमेभ्यश्च यज्ञोत्पत्तिं यो वेद जानाति एनं वेदितारं शप्तं शापः अभिचरितमभिचारः श्येनादिक्रतुः तदुभयमपि नागच्छति न स्पृशति ॥
2यो हेति ॥ अथैषां पञ्चानां चतुर्होतृत्वं पञ्चहोतृत्वमपि यो वेद अस्मै सर्वा दिशः कल्पन्ते इष्टसिद्धये भवन्ति । सर्वे वा दिग्वासिनोऽस्य विधेया इति ॥
3तदुभयमिदानीं दर्शयति - वाचस्पतिरित्यादि ॥ छत्रिन्यायेन होतृसहिता अध्वर्य्वादयोऽप्यृत्विजो होतारः, होत्रादित्वाद्वा । चत्वारो होतारः ऋत्विजो विलक्षणाः प्रत्यनुवाकं येषां ते चतुर्होतारः । पञ्चस्वनुवाकेषु च ते भिद्यन्ते । प्रथमे वाक्पत्यादयः, उपवक्ता, ब्रह्म, हविः, अग्नीत् । द्वितीये पृथिव्यादयः । तृतीयेऽग्न्यादयः । चतुर्थे वागादयः, अभिगरो ब्रह्मा । अत एव वचनात् ‘सूर्यं ते चक्षुः’ इत्यस्य षढ्ढोतृग्रहणं, तस्य होतृराहितत्वात् । पञ्चमे महाहविरादयः । एवं विलक्षणहोत्रादिचतुष्टयवत्त्वाच्चतुर्होतार एते । ‘ऋतश्छन्दसि’ इति क्विबभावः ततो भावप्रत्ययः, तस्य सतिशिष्टत्वादुदात्तत्वम् । अथ पञ्चप्रकारं होतृत्वमेषां, पञ्चस्वनुवाकेषु तस्य भिन्नत्वात्, पञ्चानां होतृत्वानां समाहारः पञ्चहोतृत्वम् । ‘अनिगन्त’ इत्युत्तरपदे व्यत्ययेन द्विगुस्वरः, बहुव्रीहिरेव वा चतुर्होतृत्वमित्यनुवादार्थः । अयमर्थः - यश्चतुर्होतॄणां चतुर्होतृत्वं होत्रादिचतुष्टयवत्त्वम्, अथो अपिच एषां इदं चतुर्होतृत्वं पञ्चहोतृत्वं पञ्चप्रकारेण । तद्वच्च यो वेदेति । सर्वा हास्मा इति । पूर्वं विदित्वा यष्टुः फलं, इदं तु वेदितुरेव ॥
4एषा वा इति ॥ एते पञ्चाध्यायाः सर्वविद्या सर्वविद्यापुण्यफलहेतवः सर्वविद्यापेक्षं स्त्रीत्वम् । एतत् भेषजं, एतेऽनुवाकास्सर्वानिष्टोपशमनभेषजस्थानीयाः, भेषजापेक्षं नपुंसकत्वम् । एवं सर्वत्र । एतेऽनुवाकास्स्वर्गस्य लोकस्य अञ्जसायनिः आर्जवेन गमनसाधनभूता स्रुतिः मार्गः । ‘अञ्जस उपसंख्यानं’ इति तृतीयाया अलुक् । स्रुऽतिर्विशेष्यते - पङ्क्तिः पञ्चपदा पञ्चाध्यायीरूपत्वात् । यद्वा - एषा पङ्क्तिः पञ्चाध्यायी स्वर्गस्याञ्जसायनिः स्रुतिः । अथ एताननुवाकान् योऽध्यैति अधीते। व्यत्ययेन परस्मैपदम् । अथवा अध्यैति अधिगच्छति अर्थमनुसंदधानः पठति । ‘एत्येधत्यूठ्सु’ इति वृद्धिः । अछदिर्दर्शे अगृहदर्शने प्रदेशे अरण्ये । छान्दसं द्व्युदात्तत्वम् । यद्वा - न गृहदर्शने । असमस्त एव निषेधवचनोऽकारः । यावत्तरसं यथाबलं शक्तिमवयन् । पूर्ववद्व्युदात्तत्वं छान्दसं, असमासो वा । तर एव तरसं तेनेत्यर्थः । स्वरेति प्राप्नोति, अनपब्रवः वक्तव्यान्तरावक्षिप्तं वचनमपब्रवः तद्रहितोऽनपब्रवः । वच्यादेशाभावश्छान्दसः । ईदृग्भूतो योऽधीते स सर्वं पुरुषायुषं जीवति, लभते च प्रजां भूयिष्ठां, रायस्पोषं धनपुष्टिं गौपत्यं गोस्वा- मित्वं च विन्दति, ब्रह्मवर्चसी च भवति । अथैतदध्ययनेन आत्मानं प्रजां च पितॄंश्च प्रीणयति ॥
5एतान् वा इत्यादि ॥ अरुणो नाम उपवेशस्यापत्यं विदांचकार याथातथ्येन एतान् विदितवान् । ‘उषविदजागृभ्यः’ इत्यांप्रत्ययः, अदन्तत्वाल्लघूपधगुणाभावः । ततस्स एतैर्विदितैः अधिवादं अपाजयत्, उपरिवक्ता अधिवादः । य एनं वादे न्यग्भावयति तमपाजयत् । विश्वं च पाप्मानमपाजयत्, ययौ च स्वर्गम् । एतानित्यादिरध्येतुः फलनिर्देशः ॥
6एतैरित्यादि ॥ एतैरेव महाप्रभावैः दशहोत्रादिभिः सामर्थ्यात् सग्रहैस्सहृदयैस्सप्रतिग्रहैस्ससंभारयजुर्भिस्सपत्नीकैः अग्निं चिन्वीत, स्वर्गकामो वा आयुष्कामो वा प्रजां पशूंश्च कामयमानो वा । प्रजापशुशब्दात् द्वंद्वात् ‘शीलिकामि’ इत्यादिना णप्रत्ययः, पूर्वपदप्रकृतिस्वरत्वं च । तत्र प्रजापशूनां कथंचिद्देवतात्वात् ‘देवताद्वंद्वे च’ इत्याद्युदात्तत्वम् ॥
7इदानीमुपधानक्रमं दर्शयति - पुरस्तादित्यादि ॥ अग्रेण दर्भस्तम्ब दक्षिणत आरभ्य उदञ्जं दशहोतारमुपदधाति । यावत्पदं यावन्ति पदानि दशसंख्यानि तावतीरिष्टका उपदधाति ‘चित्तिस्स्रुक्, तया देवतया’ इत्यादिभिर्दशभिर्मन्त्रैः । पदग्रहणं ग्रहनिवृत्त्यर्थं, वक्ष्यति च - ‘यथाऽवकाशं ग्रहान्’ इति । हृदयमिति दशहोतृहृदयं, एकामिष्टकां ‘सुवर्णं घर्मं’ इत्यारभ्य ‘ब्रह्मेन्द्रम्'24 इत्यतः प्राक् । यजुषी इति द्वे इष्टके संभारयनुषी ‘अग्निर्यजुर्भिः । सविता स्तोमैः’ इति । पत्न्यौ च द्वे इष्टके देवपत्न्यौ ‘सेनेन्द्रस्य । धेना बृहस्पतेः’ इति । दक्षिणत इत्यादि । प्राञ्चं प्रागारभ्य प्राग्रीतिकं, एवं सर्वं, यावत्पदमित्यादि समानम् । हृदयादीन्युत्तराणि गृह्यन्ते । उपरिष्टादिति दर्भस्तम्बस्य । हृदयमिति सप्तहोतृहृदयं ‘इन्द्रो राजा'24 इत्यारभ्याऽन्तादनुवाकस्य । यजूंषि शिष्टानि त्रयोदश पत्न्यः शिष्टा आन्तादनुवाकस्य । यथाऽवकाशं अन्तराळानुपधानेषु ग्रहान् ‘वाचस्पते विधे नामन्’ इत्याद्यान् ग्रहान् ‘देवस्य त्वा’ इत्याद्यान् ‘उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु'28 इत्यन्तान् ‘अग्नये हिरण्यं, सोमाय वासः'28 इत्याद्यात्मकान् । लोकंपृणा व्याख्याताः । एवं चिन्वानस्य सर्वा देवताः प्रीताः तर्पिताः अभीष्टाः पूजिताश्च भवाति । सदेवं देवसहितं देवार्हमेवाग्निं चिनुते य एवं चिन्वानः ॥
8रथसंमित इत्यादि ॥ रथेन संमितः रथप्रमाणः । वज्रो रथः वज्रतृतीयांशत्वात् ‘स्फ्यस्तृतीयं रथस्तृतीयं’ इति । स्तृणुते हिनस्ति । पक्षस्संमितः पक्षसा चक्रेण तुल्यप्रमाणः चक्रप्रधानत्वाद्रथस्य । तदतिरेकेण रथो नास्ति, तस्मात्पक्षस्संमितो रथसंमित इति ॥
9इममेवेत्यादि ॥ पशुबन्धादिभिरेकैकलोकजयः अहीनेन सत्रेण चानन्तलोकजयः, तस्मात्पशुबन्धादिष्वयं चेतव्यः, येन पशुबन्धादियाजी सर्वान् लोकानभिजयतीति भावः ॥
10वर इति ॥ वरिष्ठं द्रव्यं गवादि, तेन वरेण वरं आत्मानमेव स्पृणोति प्रीणयति ॥
11एकविंशतिरिति ॥ विभक्तिव्यत्ययः । एकविंश इति । सप्तदशः प्रजापतिः त्रय इमे लोकाः असावादित्य एकविंशः, स एव स्वर्ग इति । न लोकमात्रं, आदित्यमेवाप्नोति । शतमित्यादि । गतम् । सहस्रसंमित इति बहुमूल्य इत्यर्थः ॥
12अन्विष्टकमिति ॥ इष्टकायामिष्टकायां सर्वाणि वयांसि द्रव्याणि । सर्वेण वयसा बाल्येन तारुण्येन वार्धक्येन वा उपलक्षितानि ददाति, तत् सर्वस्य लाभाय वशीकरणाय च भवति ॥
13यदि न विन्देतेति ॥ यदि सर्वाणि वयांसि न लभते एतावत्संख्यान् मन्थान् द्रवसंयुक्तान् सक्तूत् ओदनान्वा दद्यात् । सर्वं कामं प्रेप्सितं अश्नुते ॥
14पष्ठौहीमिति ॥ चतुर्वर्षामन्तर्वतीम् । ‘वा छन्दसि नुग्विधिः’ इति नुगभावः । अस्या अवश्यं देयत्वाय तुशब्दः । सा हीति । सर्वैर्वयोभिस्तुल्या । गतमन्यत् । प्रतिरते वर्धयति । वेदितृतीय इति वेद्यास्त्र्यंशे । त्रिषत्या हति । त्रित्वेन सत्यत्वं येषां ते तथोक्ताः । सुषामादित्वात् षत्वम् । एवं कुर्वन् ससत्यं सत्यसहितं फलाविसंवादिनं अग्निं चिनुते ॥
15तदेतदित्यादि ॥ यदेतत् ‘वेदितृतीये यजेत’ इत्यन्तं ब्राह्मणं पशुबन्धे ब्रूयात् यदाऽयमग्निः पशुबन्धे क्रियते तदैव । यदा त्वितरेषु यज्ञेषु क्रियते न तदानीं ब्रूयात् ॥
16यो ह वा डति ॥ अनुसवनं सवने सवने सोमपीथः सोमपानं एनमुपनमति पुनः पुनस्सोमेन यजते । बहुविदः षडङ्गवेदार्थविदः । वृञ्जीरन् वर्जयेरन् । गतमन्यत् । अङ्गुलिकाण्डं उत्तमं अङ्गुलेरुपरि पर्व यज्ञस्य च पर्व यजमानः । अक्ता इति आज्येन ‘तेजो घृतं’ इति स्तुतेः ॥
17अग्निं चित्वेत्यादि ॥ मैत्रावरुण्याऽऽमिक्षया यजेत । अग्निं चिन्वानो हि वीर्येण वियुज्यते तपसा क्षीणवीर्यो भवति, तत्रान्यतरेण यागेन सर्वं वीर्यमस्मिन् स्थापयति । अथैतमग्निं चिन्वानः एतं एवंमहिमानं विद्वांश्च ब्रह्मणस्सायुज्यं सलोकतां चाप्नोति ब्रह्ममयत्वाद्दशहोत्रादीना ‘ब्रह्म वै चतुर्होतारः’ इति । तथा एतासां देवतानां दशहोत्रादीनां सायुज्यं समानयोगत्वं सार्ष्टितां समानशरीरत्वं समानलोकतां एकलोकतां चाप्नोति । सावित्रेऽप्यग्नावेतद्ब्राह्मणं यदिदं चातुर्होत्रे उक्तं, अथो अपिच एतदेव नाचिकेतेऽप्यग्नौ ब्राह्मणं विधिरित्यर्थः ॥
इति तृतीये काठके पञ्चमोऽनुवाकः ॥
3.12.6
1अथ वैश्वसृजकाण्डं हव्यवाडार्षेयं - यच्चामृतमित्यादयश्चत्वारोऽनुवाकाः । तत्र सन्ति परिमण्डलास्तिस्रो लेखाः । तस्यां बाह्यायामष्टादशोपदधाति - यच्चामृतमिति ॥ सर्वाः पङ्क्तयो यजुरन्ता अनुष्टुभो वा । यच्च किंचिदिह अमृतं मरणरहितं नित्यं, यच्च किंचिन्मर्त्यं मरणशीलमनित्यं, यच्च किंचित् प्राणिति उच्छ्वसिति, यच्च किंचित् न प्राणिति सर्वं तदिष्टकात्वेन संकल्प्यम् । इष्टकापेक्षं स्त्रीत्वं बहुत्वं च इष्टकात्वेन कामदुघाः सर्वाभिमतसिद्धिहेतूनुपदधे । यदा त्वामुपदध इति शेषः । त्वमपि तादृशी तेन ऋषिणा मन्त्रेण, ब्रह्मणा उपधानकर्मण, तया देवतया सर्वदेवतात्मकेनात्मना अङ्गिरसामिव अस्माकमपि ध्रुवा निश्चला सीद । एतयैवोत्तरा व्याख्याताः । सर्वास्ता इति चोत्तरार्धस्य प्रतीकग्रहणं सर्वत्र समानम् ॥
2नस्त्रीपुमं स्त्री पुमांश्च न भवतीति नस्त्रीपुमम् । अन्त्यस्याकारश्छान्दसो नलोपाभावश्च ॥
3देवमायया देवप्रज्ञया अन्येषामशक्यत्वात् ॥
4पशूनां पुष्टिहेतुत्वेन पृथिव्यां निहिता ऊषाः ‘संज्ञानं वा एतत्पशूनाम्’ इति ॥
5यावत्यस्सिकतास्सर्वाः स्थले, अप्सु चान्तः ॥
6यावत्यश्शर्करा अस्यां पृथिव्यां धृत्यै उपरि आसन् ‘तां शर्कराभिरदृंहत्’ इति ॥
7प्रतिष्ठासु पर्वतेषु प्रतिष्ठिताः ॥
8-10विष्ठिताः विविधं स्थिताः वीरुधः लताः गुल्माश्च पृथिवीमनुप्राप्य ॥
11सर्व आरण्याश्च य इति ॥
12द्विपादो मनुष्यादयः, चतुष्पादो गवादयः, अपादः पादरहिताः, उदरसर्पिणः उदरेण सर्पणं शीलं योगं ते उरगादयः । ‘सुप्यजातौ’ इति णिनि । अपाद इति लोपश्छान्दसः ॥
13-18देवत्रा देवेषु । ‘देवमनुष्य’ इति त्राप्रत्ययः । मानुषं मनुष्येषु भवं, यावदाञ्जनं स्नेहद्रव्यम् । कृष्णायसं काळलोहं, देवलोके मनुष्यलोके च । ‘अनोऽश्मायस्सरसां’ इति टच्समासान्तः दासीभारादिर्द्रष्टव्यः । लोहायसं लोहितायसं ताम्रम् । हिरण्यं हितरमणीयं रजतं सुवर्णं काञ्चनं हरितं हरितवर्णमुत्तमम् । इष्टकादेः पुनराम्नानमनुषङ्गाविच्छेदसूचनार्थम् ॥
इति तृतीये काठके षष्ठोऽनुवाकः ॥
3.12.7
1अभ्यन्तरायां लेखायां पञ्चदशोपदधाति । सर्वा दिश इत्यादि ॥ सर्वा दिशो दिक्षु यच्चेति प्रथमः पादः । सर्वाः दिशः, तासु च सर्वासु दिक्षु यदन्तः मध्ये भूतं उत्पन्नं, यच्च प्रतिष्ठितं लब्धस्थितिकं वस्तु ॥
2यच्च केवलं शुद्धं वस्तु, यच्चास्मिन्नाकाशे आहितमन्तः ॥
3आन्तरिक्ष्यः अन्तरिक्षे भवाः गन्धर्वाप्सरसः, ये चान्ये विद्याधरादयः ॥
4उदारान् एकदिन एव जलवर्षणशीलान् सलिलान् सलिलवतो मेघान् । मत्वर्थीयो लुप्यते । अन्तरिक्ष एव प्रतिष्ठितान् नान्यत्र ॥
5अथ अन्यान् उदारान् वर्षणशीलान् सलिलान् सहलयः सलिः तद्वतः परस्परनिलीनदेहान् । सिध्मादित्वाल्लच् छान्दसं ह्रस्वत्वं, चित्त्वादन्तोदात्तत्वम् । स्थावराः स्थानशीलाः, प्रोष्याः प्रवासशीलाः । छान्दसः कर्तरि ण्यत् प्रसारणं च ॥
6सर्वां धुनिं नदीः, सर्वान् ध्वंसान् कम्पयितॄन् । ध्वंसतेः पचाद्यच् । वाय्वादय उच्यन्ते । यद्वा - ध्वंसाः नद्या गतिप्रकाराः । हिमात्मना यज्जलं शीयते पतति ॥
7मरीचीन् रश्मीन् विततान् विस्तारितान् जलादिवर्षणाय सूर्येण प्रेरिता, येभ्यश्च नीहारश्शीयते पतति । ‘सुपां सुलुक्’ इति पञ्चम्या लुक् ॥
8सर्वा विद्युत इति त्रिष्टुप् ॥ ह्रादुनीः अशनिशब्दः । इनिप्रत्ययस्य छान्दसं दीर्घत्वम् । येभ्यः स्तनयित्नुभ्यः ह्रादुनीः अशनिः पतति ॥
9स्रवन्त्यो नद्यः पृथिवीस्थिताः । अन्तरिक्षनद्यः प्रागुक्ताः ॥
10याश्च कूप्या इति जगती ॥ कूपे भवाः आपः । ‘भवे छन्दसि’ इति यत् । नाद्याः ‘पाथोनदीभ्यां ङ्यण्’ समुद्रियाः ‘समुद्राभ्राद्धः’ वैशन्त्यः उत्सभवाः ‘वेशन्तहिमवद्भ्यामण्’ प्रासच्यः प्रासमञ्चन्त्यः आवर्तभवाः ॥
11ये मेघा उत्तिष्ठन्ति उपरतवृष्टयः पलायन्ते, ये च वृष्टिशीला वर्षन्ति । यद्वा - याः वृष्टयः पृथिवीं सिञ्चन्ति ॥
12तपः आतपः, तदीयः प्रकाशः तेजः, तस्यावकाश आकाशाम्, तस्मिन्नप्याकाशे यत्प्रतिष्ठितम् ॥
13-15वयांसि पक्षिणः यदन्यदन्तरिक्षचरं, नाम संज्ञा, रूपं रूपणीयं इदं तदिति विकल्पनीयम् ॥
इति तृतीये काठके सप्तमोऽनुवाकः ॥
3.12.8
1अभ्यन्तरायां लेखायां नवोपदधाति - सर्वा दिवमिति ॥ प्रथमा त्रिष्टुप् ॥
2रोचने रोचनशीले बिम्बे, दिवि आकाशे, तारकाः अश्विन्यादयो देव्यः ॥
3अथर्वाङ्गिरसः अथर्ववेदः, तैर्दृष्टत्वात् ॥
4इतिहासपुराणानि च सर्पाणां देवजनानां यक्षादीनां च प्रतिपादकाः ग्रन्थाः ॥
5लोकाः प्रकाशवन्ति स्थानानि, अलोकाः अप्रकाशाः पाताळादयः । यच्चान्यदन्तर्भूतं पृथिव्यादिषु भूतेषु प्रतिष्ठितम् ॥
6-8यच्च ब्रह्म वेदवित् ब्राह्मणादि, यच्चाब्रह्म शूद्रादि, प्रतिलोमान्तं ब्रह्मण्येव प्रतिष्ठितं, सर्वमूलत्वात्त्रैवर्णिकानाम् । यद्वा - ब्रह्म वेदः, अब्रह्म बौद्धाद्यागमः, अन्तर्ब्रह्मन् प्रतिष्ठितं स्मृत्यादि तन्मूलत्वात् । केचिदाहुः - यद्ब्रह्मपरं, यच्च परस्मिन् ब्रह्मणि प्रतिष्ठितं अब्रह्म तस्यैव परिणामः प्रपञ्चः ॥
9भूतं अतीतं, भव्यं भवत्, यच्चात ऊर्ध्वं भविष्यति । ‘भव्यगेय’ इति निपात्यते ॥
इति तृतीये काठके अष्टमोऽनुवाकः ॥
3.12.9
1ब्रह्मा सदस्यासीनो वैश्वसृजान् व्याचष्टे - ‘ऋचां प्राची’ इत्यादीन् ॥ व्याख्यातरूपाश्श्लोका एते वेदमाहात्म्यपराः, प्रयोजनं तत्प्रामाण्याद्वैश्वसृजस्यानुष्ठेयता । तत्र प्रथमे जगत्यौ । प्राची दिक् महती महनीया उदयाधारत्वात् । सा ऋचां स्वभूता वेदविद्भिरुच्यते, ऋग्भिरुत्तेजितबलेत्यर्थः । दक्षिणां दिशं यजुषां स्वभूतामाहुस्सन्तः अपारां समाप्तिरहिताम् । अथर्ववेदस्य स्वभूता प्रतीचीत्युच्यते । साम्नामुदीची स्वभूता, तस्याः महत्त्वं सामसंबन्धात्, सामर्थ्याच्च । ऋगादीनामपि प्राच्यादिसंबन्धेन वीर्यातिशयो भवतीति वेदितव्यम् ॥
2ऋग्भिरिति ॥ दिवि आकाशे देवः दीप्तिमान् सविता ईयते गच्छति ऋग्भिरुत्तेजितबलः । ‘ईङ् गतौ’ दैवादिकः । अह्नो मध्ये यजुर्वेदे देवस्तिष्ठति तदधीनबलो भवति । अस्तमये सामवेदेनोत्तेजितबलो महीयते पूज्यते । यत एवमतस्त्रिभिर्वेदैरशून्य उत्तेजितसामर्थ्य एति गच्छति वर्तते सूर्यः सावकः प्रेरको वा सर्वस्य जन्तोः ॥
3ऋग्भ्य इति ॥ द्वे त्रिष्टुभौ । सर्वशः सर्वामपि मूर्तिम्। याजुषी यजुर्भिर्निर्वृत्ता । शश्वत् सर्वदा । सामरूप्यं सामरूपे भवम् । अतः सर्वमिदं द्रव्यक्रियागुणात्मकं जगत् ब्रह्मणा वेदेनैव सृष्टं, सामान्यस्य पारतन्त्र्याद्गुणत्वमिति ॥
4ऋभ्यो जातमिति ॥ त्रिभ्यो वेदेभ्यः त्रयो वर्णा जाताः, तन्मूलाश्चान्ये सर्वे । अथात्र किं प्रमाणं वेदत्रयप्रभवं सर्वमिति? तत्राह - पूर्वे ऋषय एतद्वचनमुक्तवन्त इति । त्रयीभवं सर्वमिति । तेषां तर्हि किं प्रमाणं? इत्याह - पूर्वेभ्यो महर्षिभ्यः श्रुत्वा । यद्वा - एवं वेदेभ्यस्सर्वं जातमित्युक्तम्, इदानीं वेदानां सर्वार्थेषु प्रामाण्यं दर्शयति - इतः पूर्वेभ्यः अतीतेभ्यस्तादृग्भ्य एतदेव वचः प्रमाणत्वेन ऊचुः इत्थं श्रूयत इति, न तु पुरुषवाक्यं दर्शयन्तो दृष्टा हति । तस्मात् सर्वतः प्रमाणं वेदा इति ॥
5इदानीं तस्यैव स्थेम्ने विश्वसृजां सत्रासनमुदाहरति - आदर्शमित्यादयोऽनुष्टुभः । आदर्शं परिमण्डलाकारं वैश्वसृजं अग्निं चिन्वानाः । एतेनावश्यकर्तव्यतामग्नेर्दर्शयति । अमृताः अमरणधर्माणः कर्ममाहात्म्यात् शतं बहुसंख्याः, शतमेव वा विश्वसृजो नाम विश्वस्य जगतस्स्रष्टारः पूर्वे प्रथमजाताः दीक्षितास्सन्तः सत्रमासत सहस्रसंख्यानि वर्षाणि वर्षसहस्राणि । यद्वा - आदर्शं वैश्वसृजमग्रिं चिन्वानाः पूर्वे विश्वसृजोऽमृता बभूवुः । कदा? इत्याह - यदा दीक्षिताः वर्षसहस्त्रं सत्रमासत तदा अमृता अभवन् ॥
6इदानीं सत्रमेव वर्णयति - तप आसीदिति ॥ परमात्मसंबन्धि तप एव गृहपतिः मुख्यो यजमानोऽभवत्, तन्मूलत्रत्वात्सर्वस्य, ब्रह्म परमात्मैव स्वयं ब्रह्म बभूव, सर्वासामनुज्ञातृत्वात् । एषां विश्वसृजां सत्यमेव होताऽभवत्, सत्यप्रधानत्वाद्धोतुः, यथा - ‘सत्यं प्रपद्ये’ इति । यदा विश्वसृजस्सत्रमासत ॥
7अमृतमिति ॥ अमृतत्वमुदगायत्, उद्गातृपदव्यामवर्तत, अमृतीभूतानां गानप्रियत्वात् । परिवत्सरान् संवत्सरान्, अत्यन्तसंयोगे द्वितीया । भूतं भूतकालः प्रस्तोताऽभवत्, उद्गानात्पूर्वभावित्वात्प्रस्तावस्य । भविष्यत् भविष्यत्कालश्च प्रत्याहरत् प्रतिहर्तृकृत्यमकरोत्, उद्गानादूर्ध्वभावित्वात्प्रतिहारस्य ॥
8प्राणः अध्वर्युः बभूवुः सर्वदा व्यापृतत्वात् । इदं सर्व सिषासतां संभक्तिं व्यक्तीकर्तुमिच्छतां सत्रे सति । ‘जनसनखनाम्’ इत्यात्वम् । अथ तस्मिन्नध्वरे अपानः प्रतिप्रातिष्ठत् प्रतिप्रस्थातृत्वेनावर्तत, अध्वर्युप्रतिरूपवृत्तित्वात्तस्य आवृतः स्वव्यापारान् विद्वान् ॥
9आर्तवाः ऋतुधर्माः उपगातारोऽभवन्, गुणभूतत्वात् । ऋतवः सदस्या अभवन्, द्रष्टृत्वात्सर्वार्थानाम् । अर्धमासाश्च मासाश्च चमसाध्वर्यवोऽभवन् संघातवृत्तित्वात् ॥
10तेज एव ब्रह्मणोऽशंसत् ब्राह्मणाच्छंसित्वेऽतिष्ठत्, प्रकाशकत्वात् । ब्रह्म ब्राह्मणं तत आदाय शंसतीति ‘ब्राह्मणाच्छंसिन उपसंख्यानम्’ इति पञ्चम्या अलुक् । यश एव अच्छावाकोऽभवत्, यशस्विनामभिमुखवादित्वात् । यदा विश्वसृजः सत्रमासत, तदा एषां ऋतमेव प्रशास्ता मैत्रावरुण आसीत् प्रशास्तृभावं प्रापद्यत, ऋतप्रियत्वान्मित्रावरुणयोः ॥
11ऊर्क् बलं राजानं सोममुदवहत् सोमविक्रय्यभवत्, बलवदधिकारात् । सहः पराभवसामर्थ्यं तदेव ध्रुवगोपोऽभवत् ध्रुवस्य गोप्ताऽभवत्, सहस्वान् हि गोपायति । ओजः प्रकाशः, तदेव ग्राव्णोऽभ्यष्टौत् ग्रावस्तुदभवत्, प्रकाशहेतुत्वात् स्तोत्रस्य । यद्विश्वसृज आसत । गतम् ॥
12अपचितिः पूजा सैव पोत्रीया पोतृसंबन्धिनीमिज्यां अयजत्, पूतत्वात्तद्विदः । गहादित्वाच्छः । त्विषिः कान्तिः दीप्तिरेव नेष्ट्रीयां नेष्टृसंबन्धिनीमिज्यां अयजत्, दीप्तिमत्त्वात्तद्विदः । यद्वा - उभयत्रापि भावे ‘होत्राभ्यः’ इति छः । ततस्तद्वतीं याज्यामकरोदिति मत्वर्थीयोऽकारः । श्रद्धैव स्वयमाग्नीघ्रादयजत् आग्नीघ्रस्य यागमकरोत् आग्नीध्र्योऽभवदिति यावत्, श्रद्धातिशयसाध्यत्वात्तस्य । यद्वा - प्रथमायाः ‘सुपां सुलुक्’ इत्यादादेशः । आग्नीघ्रात् आग्नीध्र इत्यर्थः । सत्यं विदुषी आग्रीध्रयजनयाथातथ्यज्ञा ॥
13इरा वृष्टिरेव विश्वसृजां पत्नी बभूव पत्नीपदव्यामभवत्, तन्मूलत्वात्सर्वप्रवृत्तेः । आकूतिस्संकल्पः, सा हविरपिनट् पिनष्टिस्म आरम्भसाम्यात् । क्षुच्च तृष्णा चेत्युभे उग्रे छेदनकुशले एभ्यः इध्ममावहतां आहरताम् ॥
14वागेव सरस्वत्येव एषां सुब्रह्मण्याऽभवत् सुब्रह्मण्यपदव्यामभवत् । वागपेक्षं स्त्रीत्वम् । यद्वा - ‘सुपां सुलुक्’ इत्याकारः । सुब्रह्मण्या सुब्रह्मण्यम् । वाचं विशिनष्टि - छन्दोयोगान् छन्दसां गायत्र्यादीनां युक्तिं गुरुलघ्वादिविचित्रान् वृत्तिप्रकारान् विषेण जानती, कल्पतन्त्राणि, कल्पाः कल्पसूत्राणि, तन्त्राणि व्याकरणादीन्यङ्गशास्त्राणि छन्दोविचितिव्यतिरिक्तानि तन्वाना कर्मानुरूप्येण विस्तारयन्ती, अहस्संस्थाः अह्नां संस्थाश्च साह्नाहीनसत्रात्मिकाः सर्वशः कार्त्स्न्येन प्रकृतिविकृतिक्रमेण विस्तारयन्ती, ईदृशी वागेव सुब्रह्मण्याऽऽसीत् ॥
15अहश्च रात्रिश्च पशून् सवनीयादीन् अपालयतां तत्र नियुक्ते अभूताम् । मुहूर्ता एव प्रेष्याः कर्मकरा अभवन्, कर्मनिर्वृत्तिहेतुत्वात्तेषाम् । ‘प्रादूहोढोढ्येषैष्येषु’ इति वृद्धिः व्यत्ययेन न प्रवर्तते । मृत्युश्शमिताऽभवत् । धाता कर्मानुरूप्येण व्यवस्थापयिता । विशां प्राणिनां पतिः नियन्तृत्वेन स्वामी ॥
16विश्वसृज इत्याद्यास्त्रिष्टुभः ॥ एवं विश्वसृजः प्रथमाः स्थूलप्रपञ्चोत्पत्तेः प्रागेवाद्यधर्मत्वेन विद्यमानाः स्थूलप्रपञ्चसृष्ट्यर्थं सहस्रसमं सहस्रसंवत्सरं सत्रमासत । के पुनस्ते? ‘तप आसीद्गृहपतिः’ इत्यादिनाऽनुक्रान्तास्तपःप्रभृतय एव । प्रसुतेन सोमेन यन्तः सत्रं नयन्तः सहस्रसंवत्सरानासत । ततः कर्मणो बलात् ब्रह्मनाम ब्रह्माख्यं परमात्मसंज्ञं यत्तदनुक्रान्तानां तपःप्रभृतीनामाश्रयभूतं जज्ञे प्रादुर्बभूव व्यक्तिं जगाम । कथं? भुवनस्य गोपाः गोपायिता उत्पादकः, हिरण्मयः हितरमणीयस्वरूपः, हिरण्यवर्णो वा । शकुनिः शक्तः प्रपञ्चोत्पादने । प्रजापतिः योनिस्थानीयाद्ब्रह्मणः पुत्रस्थानीयः प्रादुर्बभूव । यद्वा - शकुनित्वादिलक्षणं तदेव ब्रह्म प्रपञ्चरूपेण व्यक्तिं गतं, योनिस्थानीयात्तस्मात्पुत्रस्थानीयं विश्वं जज्ञे ॥
17तदेव ब्रह्म वर्णयति - येन महातेजसा इद्धः संदीप्तबलः सूर्यः तपति तेजस्वी भवति । योनेराकाशादेरपि योनौ तस्मिन् स्थितं वर्धते । कथम्? पिता पुत्रेण तद्वान् भवति, तथा पुत्रश्च पितृमान् भवति । एवं कार्यकारणक्रमेण तदनुगृहीतं विश्वं विजृम्भते । तं महानुभावं बृहन्तं महान्तं देवं अवेदवित् अवेदार्थज्ञो न मनुते न जानाति । संपराये मरणकाले संसारे वा, सर्वानुभुं सर्वत्रानुभवरूपेण वर्तमानं, सर्वस्य वा अनुभवितारं तद्रूपादित्वात् सुप्रत्ययः । आत्मानं परमात्मानम् । इयमविदुषो निन्दा ॥
18अथ विदुषः प्रशंसा - ब्राह्मणस्य वेदार्थज्ञस्य, ब्रह्म वेत्तीत्यण् । वेदार्थविदः एष महिमा माहात्म्यं नित्यः अविकृतः । न ह्ययं कर्मणा पुण्येन ज्योतिष्टोमादिना वर्धते न च कर्मणा पापकेन ब्रह्महत्यादिना कनीयान् भवति न ह्रसति । किंचायं वेदार्थज्ञः तस्यैव ब्रह्मणः आत्मा भवति तेनैक्यं प्रतिपद्यते । कदा? तं विदित्वा याथातथ्येन तं वेदादवगम्य । किं तमेव केवलं? नेत्याह - पदवित् तस्य यत्पदं विषयः तदपि तेन नित्याविनाभूतं परमपि ब्रह्म विदित्वा । पापकेन कर्मणा न लिप्यते बन्धनेन कर्मणा पुण्यपापात्मकेन न स्पृश्यते मुच्यत इत्यर्थः ॥
19अथ विश्वसृजामयनस्याहःकॢप्तिं दर्शयति । पञ्चेति ॥ अतः परं ब्राह्मणम् ।पञ्चाशदधिकशतद्वयसंख्यास्संवत्सरास्तावत्संवत्सरसंबन्धिनो दिवसाः त्रिवृतः त्रिवृत्सोमका भवन्ति । तावद्भिः पञ्चदशाः, तावन्तस्सप्तदशाः, तावन्त एकविंशाः । तस्माद्विश्वसृजामयनमेतत् सहस्रसंवत्सरं भवति । एतेन वा इत्यादि । गतम् ॥
20विश्वमेनानित्यादि कर्तॄणां प्रवक्तॄणां श्रोतॄणां च फलस्तुतिः ॥ एनाननु एनान् हेतून् कृत्वा विश्वं प्रजायते उत्पद्यते, ब्रह्मणश्च सायुज्यं सलोकतां च एते यन्ति गच्छन्ति तथा एतासामेव देवतानां विश्वसृजां सायुज्यं सार्ष्टितां समानलोकतां च गच्छन्ति के? ये एतत्सत्रमुपयन्ति, ये चैनत्प्राहुः एतन्माहात्म्यं कीर्तयन्ति, येभ्यश्च श्रोतृभ्यः श्रद्दधानेयः एतन्माहात्म्यं प्राहुः, ते सर्वेऽपि तुल्यफलभाजो भवन्ति । किं सत्यमेतदित्यसंभावयन्तं प्रति पुनरवगच्छति ओं इति । एतत्सर्वं सत्यमित्यर्थः । मन्त्रोऽयम्, ऋक् एकेषाम् । सर्वथा सर्वार्थसिद्धिः ॥
इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीये काठके नवमोऽनुवाकः ॥
समाप्तस्तृतीयः प्रपाठकः ॥
एष निष्पावके शाके कुशिकान्वयजन्मना ।
भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रवर्तितः ॥
ओम् तत्सत् ॥