3.11.1
1 अथ नाचिकेतकाण्डे हव्यवाट् ऋषिः, एकविंशतिं हिरण्येष्टकाश्शर्करा वाऽभ्यक्ता नाभ्यामेवोपदधाति ‘लोकोऽसि स्वर्गोऽसि’ इत्यनुवाकेन प्रतिमन्त्रम् । तत्र ‘पाङ्क्तमेव चिन्वीत’ इत्यादयो विकारा ब्राह्मणोक्तास्तत्रैव द्रष्टव्याः । समस्तोऽनुवाको यजूंषि । तत्र सर्वात्मत्वेनेष्टका स्तयूते - लोकोऽसि भोगस्थानं त्वमसि । लाको विशेष्यते - स्वर्गः सुखैकान्तो लोकोऽसि । अनन्तः अविनाशो लोकोऽसि । अपारः अनवधिकभोगः । अक्षितः केनचिदप्यखण्डितः । अक्षय्यः क्षेतुमशक्यः । ‘क्षय्यजय्यौ शक्यार्थे’ इति निपात्यते । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । तपसः प्रतिष्ठा आधारस्त्वमसि । सति लोके तपस्तप्यते । इदं विश्वं जगत् त्वयि अन्तर्गतं स्थितं त्वय्येव, न त्वदन्यत्र गच्छति यागसाधनत्वेन वृष्ट्यादिहेतुत्वात् । विश्वं यक्षं पूज्यम् । ‘यक्ष पूजायाम्’ यजतेर्वा औणादिकस्सप्रत्ययः । विश्वं च भूतं संपन्नसस्यादिकं, सुभूतं सुष्ठु संपन्नं परिनिष्ठितं त्वयैव संपाद्यते, त्वयैव संपन्नं च क्रियते । तस्मात्त्वं विश्वस्य वस्तुनः भर्ता जनयिता च । तं तादृशं त्वां कामदुघं अभिमतानां दातारम् । ‘दुहः कप् घश्च’ इति कप् । अक्षितं अचलं अक्षयफलं ईदृशं लोकमेव त्वदुपदधानेनोपदधामि । हे इष्टके! तादृशलोकात्मिकां त्वां प्रजापतिस्सादयतु । त्वं च तया देवतया अङ्गिरसामिव ध्रुवा निश्चला सीद । एवमुपधानान्तं लोकविषयं योज्यम् । शिष्टमिष्टकाविषयम् । एवं सर्वत्र ॥
2 तपः लोकाधारं तत्र निष्पाद्यत्वात् । तपः तेजसः प्रतिष्ठा, तपसि हि तेजः प्रतितिष्ठति तत्कारणत्वात् । गतमन्यत् ॥
3 समुद्रस्य समुद्द्रवणशीलस्य मण्डलस्य प्रतिष्ठा तेजः रश्मयः ॥
4 समुद्रो मण्डलं अपां प्रतिष्ठा, तत्कारणत्वात् ॥
5 आपः पृथिव्याः प्रतिष्ठा, अद्भ्यः पृथिवीति ॥
6 पृथिव्यग्नेः प्रतिष्ठा, तद्विषयत्वात् ॥
7 अग्निरन्तरिक्षस्य प्रतिष्ठा, तस्योपरि स्थितत्वात् ॥
8 अन्तरिक्षं वायोः प्रतिष्ठा, तद्विषयत्वात् ॥
9 वायुर्दिवः प्रतिष्ठा, तस्योपरि स्थितत्वात् ॥
10 द्यौरादित्यस्य प्रतिष्ठा, तद्विषयत्वात् ॥
11 आदित्यश्चन्द्रमसः प्रतिष्ठा, तदीयरश्म्यधीनप्रकाशत्वात् ॥
12 चन्द्रमा नक्षत्राणां प्रतिष्ठा, तद्योगेन कालावच्छेदकत्वान्नक्षत्राणाम् ॥
13 नक्षत्राणि संवत्सरस्य प्रतिष्ठा, तैरारब्धत्वात् ॥
14 संवत्सर ऋतूनां प्रतिष्ठा, तदवयवत्वात् ॥
15 ऋतवो मासानां प्रातिष्ठा, तदवयवत्वात् ॥
16 मासा अर्धमासानाम् ॥
17 अर्धमासा अहोरात्रयोः ॥
18 अहोरात्रे भूतभव्ययोः उत्पन्नोत्पत्स्यमानयोः प्रतिष्ठे ॥
19 अहोरात्रविशेषाः पौर्णमास्यादयः । अन्नदुघ इति क्विप् । छान्दसं घत्वम् । पित्रादिभ्योऽन्नमेता ददति, ते चान्नमेतासु अदन्ति, तस्मादन्नादनसामर्थ्यवत्य एता दुहते चान्नं पित्रादिम्यः ॥
20 राट् दीप्तिः, बृहती महती बुद्धिरुच्यते । श्रीः श्रयणीया, इन्द्रस्य पालयित्री, धर्मस्य च पालयित्री । ‘विभाषा सपर्वूस्य’ इति ङीब्नकारौ । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । विश्वमपि भूतजातं अनु प्रभूता, यद्यद्भवति तत्र तत्र स्वयमेव भवति प्रकर्षेण तत्तद्भावयतीति तस्यात्माधीनात्मलाभत्वात् प्रभूतत्वं बुद्धेः ॥
21 ओजआदिनानाधर्मत्वेनेष्टका स्तूयते - ओजः तेजः तद्धेतुत्वात्ताच्छब्द्यम् । सहः अभिभवितृत्वं शत्रूणाम् । बलं शक्तिः, भ्राजो यशः, देवानां धाम धारकं स्थानं वा तेजोऽसि अमृतं अमरणहेतुः, अमर्त्यः अमरः अनश्वर:, तपोजाः तपोऽभिनिष्पाद्यः । ‘जनसनखन’ इति विट् । ‘विड्वनोः, इत्यात्वम् ॥
इति द्वितीये काठके प्रथमोऽनुवाकः ॥
3.11.2
1 अध्वराहुत्यनन्तरं चतुर्भिरनुवाकैश्चतस्र आहुतीर्जुहोति ‘त्वमग्ने रुद्रः’ इत्यादिभिः ॥ स्वत एव सिद्धे एकैकाहुतिख्यापनाय चत्वारोऽनुवाकास्स्वाहाकारान्ता आम्नाताः । तत्र - त्वमग्ने रुद्र इति जगती ॥ व्याख्याताः । देवा देवेषु श्रयध्वमित्यादीनि यजूंषि । हे देवाः! सर्वेऽपि देवेषु श्रयध्वं प्रविशत, सर्वेऽपि मदर्थमैकथ्यं भजत, संभूय मदभिमतं साधयतेति यावत् । एवमाद्येनोक्त्वा गणशोऽप्याह - प्रथमा इति । तत्र पृथिव्यां गताः प्रथमा:, अन्तरिक्षे द्वितीयाः, दिवि तृतीयाः, एते प्रधानभूतास्त्रयो गणाः । अत एवामन्त्र्योच्यन्ते । त्रिष्वपि अपदात्परत्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । चतुर्थादय एषां गुणभूताः, अतो नामन्त्र्यन्ते । चतुर्थादयो भूत्वा पञ्चमादिषु श्रयध्वमिति प्रथमादय एव प्रार्थ्यन्ते । एवमात्रयस्त्रिंशद्गणाद्द्रष्टव्यम् ॥
2 इदानीं गणभेदं दर्शयति - देवा इति ॥ हे देवाः! हे त्रिरेकादशाः! हे त्रिस्त्रयस्त्रिंशाः! त्रिरेकादश त्रयस्त्रिंशत् तासां पूरणास्त्रिरेकादशाः । एवं त्रिस्त्रयस्त्रिंशत् एकोनशतं, तस्य पूरणास्त्रिस्त्रयस्त्रिंशाः । तत्र च प्रथमस्यापदात्परत्वान्निघाताभावः । ‘विभाषितं विशेषवचने बहुवचनम्’ इति प्रथमस्याविद्यमानत्वनिषेधाद्द्वितीयं निहन्यत एव । तस्य सामान्यवचनत्वेनाविद्यमानत्वनिषेधाभावान्निघाताभावे आद्युदात्तत्वमेव । अथ हे उत्तरे देवाः! यावदेकोनचत्वारिंशदधिकशतत्रयसहितानि त्रीणि सहस्राणि भवन्ति सर्वे उत्तरवर्त्मानः उत्तरैस्समानवर्त्मानः, उत्तरसत्त्वानः उत्तरैस्समानप्राधान्याश्च भवत उत्तरोत्तरगणैरेकीभूता इत्यर्थः । तत्रायं गणानां क्रमः - एको देवस्त्रिभिरेकादशभिर्गुणितस्त्रयस्त्रिंशद्देवाः, ऐवं त्रिभिर्गुणिता एकोनशतम् । तदिदमुक्तं ‘त्रिरेकादशास्त्रिस्रयस्त्रिंशाः’ इति । पुनरप्येकोनशतसंख्या देवास्त्रिभिरेकादशभिर्गुणिता उत्तरे इत्युच्यन्ते । ते च सप्तषष्ट्यधिकशतद्वयसहितानि त्रीणि सहस्राणि । अथ प्रथमस्यावान्तरगणस्याधिपतयस्त्रयस्त्रिंशत्, उत्तरस्य च त्रयस्त्रिंशत्, अथ प्रथमस्य प्रधानगणस्य त्रयः, उत्तरस्य च त्रयः, एवं सर्वे संभूय एकोनचत्वारिंशदधिकशतत्रयसहितानि त्रीणि सहस्राणि देवा भवन्ति । अथैवंभवद्भिरत्रभवद्भिरित्थं कर्तव्यमित्याह - यत्कामः अहं इदं जुहोमि तन्मे युष्मत्प्रसादात् समृद्ध्यतां, वयं रयीणां धनानां च पतयस्स्याम । भूरादिवासिभ्यस्सर्वेभ्योऽपि युष्मभ्यं स्वाहुतमिदं करोमि ॥
इति द्वितीये काठके द्वितीयोऽनुवाकः ॥
3.11.3
1 अग्नाविष्णू इति गायत्री ॥ व्याख्याता । राज्ञीत्यष्टिर्नवपदा यजुरन्ता । राज्ञ्यादयो व्याख्याताः प्रथमे काठके । अत्र इन्द्रस्थाने सोमः । ते सर्व इत्यादि । अनुक्रान्तास्सर्वेऽपि यूयं संगत्य मे मदीयमिदं प्रार्थनारूपं वचः प्रावत प्रयोजनसंपादनेन रक्षत । वयं स्यामेत्यादि । गतम् ॥
इति द्वितीये काठके तृतीयोऽनुवाकः ॥
3.11.4
1 अन्नपत इत्युपरिष्टाद्बृहती ॥ व्याख्याता । अग्ने पृथिवी पत इत्यादि । निगदसिद्धम् । सर्वत्र ‘नामन्त्रिते समानाधिकरणे’ इत्यविद्यमानत्वनिषेधः । पूर्वस्य तु ‘नामन्त्रिते’ इति षष्ठ्यन्तानां परामन्त्रितानुप्रवेशः ॥
2 आ रुचेति पञ्चपदा त्रिष्टुब्जगती वा ॥ रुचा दीप्त्या अहं आरोचे सर्वतो दीप्ये, किंचाहं स्वयमेव रुचा रोचमानः निरपेक्षदीप्तिः रुरुचे रोचै, तदर्थमतीत्य अतिक्रम्य अदः अन्तरिक्षं यत् स्थितं स्वः तदिहाभर आहर इह अस्मिन् कर्मणि फलत्वेनानय, यतोऽहं तस्मिन् योनौ सर्वार्थकारणे प्रजनौ प्रजननाधारे अहं प्रजायेय प्रजावान् स्याम् । जनेरौणादिक इप्रत्ययः । वयं स्यामेति । व्याख्यातम्5 ॥
इति द्वितीये काठके चतुर्थोऽनुवाकः ॥
3.11.5
1सप्त त इति मध्येज्योतिस्त्रिष्टुप् ॥ ‘भूमिर्भूम्ना’ इत्यत्र व्याख्याता । सप्त होत्रा अनु विद्वानिति विशेषः - अनुक्रमेण विद्वान् । शेषं यजुः । वयं स्यामेत्येकपदा त्रिष्टुप् । या प्राची दिक् तस्या अग्निर्देवता । अथ दिशां या देवताः तासां मध्ये अग्निं देवं प्राच्या देवतां स ऋच्छतु प्राप्य प्रलीयतां तत्रैव क्षीयताम् । कः? यो जनः एतस्यै दिशस्संबन्धी मामभिदासति उपक्षपयति । ‘दमु उपक्षये’ छान्दसमात्वम् । एतेनोत्तरे व्याख्याताः । दिशामिति ‘सावेकाचः’ इति षष्ठ्या उदात्तत्वम् । दिशोऽभिदासतीत्यत्र तेनैवोदात्तत्वम् । ‘स्वरितो वाऽनुदाते पदादौ’ इति स्वरितत्वम् । ‘देवताद्वन्द्वे च’ इति मित्रावरुणशब्दो द्व्युदात्तः । बृहस्पतिशब्दो वनस्पत्यादिः । इयं अधोदिक् । पुरुषस्सर्वस्यापि दिक्, व्यापित्वात् तादृशः पुरुषो मे कामान् समर्धयतु । अन्धो जागृविरित्यादि । व्याख्यातं प्रथमे काठके । उषसमुषसं इति तृतीयः पर्यायः, सर्वामुषसं अशीय व्याप्नुयाम् । अश्नोतेश्छान्दसश्शपो लुक् । असावेहीति प्राणापानावुच्येते, युवयोः प्रसादात् उषसं सर्वामश्नुवीयेति । किंच - हे असो प्राण! हे असो अपान! उभयार्थम् असौ इत्युक्तम् । युवयोः प्रसादात् इदं ज्योतिः आदित्यमपि अशीय आप्नुयाम्, तथा हे असो अपः कर्माणि युवयोः बलेन अशीय कर्ता स्यां कर्मणाम् । वर्णव्यत्ययेन औकारस्य ओकारः । वयं स्यामेत्यादि । गतम् ॥
इति द्वितीये काठके पञ्चमोऽनुवाकः ॥
3.11.6
1 यत्तेऽचितमित्युपस्थानम् ॥ त्रिष्टुबियम्, व्याख्यातप्राया ‘त्वमेव त्वां वेत्थ’ इत्यत्र । विशेषस्तु - हे अग्ने! यत्तव संबन्धि अचितं यच्चापि चितम् । यत्त ऊनमित्यादि समानम् ॥
2 चितश्चेति द्विपदा त्रिष्टुप् ॥ तत्रैव व्याख्याता9 ॥
3 लोकंपृणा उपदधाति - लोकं पृणेति ॥ अनुष्टुबियं यजुरन्ता व्याख्याता ‘अपेत वीत’ इत्यत्र ॥
4 ता अस्येति ॥ दिवो रोचने स्वर्गस्य प्रकाशके अस्य जन्मन् यजमानस्य जन्मनि निमित्तभूते सति देवानां संबन्धिन्यो विशः प्रजारूपाः पृश्नयः अल्पगोसदृशाः सूददोहसः अन्नस्य दोहयित्र्यः ता इष्टकाः सोमं श्रीणन्ति पक्वं कुर्वन्ति । कदा? त्रिषु सवनेषु । आ समन्तात् यानि प्रातस्सवनादीनि तेषु निरन्तरं सोमपाके हेतव एता इष्टका इत्यर्थः । एता इष्टकाः यद्देवतासम्बन्धिन्यः, तया देवतयेत्यादि पूर्ववत् ॥
5 अग्न इति ॥ हे अग्ने! इह अस्मिन् कर्मणि देवानावह आह्वय । जज्ञानः कर्तव्यज्ञः । वृक्तबर्हिषे आवर्तितयज्ञाय यजमानाय । यद्वा - जज्ञानो जातोसि यजमानार्थम् । लिटः कानच् । नः खल्वस्माकं ईड्यः स्तुत्यो होता आह्वाताऽसि देवानां, तस्मात्त्वामेव ब्रूमो देवानावहेति । ‘ईडवन्द’ इत्याद्युदात्तत्वम् ॥
6 अगन्मेति त्रिष्टुप् ॥ अग्निं वयं अगन्म शरणं गताः । ‘मन्त्रे घस’ इति च्लेर्लुक् । मनसा भक्त्या । महान्तं, ‘सुपां सुलुक्’ इति डादेशः । यविष्ठं युवतमं हविर्भिर्मिश्रयितारं वा, देवैः स्वाहुतं सुष्ठु हविषामाहुतिभिराराधितं, विश्वतः सर्वतोपि प्रत्यञ्चं अस्मदाभिमुख्येनागच्छन्तं स्वाहुतत्वेनानुकूलं ईदृशं तं अगन्मेति । पुनश्च विशेष्यते - यो दीदाय दीप्यते स्वे दुरोणे आत्मीये गृहे, रोदसी द्यावापृथिव्यौ उर्वी उर्व्यौ । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । अन्तः मध्ये । व्यत्ययेन द्वितीया ‘सुपां सुलुक्’ इति वा षष्ठ्या लुक् । चित्रभानुः चायनीयदीप्तिः ॥
7 मेधाकारमिति जगती ॥ हे अग्ने! त्वां मेधाकारं बुद्धिस्थितानां कर्तारं संपादयितारं, विदथस्य यज्ञस्य प्रसाधनं प्रकृष्टं साधनं, अग्निं अङ्गनादिगुणं होतारं आह्वातारं, परिभूतमं सर्वतो भावयितृतमं कर्मणाम् । ‘बहुलमन्यत्रापि’ इति णिलुक् । परिभावयितृतमं वा शत्रूणाम् । मतिं मतिमन्तं मननीयं वा । यथोक्तगुणशालिनाऽपि दुराराधेन कोऽर्थ इत्याह - अर्भस्य अल्पस्य महः महतश्च हविषः समानमित् समानमेव समानतुष्टिमेव महता तुल्यमल्पमपि गृह्णानमीदृशं त्वामेव नरः मनुष्याः वृणते भजन्ते न तु त्वत्तोऽन्यमनीदृशमहिमानम् ॥
8 मनुष्वत्त्वेत्यनुष्टुप् ॥ हे अग्ने! त्वां मनुष्वत् मनुष्यमिव गृहे निधीमहि स्थापयाम, मनुष्यवदेव समिधीमहि संदीपयामः अर्चयामः मनुष्ययोग्यानेवोपचारान् जानीम इति । ‘तेन तुल्यं’ इति वतिः, तदर्हतीति वा । यद्वा - मनुष्वत् मनुष्या इव, यथा मनुष्या गृहे बन्धुं स्थापयन्ति, यथा च पूजयन्ति तदनुरूपं वयं कुर्मः । उभयत्र छान्दसश्शपो लुक् मनोश्च षुगागमः, सकारान्तं वा शब्दान्तरम् । हे अग्ने! अङ्गिरः अङ्गनादिगुण त्वमपि मनुष्वत् मनुष्याणामिव मनुष्यार्हं वा देवान् यज, ततः परं यथा प्रसीदसि तथा यजामह इति भावः । देवायते देवान् यष्टुमिच्छते यजमानाय । ‘देवसुम्नयोर्यजुषि काठके’ इति दीर्घत्वम् ॥
9 अग्निर्हीति पञ्चपदा पङ्क्तिः ॥ अग्निः खलु वाजिनं अन्नं विशे मनुष्येभ्यो ददाति । विश्वचर्षणिः विश्वं चर्षणीयं ज्ञातव्यं यस्य तादृशस्स खल्वग्निरेव यजमानस्य राये धनाय स्वाभुवं आत्मनो भवनं उत्पत्तिं वार्यं वरणीयं प्रीतो याति प्राप्नोति स्तुत्या तृप्तस्तादृग्रूपं परिगृह्णाति । तादृक्कारी खल्वग्निर्नाम, तस्मात्स त्वं प्रतिपादितोऽग्निः स्तोतृभ्यः यजमानेभ्यः इषम् अन्नम् आभर आहर । ‘हृग्रहोर्भश्छन्दसि’ इति भत्वम् ॥
10 पुरीषमुपदधाति - पृष्टो दिवीति त्रिष्टुप् ॥ व्याख्याता ‘वैश्वानरो नः’ इत्यत्र ॥
इति द्वितीये काठके षष्ठोऽनुवाकः ॥
3.11.7
3.11.8
3.11.9
3.11.10 1 यां प्रथमामित्यादि एकविंशतिमिष्टकाः स्तौति ॥ इममिति प्रथमत्वसाम्यात् । एवं सर्वत्र । अथो या इत्युक्ताभ्यस्तिसृभ्योऽन्या या अष्टादश ताभिः पूर्वोक्ता उरवो वरीयांसश्च य लोकास्तानभिजयति । कामचार इत्यादि गतम् ॥ 2 संवत्सरो वा इत्यादि ॥ शिरःप्रभृतिस्थानीया वसन्तादयः एकदेशत्वात् । कर्मकारा ऋत्विजः, तत्स्थानीया मासाः इष्टसंपादित्वात् । शतरुद्रस्थानीया अहोरात्राः रौद्रीणामाहुतीनामुत्पत्त्याधारत्वात, वसोर्धारास्थानीयः पर्जन्यः सर्वाभिमतसिद्धिहेतुत्वात् । यथेत्यादि । पर्जन्यो यथा सुवृष्टं अन्यूनानतिरिक्तशोभनवृष्टिकं वृष्ट्वा प्रजानां सर्वान् कामांस्त्रिवर्गविषयान् संपूरयति सम्यक्साघयति एवमेव संवत्सरात्मा नाचिकेतस्तस्य सर्वान् मनोरथान् संपूरयति, य एतेन यजते, य उ चैनमेवं वेद ॥ 3 संवत्सरो वा इत्यादिरूपकान्तरं, गतम् ॥ 4 एष वावेति ॥ स एव नाचिकेतोऽग्निरेवमुक्तेन प्रकारेण संवत्सरात्मत्वात्तस्य चादित्याधीनत्वात् ‘अग्निर्वाव संवत्सरः’ इति दर्शनात् संवत्सरस्स्वयमग्निरेवेति संवत्सरमयत्वादग्निमय उच्यते, अत एव पुनर्णवः पुनःपुनर्नव उज्ज्वलः । ‘पूर्वपदात्संज्ञायामगः’ इति णत्वम् । अग्निमयो हेत्यादि । गतम् ॥ इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काठके दशमोऽनुवाकः ॥ समाप्तः प्रपाठकः ॥ हरिः ओम् ॥