तैत्तिरीयब्राह्मणे तृतीयाष्टकम् ॥ अथ दशमप्रपाठकः - प्रथमकाठकः ॥ ओम् ॥ 1एवमश्वमेधान्तानि तित्तिरिप्रोक्तानि काण्डानि व्याख्यातानि । अथ काठकाग्निकाण्डान्यष्टौ - सावित्रनाचिकतेचातुर्होत्रवैश्वसृजारुणकेतुकानि पञ्च चित्यानि, दिवश्येनयोऽपाघाश्चेष्टयः, स्वाध्यायब्राह्मणमष्टममिति । तत्र चित्यानां हव्यवाट् काण्डऋषिः, आरुणकेतुकस्य त्वरुणः, इष्टिकाण्डयोर्विश्वेदेवाः, स्वाध्यायविधेर्ब्रह्मा, तत्र सावित्राग्निमन्त्राः संज्ञानमित्यादयः । तत्रायं प्रयोगः - उत्तमाङ्गुलिपर्वप्रमाणः पञ्चाशीतिशतं हिरण्येष्टकाश्शर्करा वाऽभ्यक्ताश्चतस्रः स्वयमातृण्णाः अपरिमिता लोकंपृणाश्चोपकल्प्य उत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य सर्वतः परिमण्डलं रथचक्रमात्रं सावित्रं परिलिख्य लेखाया अभ्यन्तरं नव परिमण्डला लेखा लिखित्वा नवम्यां बाह्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति । अहरिष्टका इत्यर्थः । संज्ञानादयश्चैता अह्नामाख्याः, ब्राह्मणं च - ‘एतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि’ इति । तत्रैषां भिन्नवाक्यत्वात्साकाङ्क्षत्वाच्चोपधानमन्त्राणामन्ते ‘भूरग्निं च’ इत्यनुवाक आम्नातं ‘तया देवतया'2 इत्येतत्तत्र कृतार्थमप्येषामर्थित्वात्प्रत्येकं संबध्येते । तेनतेन च दिनेनाभेदमुपचर्य इष्टका एवोच्यन्ते । तत्र संज्ञानं नामाद्यमहः पूर्वपक्षस्य, संगतं ज्ञायतेऽमावास्याकार्यमिष्ट्यादि । विज्ञानं द्वितीयं, व्यावृत्तं ज्ञायमानत्वात् । न हि कदाचिच्छुक्लद्वितीयायामपरपक्षकार्यं क्रियते । प्रज्ञानं तृतीयं, प्रकर्षेण ज्ञायन्ते शुभानि कर्माण्यस्मिन्निति । जानत् चतुर्थं, जानात्येवात्मानं पूर्वपक्षत्वेन न तु शुभानि कर्माणि प्रवर्धयति पक्षच्छिद्रत्वात, रिक्तात्मत्वाच्च । अभिजानत् पञ्चमं, आभिमुख्येन शुभानि कर्माणि जानातीति । संकल्पमानं षष्ठं, पूर्वपक्षत्वेनात्मनि कर्माणि स्वयं संकल्पन्ते न तु कुर्वन्ति छिद्रत्वात् । प्रकल्पमानं सप्तमं, कर्मसु प्रकर्षेण कल्पते हेतुत्वं भजते । उपकल्पमानं अष्टमं, ईषत् उपकल्पते कर्मसु अष्टकादिप्रवृत्तेः । न तु पुष्कलं कल्पते छिद्रत्वात् । उषकॢप्तं नवमं, अष्टम्यनुसारित्वात्तेनात्मसमीपे कॢप्तं न तु सर्वकर्मयोग्यं छिद्रत्वाद्रिक्तत्वाच्च । कॢप्तं दशमं, सर्वात्मना शुभेष्वनुज्ञातम् । श्रेय एकादशं, प्रशस्ततरं कर्मसु दशमादपि चन्द्रवृद्ध्या । वसीयो द्वादशं, वसुमत्तरं गमनादौ धनदत्वादेकादशादतिप्रशस्तमित्युक्तं भवति । आयत् त्रयोदशं, आयतते कर्मसु कारणत्वेन एति वा । संभूतं चतुर्दशं, संगतं भवति कल्याणमकल्याणं च तस्मिन्निति संभूतं, यद्वा - संगतवति पौर्णमास्यपर्वत्वव्यवहारात् यथा पूर्वस्मिन् पर्वणीति । भूतं पञ्चदशं भवति, न पराभवति चन्द्रोऽस्मिन्निति सर्वसाधनं भूतम् ॥ इति ज्ञानयज्ञाख्ये भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये प्रथमे काठके प्रथमोऽनुवाकः ॥

2अथ तेषामन्तराळेष्वेतेषामह्नां पञ्चदशमुहूर्तानुपदधाति - चित्र इति ॥ एकैकस्याह्नः पञ्चदशमुहूर्ता द्विघटिकाः । चित्रः प्रथमः, चायनीयः जपहोमादिकालत्वात् । केतुः द्वितीयः, कर्तव्यानां केतनकालत्वात्, ख्यापकत्वाच्च । प्रभान् तृतीयः, उदयरागव्यपगमेन प्रकृष्टं भातीति । आभान् चतुर्थः, ईषदुष्णत्वात्सर्वतो भानाद्वा । संभान् पञ्चमः, संहतदीप्तिमत्त्वात् । ज्योतिष्मान् षष्ठः, महाद्योतनः । तेजस्वान् सप्तमः, महातैक्ष्ण्यः । आतपन् अष्टमः, समन्तात्तापयतीति । तपन् नवमः, अविशेषेण दुःखयतीति । अभितपन् दशमः, आभिमुख्येन पूर्वतापस्योपरि वा तापं जनयतीति । रोचनः एकादशः, रोचयति लोकं रोचमानलोकत्वात् । ‘अनुदात्तेतश्च हलादेः’ इति युच् । रोचमानो द्वादशः, निवृत्ततापत्वेन लोकस्यानुकूलीभवन् । शोभनः त्रयोदशः, शोभयति लोकं सुहितत्वात् सर्वस्य । शोभमानः चतुर्दशः, आतपशान्त्या शोभमानः । कल्याणः पञ्चदशः, गन्धकुसुमादिभोगकालत्वात् ॥ इति प्रथमे काठके द्वितीयोऽनुवाकः ॥

3अथाभ्यन्तरायां लेखायां पञ्चदश पूर्वपक्षस्य रात्रीरुपदधाति - दर्शेति ॥ प्रथमा दर्शा । चन्द्रनिमित्ता व्यपदेशाः । अमावात्वायां चन्द्रो दर्शोऽदृष्ट एव भवति, न तु केनचिददृश्यत्वात् । प्रथमायां रात्र्यामिति [मपि] सा दर्शेत्युच्यते, अदृश्यचन्द्रत्वात् । दृष्टा द्वितीया रात्रिः, दृष्टचन्द्रत्वात् । दर्शता तृतीया, दीर्घकालदर्शनीयचन्द्रा । द्वितीयायां हि दृष्टोऽपि उत्तरक्षणेऽस्तमेति । औणादिकोऽतच्प्रत्ययः । विश्वरूपा चतुर्थी, विश्वरूपाभिव्यक्तिहेतुत्वात् । सुदर्शना पञ्चमी, स्पष्टाभिव्यक्तिहेतुत्वात् । आप्यायमानेति षष्ठीसप्तम्योराख्या, प्यायमाना सप्तमीति केचित् । समन्ताद्वर्धमानमण्डला षष्ठी, समन्ताद्वर्धमानतेजास्सप्तमी । प्याया अष्टमी, सस्यादिसमृद्धेः । सूनृता नवमी, प्रत्यासन्नास्थानेन विश्वं प्रीणयतीति । इरा दशमो, बहुप्रकाशत्वेन स्तुत्या । आपूर्यमाणेत्येकादशीद्वादश्योराख्या, पूर्यमाणा वा द्वादशी । प्रकाशातिशयेन मण्डलमतीत्यापूर्यमाणेव भवत्येकादशी । ऊनेऽपि मण्डलैकदेशे पूर्यमाणमण्डलेव भवति प्रकाशमहिम्ना द्वादशी । पूरयन्ती त्रयोदशी, विश्वमपि जगत् प्रकाशेन पूरयतीति । पूर्णा चतुर्दशी, पूर्णचन्द्रया पञ्चदश्या तुल्यत्वान्न्यूनत्वस्य चानुपलम्भात् । पौर्णमासी पञ्चदशी, पूर्णो माश्चन्द्रः पूर्णमास्तत्संबन्धिनी पौर्णमासी, सर्वात्मना पूर्णचन्द्रा ॥ इति प्रथमे काठके तृतीयोऽनुवाकः ॥

4तासामन्तराळेष्वेतासां रात्रीणां पञ्चदश मुहूर्तान् उपदधाति - दातेति ॥ प्रथमो दाता, रात्रिवृत्तान्तानामीषद्दाता आरम्भयिता । प्रदाता द्वितीयः, तेषां प्रकर्षेणारम्भयिता प्रोत्साहयिता । आनन्दः तृतीयः, कुसुमालेपनाद्यनुभवकालत्वात् । मोदश्चतुर्थः, मित्रादिभिस्सह हर्षणात् । प्रमोदः पञ्चमः, स्त्रीभिस्सह प्रकर्षेण हर्षणात् । आवेशयन् षष्ठः, शयनागारादावौत्सुक्यं जनयतीति । निवेशयन् सप्तमः, स्त्रीपुंसौ सन्निधापयतीति । संवेशनोऽष्टमः, शयनेषु सर्वाणि भूतानि शाययतीति । संशान्तो नवमः, संगतं मनसा शमयतीति । मनसीन्द्रियाणि निवेश्यन्त इति स्वापकारी । शान्तो दशमः, मनसो व्युपरतौ सुषुप्तेर्जनयिता, सर्वात्मना शान्तत्वात् । आभवन् एकादशः, सर्वतः करणानां तृप्तिमनुभवतोति । प्रभवन् द्वादशः, विधेयीकृतत्वात्करणानां प्रभुर्भवतीति । संभवन् त्रयोदशः, संगतं भवनं पुनरपीन्द्रियसमागमनं तत्करोति प्रबुध्यत इति प्रबोधो मुख उच्यते । संभूतश्रतुर्दशः, यथाऽयमिन्द्रियैस्संयुक्तः प्रबुद्धः । भूतः पञ्चदशः, आत्मलाभेन निष्पन्नो भूतः स्वस्थः ॥ इति प्रथमे काठके चतुर्थोऽनुवाकः ॥

5अथान्तरस्यां पञ्चदश अपरपक्षस्य अहान्युपदधाति - प्रस्तुतमिति ॥ प्रथमं प्रस्तुतं साम्नः कृष्णात्वात् तद्व्यक्तित्वेन कृष्णपक्षांशा रूप्यन्ते । प्रस्तावात्मकं प्रथममहः । विष्टुतं द्वितीयं, विष्टुतिसमानत्वात् । संस्तुतं तृतीयं, संस्तावभक्तिसाम्यात् । कल्याणं चतुर्थं, उद्गानतुल्यत्वात् । विश्वरूपं पञ्चमं, निधनसाम्यात् । शुक्रं षष्ठं, विजृम्भितत्वेन रक्षःप्रभृतीनां कारणं नन्दात्वाच्च । अमृतं सप्तमं, तेषाममृतत्वहेतुत्वाद्भद्रात्वाच्च । तेजस्वि अष्टमं, तेषां तेजोवृद्धिहेतुत्वाज्जयात्वाच्च । तेजो नवमं, तेषामुत्तेजनहेतुत्वात्, अग्निविद्या सर्वं नाशयति क्रियमाणं कर्मेति, अत एव रिक्तात्वमिति । समिद्धं दशमं, संपूर्णत्वाद्धिंसकैर्जन्तुभिः । अत एव पूर्णा । अरुणमेकादशं तामसानां जन्तूनामरुणकालवदाह्लादकम् । भानुमत् द्वादशं, भानुमण्डलोदयमात्रवत् तादृक्कालस्थानीयं तेषाम् । मरीचिमत् त्रयोदशं, विततभानुरश्मिकालस्थानीयं तेषाम् । अभितपत् चतुर्दशं, अभितस्तपत्तपनकेन कालेन समम् । तपस्वत्पञ्चदशं, महातापभानुकमध्याह्नस्थानीयं, तेषां प्रतिपक्षभूयस्तया सर्वे तत्र तपस्विनो भवन्तीति वा ॥ इति प्रथमे काठके पश्चमोऽनुवाकः ॥

6अथ तेषामन्तराळेष्वेतेषामह्नां पञ्चदश मुहूर्तानुरपदधाति - स वितेति ॥ सविता प्रथमः, कर्मणामुत्पादकः । प्रसविता द्वितीयः, अनुज्ञाता कर्मणाम् । दीप्तस्तृतीयः, चन्द्रदौर्बल्यात् । दीपयंश्चतुर्थः, जगदपि दीपयति । दीप्यमानः पञ्चमः, प्रकर्षेण दाहकः । पुनर्वचनाद्विशेषावगतिः । ज्वलन् षष्ठः, ज्वलदग्निकल्पः । ज्वलिता सप्तमः, जगतोऽपि ज्वलयिता । तपन्नष्टमः, समन्तात्तापयतीति । वितपन्नवमः, दिनमध्याद्वियुतत्वाद्विश्लिष्टं तापयति । संतपन् दशमः, संगतं सह्यं तपतीति । रोचन एकादशः, रोचनशीलः नातिपीडाकरः । रोचमानो द्वादशः, सर्वस्मै रोचमानः अनुकूलः अपेक्षिततापः । श्रुम्भूस्त्रयोदशः, शुम्भनशीलः निवृत्ततापत्वान्मनोहरः । शुम्भमानश्चतुर्दशः, प्रजा अपि शोभयन् । वामः पञ्चदशः, वननीयस्वभावः साह्लादलोकत्वात् ॥ इति प्रथमे काठके षष्ठोऽनुवाकः ॥

7अथान्तरस्यां पञ्चदशापरपक्षस्य रात्रीरुपदधाति - सुतेति ॥ सुता प्रथमा, सर्वैरनुज्ञाता सद्य एव चन्द्रोदयेन तिमिराभावात् । सुन्वती द्वितीया, सोमं सुन्वदहरिव रक्षसां प्रीतिहेतुः, स्वल्पतिमिरतया वा कर्मणामनुज्ञात्री । प्रसुता तृतीया, सवनारम्भक्षणमिव तेषां प्रीतिहेतुः । सूयमाना चतुर्थी, क्रियमाणसवनदिनभागवत्तृप्तिकरी तेषाम् । अभिषूयमाणा पञ्चमी, अभिषूयमाणसोमकदिवसांशस्थानीया तेषाम् । पीती षष्ठी, शार्ङ्गरवादिलक्षणो ङीप् । पीतसोमकदिवसैकदेशसदृशी तेषाम् । प्रपा सप्तमी, प्रकृष्टसोमपानाधारक्रतुकल्पा तेषाम् । संपा अष्टमी, संघातपीतसोमक्रतुरूपा तेषाम् । तृप्तिर्नवमी, अन्धकारातिशयेन तृप्तिहेतुस्तेषाम् । तर्पयन्ती दशमी, चन्द्रमसस्त्रिभागावशेषत्वादत्यर्यं तृप्तिं जनयन्ती । कान्ता एकादशी, अल्पप्रकाशत्वेन तेषामिष्टा । काम्या द्वादशी, इयमेव रात्रिस्सर्वकाममस्त्विति तैः, काम्यमाना । कामजाता त्रयोदशी, आविर्भूतसर्वकामा । ‘जातिकालसुखादिभ्यः’ इति परवचनम् । आयुष्मती चतुर्दशी, अन्धकारातिशयेन दीर्घेव लक्ष्यते । रक्षसामायुस्स्थितिहेतुर्वा । कामदुघा पञ्चदशी, यथाऽभिलाषं काम्यानां दोग्ध्री तेषाम् ॥ इति प्रथमे काठके सप्तमोऽनुवाकः ॥

8अथ तासामन्तराळेष्वेतासां रात्रीणां पञ्चदशमुहूर्तानुपदधाति - अभिशास्तेति ॥ अभिशास्ता प्रथमः, आभिमुख्येन शासिता लोकस्य, स्वे स्वे पदे स्थापयति । ‘ग्रसितस्कभित’ इत्यत इडभावो निपात्यते । अनुमन्ता द्वितीयः, स्वे स्वेऽभिलषिते प्रवर्तयति । आनन्दस्तृतीयः, आनन्दादयस्त्रयो व्याख्याताः । आसादयन्नादयः पञ्च आवेशयन्नादिभिर्व्याख्याताः । चन्द्रक्षयेणोपक्षीणशक्तिजनकत्वात् सीदतिग्रहणम् । आभूप्रभूतयोऽप्याभवन्नादिभिस्समानार्थाः । सर्वत्र भवतेः क्विप् । पञ्चमे ‘घञर्थे कविधानम्’ इति कः, अव्ययं वा ॥ इति सप्तमे काठके अष्टमोऽनुवाकः ॥

9अथान्तरस्यां द्वादश पूर्वपक्षानुपदधाति - यवित्रमिति ॥ पवित्रं प्रथमः, स्वयमेव शोधकत्वात्कर्मकाल इति । पवयिष्यन् द्वितीयः, करिष्यमाणैः कर्मभिर्दोषाणां क्षाळयितृत्वात् । पूतस्तृतीयः, निजसंबन्धेन पूतलोकत्वात् । मेध्यश्चतुर्थः, मेधार्हः । यशः पञ्चमः, यशसो हेतुत्वात् । यशस्वान् षष्ठः, यशस्वित्वात्तत्र लोकस्य । आयुस्सप्तमः, आयुषो हेतुत्वात् । अमृतोऽष्टमः, दीर्घजीवनहेतुत्वात् । जीवो नवमः, जीवस्थानीयत्वात् । जीविष्यन् दशमः, कर्मकारिणां जीवयितृत्वात् । स्वर्ग एकादशः, प्रीतिहेतुत्वात् । लोको द्वादशः, लोकप्रदत्वात् ॥ इति प्रथमे काठके नवमोऽनुवाकः ॥

10अथान्तरस्यां द्वादशापरपक्षानुपदधाति - सहस्वानिति ॥ सहस्वान् प्रथमः, बलवत्त्वात्सर्वस्य तत्र । सहीयान् द्वितीयः सोढृतरः अभिभवितृतरस्सर्वो भवति । ओजस्वान् तृतीयः, देहश्रीस्तत्र भवतीति । सहमानश्चतुर्थः, अभिभवनशीलः । जयन् पञ्चमः, तमसा लोकमभिभवति । अभिजयन् षष्ठः, अभितो जेता लोकस्य मेघाभिभवात् । सुद्रविणस्सप्तमः, शोभमानानि द्रव्याणि तत्र भवन्तीति । द्रविणोदा अष्टमः, द्रविणपुष्टिहेतुत्वात् । सकारोपजनश्छान्दसः । आर्द्रपवित्रो नवमः, यागाद्यभावेन दर्भाणामनाहरणात् । हरिकेशो दशमः, यागाद्यभावेनैव हरिकेशा मनुष्या वृक्षाश्च भवन्ति । मोद एकादशः, धान्यसमृद्ध्या । प्रमोदो द्वादशः, पुष्टप्रायत्वात्तत्र सर्वस्य ॥ इति प्रथमे काठके दशमोऽनुवाकः ॥

11अथान्तरस्यां त्रयोदश मासनामान्युपदधाति - अरुण इति ॥ अरुणः प्रथमः, अरुणोदयकालवन्मन्दप्रकाशः फाल्गुनः । अरुणरजा द्वितीयः चैत्रः, (बलजासुद्रजाः)? । पुण्डरीकस्तृतीयः वैशाखः, अरविन्दवान् । विश्वजिच्चतुर्थः, ज्येष्ठः महत्त्वादह्नाम् । अभिजित्पञ्चमः आषाढः, अभिजिन्नक्षत्रयोगात्पौर्णमास्याः । आर्द्रष्षष्ठः श्रावणः, आर्द्रत्वात्सर्वस्या भुवः । पिन्वमानस्सप्तमः प्रोष्ठपदः, धान्यसमृद्ध्या जगतः प्रीणनात् । अन्नवानष्टमः आश्वयुजः, शारदधान्यनिर्वृत्त्या । रसवान् नवमः कार्तिकः, बहुक्षीरत्वात् इक्ष्वादिसंपत्त्या च । इरावान् दशमः मार्गशीर्षः, धान्यविशेषोत्पत्त्या अन्नवान् । सर्वौषध एकादशस्तैषः, सर्वौषधसंपत्त्या । संभरो द्वादशो माघः, सर्वधान्यसंभरणात् । महस्वांस्त्रयोदशः, अधिकमासत्वेन महत्त्वकारित्वात् ॥ इति प्रथमे काठके एकादशोऽनुवाकः ॥

12अथ सिकता उपदधाति - एजत्का इति ॥ एजत्काः एजत्कालयुक्त्वेन चलनशीलाः । ‘एजृ कम्पने’ अज्ञाते प्रागिवीयः कः । यद्वा - ‘एजृ दीप्तौ’ व्यत्ययेन परस्मैपदम् । जोवत्काः जोवत्कालयुक्त्वेन जवनशीलाः । नु इति सौत्रो धातुः । जवत्का इति वक्तव्ये छान्दसो वर्णविकारः । क्षुल्लकाः क्षुद्राः । शिपिविष्टकाः रश्मिभिर्विष्टाः । सरिस्रराः अत्यन्तं सरणशीलाः । सर्तेर्यङ्लुकि ‘रुग्रिकौ च’ इति रिगागमे पचाद्यचि सरिसरा इति वक्तव्ये रेफोपजनश्छान्दसः । सुशेरवः सुष्ठु शेरते आस्विति । शेतेरौणादिको रुप्रत्ययः । अजिरासः अजिनीयाः क्षेपणीयाः । औणादिक हरच्प्रत्ययः । जीर्यतेर्वा घञर्थे कप्रत्ययः । रणं जिरः तद्रहिता अजिराः । ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । गमिष्णवः गत्वरस्वभावाः लघुत्वात् । अगमिष्णवः अगत्वरा इति केचित्, तदयुक्तं अव्ययपर्वूपदप्रकृतिस्वरत्वप्रसङ्गात् ॥ इति प्रथमे काठके द्वादशोऽनुवाकः ॥

13अथान्तरस्यां पञ्चदश मुहूर्तमुहूर्तानुपदधाति - इदानीमिति ॥ उक्तानां मुहूर्तानां अवयवा मुहूर्तमुहूर्ताः । इदानीमित्येव यः कालो व्यपदिश्यते स कालविशेषो गृह्यते । इदानीमिति सन्निहितपुरोवर्तिग्रहणकालः । तदानीमित्यसन्निहितबुद्धिस्थग्रहणकालः । एतर्हीति सन्निहितानद्यतनग्रहणकालः । इदम एवानद्यतने र्हिलि ‘एतेतौ रथोः’ इत्येतादेशः । क्षिप्रं क्षेप्तुं शक्यं स्वल्पत्वात् । अजिरं ईषत्प्राप्तं अजेर्गतिकर्मण औणादिक इरच् । आशुः सुष्ठु व्यापनीयः । निमेषः निमेषक्रियापरिच्छिन्नः । फणः निमेषादल्पतरोऽक्षिविकासपरिच्छिन्नः । … … … आशुः व्यापकः व्यापारक्रियावधिकः । आशीयान् ततोऽप्याशुः अव्यपदेश्यकाललक्षणः । जवः क्रियावयवनैरन्तर्यम् ॥ इति प्रथमे काठके त्रयोदशोऽनुवाकः ॥

14अथान्तरस्यां षड्यज्ञक्रतूनुपदधाति - अग्निष्टोम इति ॥ अहर्व्यपदेशादेषामुपधानम् । त्रयोऽत्रैकाहाः त्रयोऽहीनाः । अग्निष्टोमादिरूपेण द्विरात्रादिरूपेणेष्टकास्तूयन्ते ॥ इति प्रथमे काठके चतुर्दशोऽनुवाकः ॥

15अग्न्यादित्रयरूपेण क्रतुत्रयरूपेणेष्टकास्तूयन्ते । अग्न्यादय एवर्तवः तापवत्तया वृष्टिमत्तया हिमवत्तया च । तस्मात्तादृशानृतूनुपदधातीत्युक्तं भवति ॥

इति प्रथमे काठके पञ्चदशोऽनुवाकः ॥

16अथ नाभ्यां चत्वारि संवत्सरनामान्युपदधाति - प्रजापतिरिति ॥ संवत्सरात्मनः प्रजापतेरेतानि नामानि । प्रजानां पाता कालः । संवत्सरः संभूय जीवन्ति प्रजा अस्मिन्निति संवत्सरः । महान् महनीयः महापरिमाणो वा । कः अविभक्तात्मा ॥ इति प्रथमे काठके षोडशोऽनुवाकः ॥
1चतस्रस्स्वयमातृण्णा दिक्षूपदधाति - भूरिति ॥ भूर्व्याहृतिः, अग्निर्देवता, पृथिवी लोकः, अहमुपधाता, त्रिलोकवासिनो जनाः, संवत्सरस्सर्वानुग्राही कालः, सर्वमिदं त्वदुपधानलब्धात्मकं, तस्माद्भूराद्यात्मिकां त्वां प्रजापतिस्सादयतु, त्वं च तया देवतया सह अङ्गिरसामिव स्थिरा सीद । एवं सर्वासु दिक्षु योज्यम् ॥ इति प्रथमे काठके सप्तदशोऽनृवाकः ॥
1अग्निमुपतिष्ठते त्वमेवेति ॥ प्रथमे द्विपदे त्रिष्टुभौ, विराजौ वा । हे अग्ने! त्वमेव त्वां याथात्म्येन वेत्थ जानासि वयं तु न जानीमः । योऽसि यादृशोऽसि स एवासि तादृश एवासि, ईदृशोऽसीति को वेदितुमर्हति । किंच त्वमेव त्वामचैषीः, चिनोषि चेतुमर्हसि तस्मात्त्वयैव चितश्चासि शतरुद्रीयहोमान्तः संचितः एतावांश्चासि यावदेव जानीमः, अस्माभिरेतावतो विदितत्वात् । परमार्थतस्तु अतोऽपि भूयांश्चासि अविदितेन रूपेण बहुतरोऽसि ॥ 2यत्ते अग्न इति महाबृहती ॥ हे अग्रे! यत्तव न्यूनं मात्रादिना विकलं, यच्च तव अतिरिक्तं मात्राभिरधिकं कृतं प्रमादात् आदित्याश्चाङ्गिरसश्च तच्चिन्वन्तु समं कुर्वन्तु । विश्वेदेवास्तव चितिमापूरयन्तु शास्त्रमर्यादाऽनतिलङ्घनेन समीचीनां कुर्वन्तु । इदानीमादित्यादयोऽपि तव याथातथ्यवेदने के नामेत्याह - चितश्चासीति । व्याख्यातम् ॥ 3मा त इति यजुः ॥ हे अग्ने! तव अचयेन अशक्तेन चयनेन अचयनेन वा ‘अच्कावशक्तौ’ इत्युत्तरपदान्तोदात्तत्वम् । आयुरात्मीयं माऽऽवृक्षि मा नीनशम् । ‘वृजि वर्जने’ । मा चातिचयनेन अतिरिक्तेन चयनेन आयुरावृक्षि त्वत्प्रसादात् ॥ 4सर्वेषामत्यष्टी त्रिपदा (षट्पदा) ॥ सर्वेषामपि ज्योतिषां एकं ज्योतिः द्योतकं यत्परं महः तदेवासावादित्यो भूत्वा उदेति तपसो जातं यत्र तपःप्रकर्षस्तत्राविर्भूतं अनिभृष्टं केनचिदप्यनुपहिंसितं ओजः बलं सर्वस्य जगतः । हे इष्टके! ज्योतिः तदपि ज्योतिः तवैव ज्योतिः त्वदुपधानेन तत्तथोदेति। यद्वा - तत्तुल्यं त्वज्ज्योतिः तस्मात् तेन ज्योतिषा मदर्थं तप तपस्विनो भव, यथाऽहमपि तपस्वी स्याम् । तेनैव ज्योतिषा मदर्थं ज्वल उज्ज्वला भव, यथाऽहमप्युज्ज्वलस्संपद्येय । तथा तेनैव ज्योतिषा दीदिहि मदर्थं दीप्यस्व यथाऽहमपि दीप्तिमान् स्याम् । कियन्तं कालमिति चेत् - यावद्देवाः ‘असाति’ इति वक्ष्यमाणत्वात् सन्तीति गम्यते । यावच्च सूर्योसाति अस्ति । लेटि शपो लुकि लेट आडागमः । यावद्वाऽपि ब्रह्म आत्मज्योतिरस्ति तावन्मह्यं तप ज्वल दीदिहि चेति ॥ इति प्रथमे काठके अष्टादशोऽनुवाकः ॥
1संहारविहाराभ्यां यजमान उपतिष्ठते - संवत्सरोसीति ॥ तत्र बार्हस्पत्यं षष्टिवर्षं प्रभवादिसंज्ञं महायुगम् । तत्र द्वादशाब्दाः पञ्चकृत्व आवर्तन्ते आश्वयुजाद्याः । तत्रैतैः पञ्चकृत्व आवर्तमानैः द्वादशाब्दप्रमाणानि पञ्चावान्तरयुगानि भवन्ति । तत्र प्रथमे युगे योऽब्दः कार्तिकादिसंज्ञः स संवत्सरो नाम । द्वितीयः परिवत्सरः, तृतीय इदावत्सरः, चतुर्थ इदुवत्सरः, पञ्चम इद्वसरः । वत्सरस्सर्वेष्वपीति । अन्य आहुः - षड्भिष्षड्भिरब्दैरवान्तरयुगानि दश भवन्ति । तत्र प्रथमादयष्षडब्दाः संवत्सरादि- संज्ञा इति । संवत्सरादयस्त्वमेवासि तव चयनेन तथा कल्पन्त इति अग्नेः स्तुतिः । तस्य ते तादृशस्य तव संवत्सराद्यात्मनो वसन्तादिस्थानीयानि शिरःप्रभृतीनि तथैव विधेयानीति ॥ 2यस्मादेवं तस्मात् - ऋषभोऽसीत्यादि ॥ इयं गायत्री । ऋषभः वर्षिता कामानामसि । स्वर्गलोकस्थानीयश्चासि तद्धेतुर्वा त्वासि । त्वं यस्यां दिशि महीयसे पूज्यसे ततो दिशः आदायास्माकं महः तेजः आवह आभिमुख्येन प्रापय तस्यां दिशि वसतां यादृशं तेजस्तादृशं तेजो ममास्त्विति यावत् ॥ 3किंच - वायुर्भूत्वेति पञ्चपदा त्रिष्टुप् ॥ हे अग्ने! वायुर्भूत्वा सर्वा अपि दिशः आवाहि गन्धग्रहणाद्युपकारकारी आभिगुख्येन वाहि प्रपद्यस्व । तथा सर्वा दिशोऽनु विवाहि अनन्तरं विविधस्वभावः प्रवर्तय । तथा च कृत्वा अनन्तरं सर्वा दिशस्संवाहि सुहितत्वेनैकीकृत्य वाहि समीरय । तथा वर्तमानस्त्वं अस्मिन् कर्मणि चित्या इष्टकानां चयनेन या चितिः क्रियते तामापृण आपूरय अविकलां कुरु । तथा अचित्या अचितिपूरणेन च चितिमापृण चितिस्थेमसमर्थं पुरीषपूरणं कुरु ॥ 4चिदसीति पङ्क्तिश्चतुष्पदा ॥ व्याख्यातेयं ‘अग्निं युनज्मि’ इत्यत्र ॥ 5नमस्त इति यजुस्तत्रैव व्याख्यातम्3 ॥ एतीत्यादीनि यजूंषि । आकारादय उपसर्गा यच्छतिक्रियां विशिंषन्ति । इतिशब्दोऽर्थावच्छेदे प्रकारे वा, इत्थमित्थं यच्छेति । ‘दाण् दाने’ पाघ्रादिना यच्छादेशः । दिवं मे आयच्छ आभिमुख्येन देहि मदभिमुखमानय । अथ दिवं मे प्रयच्छ प्रभूतानुभवां देहि । अथ दिवं मे वियच्छ विविधभोगां देहि । तथा दिवं मे संयच्छ मया नित्यसंगतां देहि । तथा दिवं मे उद्यच्छ सर्वेभ्योऽधिकभोगां देहि । केचिदाहुः - यमेरेतद्ग्रहणमिति । तत्र आयतत्वं दीर्घकालभोगः, प्रयतत्वं शुद्धत्वं, वियतत्वं विविधान्वयत्वं, संयतत्वं नियतत्वं, उद्यतत्वमनायाससिद्धिः । एवमन्तरिक्षे पृथिव्यां च योज्यम् । प्रथमं द्युलोकादि पृथिव्यन्तं क्रमेण लोकवशीकारः प्रार्थितः, पुनरपि पृथिव्यादिद्युलोकपर्यन्तं लोकैश्वर्याधिकारं प्रार्थयते । एवं लोकत्रयविषयान् भोगान् इत आरभ्यामूनमुं चारभ्य इमान् पुनः पुनः बहुप्रकारान् भुञ्जानो विधेयीकृतजगत्त्रयो यथेष्टं वर्तिषीयेति यावत् ॥ 6तत्र तथा वर्तमानस्य मम इत्थं त्वया कर्तव्यमित्याह - अह्नेति ॥ तथा वर्तमानस्य अह्ना रूपेण स्थित्वा तान् भोगान् प्रसारय तत्तल्लोकविषयान् भोगान् विस्तारय । अह्नि हि पदार्थाः प्रसार्यन्ते । अथ रात्र्या रूपेण स्थित्वा रात्रिगतान् भोगान् समच संकोचय समाकर्षात्मनि । मदर्थं हि रात्रौ भोगास्संगता भवन्ति । ये पुनर्भोगा रात्रौ प्रसार्यन्ते तान् रात्र्या रूपेण प्रसारय रात्रावेव कारय । अह्नो रूपेण समच संकोचय गूढान् कुरु । यद्वा - कस्त्वां नियन्तुं क्षमते कामं यथेष्टं प्रेरय समच च । यद्वा - अस्मदभिलाषानुरूपं प्रसारय समच च । ‘अञ्चु गतौ’ । ‘अचु’ इत्येके ॥ इति प्रथमे काठके एकोनविंशोऽनुवाकः ॥
1जघनेन गार्हपत्यमुपविश्य संचितोक्थेन होता शंसति - भूर्भुवस्स्वरिति ॥ प्रथमा षट्पदा जगती । द्वितीया त्रिष्टुप् । व्याहृत्यादिकं सर्वं त्वमेवासि, लोकत्रयं वा भूरादि । ओजः अभिभवशक्तिः । महत् महत्त्वम् । नाम आख्या । यशोऽन्नम् । महः पूजा । समं समत्वं शान्तिः । तपः तापः । हरः दीप्तिः । भाः प्रकाशः । गतमन्यत् ॥ 2द्वितीया - जातवेदा इति ॥ जातवेदाः क्रत्वग्निः सोऽपि त्वमेव । यदि वा पावकः पचनाग्निः सोऽपि त्वमेव । वैश्वानरः जाठरः सोऽपि त्वमेव । यदिवा वैद्युतः मध्यमः सोऽपि त्वमेव । तादृशः त्वं शं सुख प्रजाभ्यः सर्वाभ्यः ददत्, यजमानाय च लोकं स्वर्गादिस्थानं ऊर्जमन्नं पुष्टिं च ददत् अभ्याववृत्स्व आभिमुख्येन पुनः पुनर्वर्तस्व । ‘बहुलं छन्दसि’ इति शपो लुक् ॥ इति प्रथमे काठके विंशोऽनुवाकः ॥
1चतुर्गृहीताहुतिसंस्रावेण यजमानो मुखं विमृष्टे - राज्ञी विराज्ञीति पञ्चपदा । राज्ञ्यादयो देव्यः । अर्चिर्ज्वाला । शोचिरालोकः । तपस्तापः । हरो दीप्तिः । भाः भासनम् । अग्न्यादयो देवताः । एते सर्वेऽपि भुवनस्य भूतजातस्य गोपाः गोपायितारः, ते सर्वेऽपि मां यशसा संसृजन्तु संयोनयन्तु ॥ इति प्रथमे काठके एकविंशोऽनुवाकः ॥
1एकविंशतिस्रुवाहुतीर्जुहोति - असवे स्वाहेत्यादि ॥ असुः प्राणभूतस्सर्वस्य । वसुर्वासयिता विश्वस्य । विविधं भावयिता विभूः । विवस्वान् प्रकाशवान् । अभिभूरभिभविता सर्वस्य । अधिपतिः स्वामी । दिवांपतिः इन्द्रः । अंहसां गतीनां पतिरंहस्पतिः स एवांहस्पत्यः, चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । यद्वा - अंहस्पतयो वायुमन्तः महाप्राणाः तानर्हतीति अंहस्पत्यः ‘छन्दसि च’ इति यः । चक्षुष्मान् दर्शनवान् सूर्यः स एव चाक्षुष्मत्यः । यद्वा - तस्यापत्यं चाक्षुष्मत्यः यमः, तत्र भवः तद्भावं वा अर्हतीति चाक्षुष्मत्यः । ज्योतिषां पतिश्चन्द्रः तत्र भवः ज्योतिष्मत्यः । राजनशीलो राजा । विविधं राजतीति विराजा । विपूर्वाद्राजतेः कनिन् । संगतं राजतीति संराजा । स्वायत्तं राजतीति स्वराजा । प्रत्ययान्तस्य समासाभावात् समासान्ताप्रसङ्गः । शूषो बलम् । सूर्यः सूतिहेतुर्मण्डलम् । चन्द्रो मीयतेऽस्मिन्निति चन्द्रमाः चन्द्रमण्डलम् । ज्योतिर्नक्षत्रम् । संसर्पः कालः । कल्याणः चेतनः । अर्जुनः व्यापकः परमात्मा । ऋजु गत्यादिषु ॥ इति प्रथमे काठके द्वाविंशोऽनुवाकः ॥
1औदुम्बरे पात्रे यूष्णो मृत्युग्रहं गृह्णाति - विपश्चित इति जगत्या ॥ विपश्चिते मेधाविने । पवमानाय शोधकाय धर्माध्यक्षाय गायत शब्दयत स्तुतेत्यर्थः । मही न मह्या इव धारा स्रवन्ती, यद्वा - नेति पादपूरणः । महती धारा यूष्णो रसस्यैषा ग्रहात्मिका अन्धः अदनीयं सर्वं अत्यर्षति अतिगच्छति व्याप्नोति यागद्वारेण, यथा स्रवन्ती रसधारा सर्वं सस्यादि व्याप्नोति ‘ऋषि गतौ’ तौदादिकः व्यत्ययेन शप् । किंच - हेत्युपमायाम् । अहिर्जीर्णां त्वचमिव अतिसर्पति सर्वं जगत्, अयं गृहमिव त्यक्त्वा गच्छति क्षयकाले । क्रीडन् अत्योन अश्व इव असरत् सरति त्यक्त्वा शीघ्रं धावति । वृषा प्रधानः वर्षिता वा कामानां, हरिः हरणशीलः अश्वनामधेयं वा । सर्तेर्लुङि छान्दसे ‘सर्तिशास्त्यर्तिभ्यः’ इत्यङ् ॥ 2इमामनुद्रुत्य गृह्णाति - उपयामगृहीतोऽसीति ॥ व्याख्यातम् । दर्भैः परिमृज्य वेद्यां सादयति - एष इति । गतं पुरस्तात् ॥ 3स्विष्टकृतो ग्रहं जुहोति - अपमृत्युमिति द्वाभ्यामनुष्टुग्भ्याम् ॥ हे अग्ने! मृत्युमपजहि अपनय । इतः अस्मत्तः क्षुधं च अपजहि । शपथं आक्रोशं चापजहि । अथ अत एव हेतोः स्थिरजीवित्वात् जीवनाय रायः धनस्य पोषं सहस्रिणं सहस्रेण प्रमाणेन तद्वन्तमावह आनय अस्माकम् । ‘निपातस्य च’ इति संहितायां अथशब्दस्य दीर्घः ॥ 4द्वितीया - हे मृत्यो! ये सहस्रं बहुतराः अयुतं बहुतमाश्चपाशाः बन्धनरज्जवः मर्त्याय हन्तवे मरणधर्माणं मनुष्यं हन्तुं तव स्वभूतास्सन्ति । ‘तुमर्थे से सेन्’ इति तवेन्प्रत्ययः । तान् सर्वान् यज्ञस्य मायया मात्रया अनुष्ठानेन अवयजामहे नाशयामः ॥ 5उपहूतायामिडायां ग्रहं भक्षयति - भक्षोऽसीति यजुषा ॥ भक्षोऽसि भक्षणीयोऽसि । अमृतभक्षः अमृतानां अमृत्यूतां भक्षणीयः । तस्य तादृशस्य तव मृत्युना प्रथमं पीतस्य, अमृतवतः अमरणहेतुना रसेन तद्वतः स्वगाकृतस्य स्वीकृतस्य । मधुमत इत्यादि । व्याख्यातम् ॥ 6प्राणनिवहानात्मनि प्रतिष्ठापयति - मन्द्राऽभिभूतिरित्यनुवाकशेषेण ॥ सर्वं यजुः । पुनर्म इति त्रिष्टुप् । मन्द्रा मदहेतुः, अभिभूतिः अभिभवहेतुः, सर्वस्य केतुः ख्यापयित्री, यज्ञानां प्रधानोपकरणं वा भवति वाक् । यस्मादीदृशी त्वं तस्मात् हे असौ! हे ईदृग्भूते वाक्! एहि मय्यागच्छ । असौशब्दस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अन्धः चक्षुर्हीनः तथाऽपि जागृविः जागरणशीलः प्रवर्तकोऽसि हे प्राण! । यस्मादीदृशस्त्वमसि तस्मादसौ मय्यागच्छ । एवं सर्वत्र । हे अपान! आक्रन्दयितः शब्दयितः! बधिरः श्रोत्रेन्द्रियरहितोऽसि, तथाऽपि शब्दयिताऽसि । अतो वचनादवगम्यते जात्या बधिरः क्रन्दयितुं शक्नोतीति । अपानग्रहणं प्राणवृत्तीनामुपलक्षणम् । अहस्तः हस्तरहितः । ‘नञ् सुब्भ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अस्त्वा असनकुशलः पुरुषः । अस्यतेः छान्दसे वनिपि तसागमः । तत्सदृशं खलु चक्षुः । हे मनः! हे अपात् पादरहित! हे आशो शीघ्रगामिन्! । उभयत्र षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । केचित्तु - प्रथमं सर्वदाऽनुदात्तमिच्छन्ति, तदा व्यत्ययो द्रष्टव्यः, तयोरविद्यमानत्वान्मनसो निघाताभावः । हे श्रोत्र! कवे क्रान्तज्ञान शब्दग्रहणकुशल! हे विप्रचित्ते प्रकृष्टचैतन्यरहित! । हे शूष बल! त्वं सुहस्तः शोभनहस्तादिसामर्थ्यहेतुः, सुवासाः सुष्ठु वासयिता प्रजानाम् । शूषो नाम त्वमसि शोषयिता शत्रूणाम् । त्वं तु मर्त्येष्वमृत एव वर्तसे । तं तादृशं त्वां अहं वेद जानामि स त्वं मय्येहि ॥ 7एवममृतत्वाय वागादीनामात्मन्युपगमनं प्रार्थितम् । इदानीमग्न्यादीनामात्मीये वागादौ स्थितिं, वागादीनां च परस्मिन् ब्रह्मणि प्रतिष्ठितत्वं चामृतत्वाय भावयन्नाह - अग्निर्म इति ॥ अग्निभूतात्मा मे वाचि अग्न्युत्थापितवायूत्पादितायां श्रितः । सा वाक् मम हृदये विज्ञानात्मनि श्रिता तत्परिणामत्वात् । एवं सर्वत्र । तच्च हृदयं मयि ज्ञानात्मनि चेतने श्रितम् । अहं च अमृते अक्षरे परमात्मनि श्रितः । तच्चामृतं ब्रह्मणि अदृश्यत्वादिगुणके परिबृढे वस्तुनि श्रितम् । एवं वाय्वादिषु योज्यम् । एवमग्न्यादयो न मत्तः पृथग्भूताः अहं च ब्रह्मणो न पृथग्भूत इति ब्रह्मात्मत्वान्न मे मृत्युरिति । अत्र वाचोऽधिष्ठाताऽग्रिः, प्राणस्य वायुः, चक्षुषस्सूर्यः, मनसश्चन्द्रमाः, दिगात्मकं श्रोत्रं, अपां परिणामो रेतः, पृथिवीपरिणामश्शरीरं, ओषधिवनस्पतिपरिणामानि लोमानि । इन्द्रोऽधिष्ठाता वलस्य । पर्जन्यो मे मूर्ध्न्याद्यङ्गेषु श्रितः वृष्ट्यादिद्वारेण कारणत्वात् । ईशानः अहंकारः, तत्परिणामो मन्युः बुद्धिः, आत्मा प्रकृतिः महान् वा, स मम आत्मनि शरीरे श्रितः कारणभावेन । गतमन्यत् ॥ 8पुनर्म इत्यादि ॥ एवममृतीभूतत्वात् आत्मा हृदयं, आयुः जीवितं, प्राणः आकूतं मनश्च मां पुनरागच्छन्तु गतान्यपि मामेव पुनराश्रयन्ताम् । वैश्वानरो जाठरश्चाग्निः रश्मिभिः वावृधानः वर्धमानः । छान्दसस्य लिटः कानजादेशः । शरीरस्यान्तस्तिष्ठतु अमृतस्य गोपाः अमृतस्य आत्मनो वा गोपायिता रक्षिता अन्तस्संतिष्ठतु । आयप्रत्ययान्तात् क्विपि अतोलोपवलिलोपापृक्तलोपाः ॥ इति प्रथमे काठके त्रयोविंशोऽनुवाकः ॥
1अथ सावित्रब्राह्मणं त्रयोऽनुवाकाः - प्रजापतिर्देवानित्यादि ॥ संदिताः संबद्धाः । व्यद्यत् पाप्मना व्यश्लेषयत् । तस्मात् सा प्रजापतेस्तनुः विद्युन्नाम्न्यभवत्, यया विद्यति स्म । द्यतेरौणादिक इतिप्रत्यये धातोरिकारान्तत्वम्, यणादेशश्च । अथ तं पाप्मानं अन्यया तन्वा अवृश्चत् छिनत्ति स्म । सा वृष्टिरभवत् । क्तिनि व्रश्चादिना षत्वम् । तस्मात् एते देवते यत्र कर्मादौ अभिप्राप्नुतः आभिमुख्येन संनिधत्तः तत्र कर्तुः पाप्मानं विद्यतः वृश्चतश्च ॥ 2सैषेति ॥ मीमांसित्वा निर्णीतोऽर्थो मीमांसा । सा अग्निहोत्रविषयैव संपन्ना राद्धान्तिता - अग्रिहोत्र एव एते देवते अभिप्राप्नुत इति । अथो आहुः अन्ये - सर्वेष्वपि यज्ञक्रतुषु अभिप्राप्ये इति मीमांसितं न इति । प्रथमपक्षे विधिः - होष्यन्नियादि । द्वितीयपक्षे - यक्ष्यमाणो वेत्यादि । विद्युदिति यक्ष्यमाणः वृष्टिरितीष्ट्वा । तत्र पाप्मानं विद्यतो वृश्चतश्च एते देवते ॥ 3अत्यहं इत्यादि ॥ अरुणस्यापत्यं अत्यंहो नाम कस्मै चिद्ब्रह्मचारिणे प्रश्नान् वक्ष्यमाणान् सावित्रस्य स्वरूपप्रतिष्ठादिविषयान् प्रोच्य प्रजिघाय तं प्रहिणोति स्म । ‘हेरचङि’ इति कुत्वम् । इत्थं वदन्, ब्रह्मचारिन्! परेहि गच्छ प्लक्षं द्यांपातस्यापत्यम् । ‘अत इञ्’ द्वारादित्वादैजागमः । तं पृच्छ सावित्रमग्निं सप्रतिष्ठादिकं वेत्थ किं वा न वेत्थ इति । ‘विचार्यमाणानाम्’ इत्युभयत्र प्लुतः । एवमारुणिना प्रहितो ब्रह्मचारी तं प्लक्षं आगत्य पप्रच्छ - आचार्यः कांश्चिप्रश्नान् प्रष्टुं मां प्राहैषीत् मन्मुखेनाचार्यः पृच्छतीत्यवधारयितव्यम् । इदं पृच्छामि - किं सावित्रं वेत्थ? उत न वेत्थ? । अथ प्लक्ष उवाच - वेद सावित्रमिति । ब्रह्मचारी पृच्छति - स कस्मिन्निति । प्लक्ष उवाच - परोरजसीति । रजसस्तमस आकाशात्परस्ताद्वर्तत इति परोरजाः । पारस्करादित्वात्सुट्, सकारान्तं वा अव्ययम् । ब्रह्मचारी पुनः पृच्छति - कस्तदिति । प्लक्ष उवाच - एष वावेति । य एष तपत्यादित्यः एष परोरजा अर्वाग्रजाश्च अधस्तादुपरिष्टाच्च प्रकाशयतीति लोकत्रयात्मा । ब्रह्मचारी पृच्छति - स कस्मिन्निति । त्वेषो दीप्तिः । प्लक्ष उवाच - सत्य इति । साधु सत्यम् । ब्रह्मचारी पुनः पृच्छति - किं तदिति । प्लक्ष उवाच - तप इति । ब्रह्मचारी पृच्छति - कस्मिन्निति । प्लक्ष उवाच - बल इति । विलक्षणे बले । ब्रह्मचारी पृच्छति - किं तदिति । प्लक्ष उवाच - प्राण इति । सर्वपरिस्पन्दात्मा ईश्वरस्य क्रियाशक्त्याधारः परमाक्षरम् । एवं प्राणात्मकबलाधीनं तपः, तदात्मनि सत्ये दीप्यते आदित्यः, स एव लोका इमे तदधीनात्मलाभत्वात्, तस्मिन् लोकत्रयात्मनि आदित्ये प्रतिष्ठितस्सावित्रः कालचक्रात्मा अग्निः पाचको भृतानां स एव प्राणो विश्वं धारयतीति ॥ 4अथ ब्रह्मचारी कः प्राण इति पुनः प्रश्रमकुर्वन् स्थितः । प्रश्नकरणे कारणमुवाच - मा स्मेत्यादि ॥ स यदि प्राणान्तं प्रतिब्रूयात् तदा प्राणमतीत्य अन्यमर्थं मा स्म पृच्छ इत्याचार्यो मामब्रवीत्, तस्मादाचार्यवचोगौरवान्नातःपरं पृच्छामीति ब्रह्मचारिणोक्ते प्लक्षो दैयांपातिः प्राणमतिप्रश्नं निषेधत आरुणेरभिप्रायमुवाच - यद्वा इति । सावित्रस्य प्राणत्वात् प्राणातिप्रश्रे तव नाशस्स्यादिति तवाचार्यस्तन्निषेधमकरोत् । क्रियाऽ तिपत्तौ लृङ् । एव शिष्यरक्षावधानमाचार्यस्योक्त्वा ममाप्युपकृतं तवाचार्येणेति दर्शयितुमाह - अहमिति । तव आचार्यादप्यहमेव श्रेयान् प्रशस्यतरो भविष्यामि । कोऽस्याविनय इति चेत् यो मा सावित्रे विषये समवादिष्ट मया सह संवादं कृतवान् । तस्मात् मात्सर्येण सावित्रस्वरूपविचारणमयुक्तमिति दर्शितम् । यद्वा - भासने आत्मनेपदं सावित्रज्ञानातिशयमात्मनः ख्यापयितुं प्रश्नक्रमेण यस्संवदते भासमानो वादं प्रवर्तयतीति । अपरे तु ब्रुवते - प्रश्नव्याजेनाज्ञातानामर्थानां परकीयज्ञानादानेन प्रच्छन्नाधिगमस्संवाद इति । तदिदं सावित्रविषये न कुर्यात् । अथ यः कुर्यात् स आत्मीयां श्रियं ज्ञानातिशयमस्मिन् दधाति स्थापयति ज्ञानातिशयवन्तं तमेव करोति । अथासावादित्योऽपि अस्मा एव श्रियमनुमन्यते । अथ सा च श्रीरिस्मा एव तपोऽ- नुमन्यते । अथ तच्च तपोऽस्मा एव बलमनुमन्यते । अथ तच्च बलं अस्मा एव प्राणमनुमन्यते । एवं प्राणेऽपहृते सा- वित्रविद्यैवापहृता भवतीति सावित्रविन्न स्यात् ॥ 5इदानीमुपधानमन्त्रपदानि व्याचष्टे - यदाहेत्यादि ॥ संज्ञानादिभिरहरादिवाचकैः पदैरेष आदित्य एवोच्यते तदधीनात्मलाभत्वात्तेषाम् । तदेवाह - एष ह्येवेति । एतत्पृवृत्त्यधीनानि अहानि रात्रयश्चेत्यर्थः । तस्मादेष एवेत्यवोचामेति । संज्ञानादीनि पूर्वपक्षस्याहानि, दर्शादयः पूर्वपक्षस्य रात्रयः । प्रस्तुतादीन्यपरपक्षस्याहानि, सुतेत्यादीन्यपरपक्षस्य रात्रयः । चित्रादयः पूर्वपक्षस्याह्नो मुहूर्ताः, दात्रादयस्तस्यैव रात्रेर्मुहूर्ताः । सवित्रादयोऽपरपक्षस्याह्नो मुहूर्ताः, अभिशास्त्रादयस्तस्यैव रात्रेर्मुहूर्ताः । पवित्रादयः पूर्वपक्षः, सहस्वदादयोऽपरपक्षाः । अरुणादयो मासाः, अग्निष्टोमादयो यज्ञक्रतवः, अग्न्यादय ऋतवः । गतमन्यत् ॥ 6जनको हेत्यादि ॥ जनको नाम विदेहस्यापत्यम् । ‘जनपदशब्दात् क्षत्रियादञ्’ । स सावित्रविद्यया अहोरात्रैस्समाजगाम सायुज्यं सहवासं गतवान् । तं जनकं अहोरात्रा ऊचुः - यस्त्वमिवास्मानेवं प्रभावान् वेद जानाति स पाप्मानं विजहत् विमुञ्चन् एति अविच्छेदेन वर्तते । विजहद्ध वा इत्यादिर्विदुषस्स्तुतिः ॥ 7अहीना नाम आश्वत्थ्यः अश्वत्थस्यापत्यं, गर्गादित्वाद्यञ्, स सावित्रमहिम्ना हिरण्मयहंसभूतः स्वर्गं गतः, आदित्यस्य सायुज्यं च गतः । हंसो हेत्यादिर्विदुषस्स्तुतिः ॥ 8देवभागो नाम गौतमगोत्रः श्रुतर्षेरपत्यं श्रौतर्षः । ऋष्यण् । तं सावित्रविदं अदृश्यमाना वागभ्युवाच - अथ सावित्रवेदी गौतमस्सर्वं वेदेति सावित्रे सर्वस्यान्तर्भूतत्रत्वात् । अथ देवभाग उवाच - कैषा उत्थिता वाक्? कैषा त्वमसि? इति । अथ सा वागुवाच - सावित्रोऽहमस्मि यो हि देवानामुत्तमो लोकः उद्गततमं स्थानं, गुह्यं गुहायां निहितं महः तेजः बिभ्रत्, तादृशो देवानामप्याधारस्सावित्रोऽहमस्मीति । एवं स्वयमेवात्मानमाविष्कृतवान् देवभागाय सावित्र इति भावः । अथ गौतमः एतावति सावित्रेणोक्ते असावित्रज्ञमात्मानं मन्यमानः, कैषाऽसीति च पर्यनुयोगेन सापराधमिवात्मानमवगच्छन् ‘देवानामुत्तमो लोकः’ इति श्रुत्या तादृशोत्तमलोकहीनमिवात्मानं निश्चिन्वन् यज्ञोपवीतं कृत्वा संनद्धो भूत्वा नमो नम इति वदन् अधो निपपात पृथिव्यां निपतितदेहो बभूव । अथ सावित्र उवाच - होवाचेत्यादि । मा भैषीरिति । सावित्रविदेवासि, जितलोक एव चासि तस्मान्न भेतव्यं, पर्यनुयोगापराधो नमस्कारक्षाळित इति । तस्मादन्येऽपि सावित्रविदो जितोत्तमलोकाः ॥ 9स यो ह वा इत्यादि ॥ सावित्रस्याग्नेर्वाचकमष्टाक्षरं पदमभिधानं श्रियाऽभिषिक्तं सर्वविभूत्याधारत्वात् । सावित्रस्य तद्धेतुत्वाद्वा । केचिदाहुः - ‘सा हि श्रीरमृता सताम्’ इति सर्ववेदाभिषिक्तः तत्सारत्वात्, सर्ववेदात्मा प्रणवः श्रीः तेनाभिषिक्तं तद्वन्तमिति वा । सूर्य इति त्रीणि इयादिपूरणात् । एतेन जानीमः एकपदेयं गायत्रीति । पादः पदमिति केचित् । तदेतदित्यादि । इदमेवार्थरूपमभिलक्ष्य इयमृग्वदति । ऋच इति । उक्तः प्रपञ्चाधारः परमाक्षरं सावित्र इति । ‘तस्याग्निर्मुखम्, असावादित्यश्शिरः । स यदेते देवते अन्तेरेण । तत्सर्वं सीव्यति । तस्मात्सावित्रः’ इति वक्ष्यति । तत्र घृणिः अग्निः मुखं, आदित्यश्शिरः, मध्य आत्मा सूर्यस्सावित्र इति । सीव्यतीति सूर्यः इति राजसूयसूर्यादौ सिवेः निपातनमिति भावः । एवं विश्वाधारथूते परमे अक्षरे अविनाशे व्योमन् विविधरक्षणे यस्मिन् ऋचो वेदाः सर्वे देवाः सर्वेऽपि विकाराः निषेदुः निषीदन्ति आधेयत्वेन वर्तन्ते तत्परिणामत्वात् । तत्तादृशं विश्वाधारं यो न वेद याथार्थ्येन न जानाति स किमृचा आधेयैर्वेदादिभिः करिष्यति साधयति । ये पुनस्तद्विदुः जानन्ति त इमे समासते इति, एवं विनाऽपि वेदादिभिस्सम्यगासते नित्यसत्रासना एव भवन्ति । अत्रैवार्थे चतुर्थपादं ब्राह्मणं योजयति - न ह वा इति ॥ 10तदेतदित्यादि ॥ तदेतद्देवमयं चक्रं कारणं जगतां मण्डलात्मकं परियत् पर्यावर्तमानं अर्द्रं वृष्ट्यादिहेतुः अशुष्कं वा परिणामयोग्यं, पिन्वमानं सिञ्चत् विश्वमुत्पादयत् । ‘पिवि सेचने’ इदित्वान्नुम् । ईदृशमिदं जगत्कारणमभवत् । स्वर्गे लोके परमसुखात्मनि उपवृत्ते आत्मनि स्थाने एति गच्छति गमयति वा । कीदृशं? विजहत् त्यजत् विश्वानि भूतानि तैरसंपृक्तमेव संपश्यत् सम्यक्पश्यत्तानि । यद्वा - शान्तविकारं पदं पश्यत् । आर्द्रो ह वा इत्यादिर्विदुषस्स्तुतिः । समृद्धमनोरथ आदौ ततो विमुक्तस्स्वात्मनि तिष्ठतीति । विजहन्निति छान्दसो नुमागमः ॥ 11शूषो ह वा इत्यादि ॥ शूषो नाम वृष्णोरपत्यम् । ‘इतश्चानिञः’ इति ढक् । स आदित्येन समाजगाम सावित्रविद्यया तेन सहवासमलभत । अथादित्यस्तमुवाच - एहीत्यादि । अयं सावित्रोऽग्निस्स्वर्ग्यः परमसुखहेतुः, पारयिष्णुः सर्वदुरितेभ्य उत्तारयिता अमृताक्षरमय इति । इदानीमादित्यसावित्रयोः अभेदं ब्राह्मणं प्रतिपादयति - य एष तपतीति । एष आदित्य एव सावित्र इति । एतदधीनत्वाद्विश्वरूपपरिणामस्य ॥ 12ननु यद्यादित्य एव सावित्रः तर्हि पृथक्त्वेन सावित्रं विद्धि, अयं वा इति कथं ब्रूयात्? कथं तर्हि ब्रूयात्? मां विद्धि अहं वा इति । तस्मादेष सावित्र इत्यभेदोक्तिरयुक्तेति पर्यनुयोगावसरे आदित्यवाक्यस्याभिप्रायमाह - एहि मां विद्धि अहं वै स्वर्ग्योऽग्निरित्येवमेव तदानीमुक्तवान् वार्ष्णेयमादित्यः । अतो नैक्यविरोध इत्यभिप्रायः ॥ इति प्रथमे काठके चतुर्विंशोऽनुवाकः ॥
1इयं वावेत्यादि ॥ इयं पृथिवी सरघा मधुकोशः, तस्याः पृथिव्यास्सम्बन्धि सावित्रोऽग्निरेव सारघं मधुस्थानीयः । रात्रयो मधुकृतः मधुत्वसंपादिन्यः मधुकर्यो वा । अहानि मधुवृषाः मधुन आहर्तारः पुमांसो वा । इगुपधलक्षणः कः । स य इत्यादि । एतद्विदित्वा चिन्वानस्यैवाग्नौ सावित्रेऽस्मिन् मधु इष्टं फलं कुर्वन्ति, रात्रयोऽहानि च अस्येष्टापूर्तफलं च न धयन्ति न पिबन्ति न नाशयन्ति । यज्ञेनेष्टं पक्वेन पूर्तम् । अविदुषो न कुर्वन्ति मधु, धयन्ति चेष्टापूर्तम् ॥ 2यो ह वा इत्यादि ॥ गतम् । प्रथम आर्तिनिषेधो ज्ञात्वाऽनुष्ठातुः, द्वितीयो वेदितुः । एवमीदृशीभिर्महानुभावाभिरिष्टकाभिरयं चीयत इति सावित्रस्यैव स्तुतिः ॥ 3अथो यथेत्यादि ॥ क्षेत्रं भूमिश्शरीरं वा । विशिष्टं क्षेत्रं जानन् लभमानो भूत्वा तदनुप्रविश्य च भोक्तव्यमभिमतं सर्वं भुङ्क्ते, ते चैतस्य क्षेत्रतां भजन्ते, ततोऽसावेतेषामेव सलोकतां सायुज्यं सयुग्भावं चाश्नुते प्राप्नुते । अपपुनर्मृत्युमित्यादि विदुषस्स्तुतिः ॥ इति प्रथमे काठके पञ्चविंशोऽनुवाकः ॥
1कश्चिद्ध वा इत्यादि ॥ कश्चिदस्मान्मनुष्यलोकात् प्रेत्य परेत्य आत्मानं वेद जानाति निजमात्मस्वरूपं शुद्धमवगच्छति अयमीदृशोऽहमस्मीति । कश्चित्तु प्रेत्य स्वर्गलोकभोक्तव्यमात्मीयस्थानं प्रतिप्रजानाति प्रतिमुखं गन्तुं न प्रजानाति । लोकमपि न जानाति, का कथा आत्मानमिति भावः । कथं विद्यमानमेव न ज्ञायत इत्याह - अग्निमुग्ध इति । अग्निमुग्धः खलु अग्न्यभिभवेन मूर्छां गत आत्मानं न जानाति, धूमतान्तः धूमव्याकुलितदृष्टिश्चापि स्वं लोकं गन्तव्यं स्थानं न प्रति प्रजानाति । एवमेव कश्चिद्धूमस्थानीयेन अज्ञानेन तान्तः कर्मसु सक्त आत्मानमात्मीयं च लोकं न जानाति । उभयत्रापि ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥ 2कः पुनरात्मानं वेद स्वं च लोकं प्रति प्रजानातीत्याह - अथ य इत्यादि ॥ सावित्रविदात्मानं जानाति । स यदि पुण्यलोककामो भवति तं प्रतिगन्तुमपि जानाति । ननु लोककामनायां कर्मानुगुणलोककामी स्यात् तत्कोऽस्य विशेष इत्याह - एष उ वेवेत्यादि । तत् तदानीमेव सावित्र एनं सावित्रविदं स्वर्ग लोकमेवाभिवहति सुखैकस्थानमेवाभिप्रापयति ॥ 3ननु कर्मानुगुणं लोकं गच्छति, तत्किं सावित्रेणेत्याह - अहोरात्रैर्वा इति ॥ अहोरात्रैस्सयुग्भिः समानयोगैस्सहकारिभिः खल्विदं यत्किञ्चिज्ज्योतिष्टोमादिकं कर्म क्रियते । कथम्? इतिरात्रायादीक्षिषत इत्थंप्रकारा रात्रिरितिरात्रिः एकरात्रिर्दीक्षा तिस्रो दीक्षा चतस्रो दीक्षेति । ‘क्रियाग्रहणं कर्तव्यम्’ इति संप्रदानत्वाच्चतुर्थी । एवमीदृशीं दीक्षां कृतवन्त इति वदन्तो रात्र्यवच्छिन्नां दीक्षां वदन्ति । तथा इतिरात्राय व्रतमुपागुरिति व्रतोपायनावच्छेदं रात्रिभिः कुर्वन्ति एकां रात्रिं व्रतमुपागुः द्वादशरात्रीरित्यादि । एवं सर्वं कर्माहोरात्रैस्सयुपग्भिः क्रियत इति । अस्तु ततः किमित्याह - तानित्यादि । तानहोरात्रानिष्टकारूपेण स्थितानेवंप्रभावान् अविदुषः अजानतः पुरुषस्य अमुष्मिन् लोके शेवधिं निधिस्थानीयं फलं धवन्ति पिबन्ति नाशयन्ति, ततस्सोऽविद्वान् धीतं पीतं शून्यं शेवधिं अनु लक्षीकृत्य परैति ॥ 4अथेत्यादि ॥ अहोरात्रेष्टकावान्तरसावित्रं यो वेद तस्य शेवधिं अहोरात्रा न धयन्ति । ततस्स विद्वान् अधीतं समृद्धमेव शेवधिं अनु लक्षीकृत्य परैति, तदवोचाम सावित्र एवंविद्वांसं स्वर्गं लोकमभिवहतीति तस्माद्विदुषा भवितव्यमिति ॥ 5भरद्वाज इत्यादि ॥ त्रिभिरायुर्भिः पुरुषायुषस्य त्रिभिरंशैः ब्रह्मचर्यं ब्रह्म वेदः तदर्थं व्रतं ब्रह्मचर्यं तन्निमित्तं गुरुकुले उवास ब्रह्मचर्यमेव वा गुरुकुलवासेन कृतवान् गुरुकुले स्थितो वेदानधिजगे । अथ जीर्णिं जरां प्राप्तम् । औणादिको निप्रत्ययः । स्थविरं स्थावरकल्पं शयानं निश्चेष्टं उपव्रज्य उपसंगम्य इन्द्र उवाच - हे भरद्वाज! यद्यहं चतुर्थमप्यायुषोंऽशं तुभ्यं दद्यां किमनेन कालेन त्वं कुर्याः? इति । अथ भरद्वाज उवाच - ब्रह्मचर्यमेव एनेनाप्यायुषा चरेयं नानधीत्य सर्वान् वेदान् ब्रह्मचर्याद्विरमेयमिति । अथ कृत्स्नवेदाध्ययनस्य अशक्यतां दर्शयितुं गिरिरूपान् प्रशस्तान् पर्वतान् वेदमयान्, प्रशंसायां रूपम् । त्रीन् त्रयीलक्षणानविज्ञातानिव अननुभूतपूर्वानिव स्थितान् तं भरद्वाजं दर्शयामास । ‘अभिभवादिदृशोरात्मनेपद उपसंख्यानम्’ इति वचनाद्व्यत्ययेन भरद्वाजस्य कर्मत्वम् । अथेन्द्रस्तेषां वेदराशीनामेकदेशमेकैकस्माद्गिरेः मुष्टिना मुष्टिमात्रया आददे । आदाय च भरद्वाजेति भरद्वाजमवधानार्थमामन्त्र्य इन्द्र उवाच - एते गिरिस्थानीया वेदराशयः । अनन्ताः खलु वेदाः, एतत्खलु मुष्टित्रयमात्रमेव एतैस्त्रिभिरायुर्भिः अन्ववोचथाः गुरूपदेशमनु अधीतवानसि । अथ अनन्तरं तव इतरत् वेदजातं अननूक्तं अनधीतमेव। तस्मात्सर्वान् वेदान् कोऽध्येष्यते? एहि साधो! इमं सावित्रं विद्धि, अयं हि सावित्रः सर्वविद्या सर्ववेदविद्याध्ययनपुण्यफलावाप्तिहेतुः, तस्मात्तत्किं वृथाश्रमेण? इदमेव वेदितव्यमित्युक्त्वा तस्मै भरद्वाजाय सावित्रमुवाच । तमित्यादि गतम् ॥ 6अमृतो हैवेत्यादि विदुषस्स्तुतिः ॥ एषो एवेत्यादि। एष सावित्र एव त्रयी विद्या, त्रयीसाध्यफलसिद्धिहेतुत्वात् । तदेवाह - यावन्तमित्यादि । गतम् ॥ 7अग्नेर्वा इत्यादिना अस्य सर्वफलहेतुत्वं समर्थयते ॥ एतानि संज्ञानमित्यादीनि ब्रह्मणो नामधेयानि, तस्मादग्न्यादीनामपि नामानि नमनानि वशीकरणानि, तस्मादेवंवेदिताऽप्यग्न्यादिसायुज्यमाप्नोति समानलोकतां चाप्नोति किं पुनर्विदित्वा कर्तेति भावः ॥ 8स वा एष इत्यादि ॥ एष सावित्रः परिमण्डल अपक्षपुच्छः पक्षपुच्छरहितः । तथाऽपि वायुरेवायमात्मा वायुरिव शीघ्रगो वा तस्याग्निरेव मुखं, असावादित्य एव शिरः । अथ एते देवते अग्न्यादित्यावन्तरेण एतत्प्रधानयोर्द्यावापृथिव्योर्मध्ये यावत्किञ्चित्पदार्थजातं वर्तते तत्सर्वं सीव्यति अन्तरनुप्रविश्य धारयति तस्मात्सावित्र उच्यते । सीव्यतेर्वणव्यत्ययः ॥ इति प्रथमे काठके षड्विंशोऽनुवाकः ॥ समाप्तश्च प्रपाठकः ॥