प्रास्ताविकम्
- अस्मादृशानाम् अन्तर्जालाध्येतॄणां सौकर्याय प्रतिमन्त्रं विविच्य तैत्तिरीयश्रुतेर् भट्टभास्करभाष्यं ज्ञानयज्ञाख्यं प्रकाश्यते। कदाचिदन्येषाम् अप्युपयोगाय स्यात्। दोषेषु दृष्टेषु सूचनीया वयम् (प्रत्येकस्मिन् पृष्ठे लेखनीचित्रनोदनेन github fork इति कृत्वा pull request इति प्रेषयितुं शक्यम्)!
- उट्टङ्कितपाठः पराङ्कुशाचार्यजालक्षेत्राल् लब्धः।
- सम्पादनेस्मिन् लब्धः पाठो (संहिताया भाष्यस्यापि च) यथापेक्षं परिवर्तितः । विवरणान्यधः।
मन्त्र-भाष्य-संवलनम्
- यद्यपि भाष्य-संहितयोर्मेलनं पुस्तकेषु विद्यमानमेवं वर्तते, एकस्मिन् पत्र ऊर्ध्वभागे संहिता अविच्छिन्ना एकश्रुत्या प्रवर्तते । अधोभागे भाष्यमप्यविच्छिन्नवाक्यविभागम् । अत्र संहिता वाक्यव्यवस्थानुरोधेन तत्र तत्र विभक्ता ।
मन्त्रेषु परिवर्तनानि
समस्या-परिचयः -
- कण्ठस्थीकरणसौकर्याय +अखिलाम् अपि संहितां पञ्चाति-नामसु भागेषु विभजन्ति।
- एष पाठः प्रकाशितो बहुषु पुस्तकेषु जालक्षेत्रेषु च। एवं हि कण्ठस्थीकृत्य चानुवदन्ति।
- प्रत्येकस्मिन् संहिताभागे तादृशे नानावाक्यानां मध्ये सन्धिः कृतो दृश्यते। यत्र तु पञ्चातिभेद इष्टः, वाक्यमध्येऽपि संहिताविभागः कृतः! तेन विनियोगदशायाम् अनुचिताः स्वरा आयान्ति बहुत्र। मन्त्रार्थावगमने ऽप्यनेन बाधाः सम्भवन्ति।
परिहारपरिचयः -
- अत्र विनियोगं मनस्यवधार्य मन्त्रशो (यशुश्श [अर्ध]ऋक्शो वा) संहितापाठो विच्छिद्यते संयोज्यतेऽपि वा। विवरणान्यधः।
- विनियोगदृष्ट्या ऽर्थावगमनदृष्ट्या च वाक्यान्ते ऽर्धर्चन्ते वा विरामः स्यान्, नान्यत्रेत्यस्मन्निश्चयः।
परिवर्तनक्रमे -
- विनियोगानुसारेण 1-2-3 इति संख्या भाष्ये निर्दिष्टा पूर्वमुद्रितपुस्तकेषु । परन्तु तत्र वाक्यशो मन्त्रविभागः क्वचन न कृतः । अत्र अध्ययनसौकर्याय मन्त्रविभागः वाक्यव्यवस्था च कृता । सार्थकविनियोगेऽपि भिन्नवाक्यानां मध्ये विरामो गृह्यते, तत्र तेन च सन्धिविच्छेदो भवेदिति मतम्।
- संहितामूले यत्र निगदेषु यजुषाम् ऋचाञ्च समाहारस् तत्रेयं यजुरिति, इयं ऋगिति न स्पष्टं प्रतिभासः । तेन भाष्याध्ययने मन्त्रविभागः निगदे कियत्पर्यन्तम् अनुवर्तत इति न ज्ञायते । अत इदानीमत्र व्याख्यानानुरोधेन मन्त्रविभागः कृतः ।
आश्रितः क्रमः
- विभागसमये आदिम-अन्त्यपदयोः प्रकृतिस्वराः यदि संहितामात्रदर्शनेनास्पष्टाः तत्र पदपाठं पश्यामः। इत्थं प्रकृतिस्वरे ज्ञाते तु यथापेक्षं पाणिनीयनियमान् संहिताभागञ्चावलोक्य स्वरव्यत्ययं सम्पादयामः।
- क्वचित् विनियोगस्यैकत्वेऽपि वाक्यानि भिन्नानि, प्रतीकानि च भिन्नानीत्यस्मात् कारणात् सन्धिविच्छेदः कृतः, यथापेक्षं स्वराश्च परिवर्तिताः । तादृशस्थलेषु अवगाहनाय संयुक्तमन्त्रः इति पीठिकया साकं पूर्णमन्त्रः स्थापितः ।
- क्वचिद् एकस्यैव मन्त्रस्य विनियोगः विभज्योक्तो भाष्ये । तत्र मन्त्रं विच्छिद्य विनियोगानुसारेण पादशः, अर्धर्चशः, पादोनर्क्-शः मन्त्रा विभज्य निर्दिष्टाः । पञ्चमप्रपाठके विनियोगद्वयस्योदाहरणं दृश्यते - **त्रय॑स्त्रिँश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मय्ँ य॒ज्ञँ स्व॒धया॒ दद॑न्ते । तेषा॑ञ्छि॒न्नम्प्रत्ये॒तद्द॑धामि॒ स्वाहा॑। तं घ॒र्मो दे॒वाँ अप्ये॑तु ॥ [46] इति मन्त्रस्य टीका -“13 .त्रयस्त्रिंशदिति त्रिष्टुभा च”’ इति । अयं पूर्वमन्त्रस्य विनियोगभागः । तथा " 14अन्यं कपालं तेषु विसृजति - घर्म इति ॥"’ अयं चोत्तरविनियोगभाष्यभागः । अत्र वस्तुतः 13-14 मिलित्वा त्रिष्टुप् भवति ।
- क्वचिद् भाष्ये अनुष्टुप्, जगती, इत्यादि दिशा छन्दांसि सूचितानि । तेषां छन्दसां सुज्ञानायाक्षरगणनया मन्त्रेषु विभागः कृतः । एतदर्थं संहितान्तरमपि क्वचिदवलोक्तम्।
अध्याहारः ऊहश्च
- मन्त्रेष्वध्याहाराः […. ] इति चिहिताः। यथा - अमृता॑ अ॒मृते॑न॒ [उत्पुनामि] स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥ अत्र उत्पुनामि इत्ययमध्याहृतभागः ॥
- मन्त्रेषु +ऊहाः {…} इत्य् आवरणभागे निर्दिष्टः । यथा 1/8-25 इत्यत्र एकस्मिन् मन्त्रे द्विवचनं पठ्यते । परन्त्व् अध्याहार्यं क्रियापदमेकवचनमस्ति । तत्र द्विवचननिर्देश ऊह्यः । यथा - “त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ {त्वामवताम्} शाक्वररैव॒ते साम॑नी॒ {त्वामवताम्}” इत्यादि।
भाष्यविशेषांशाः
-
अत्र भट्टभास्करभाष्योक्त-विशेषांशसङ्ग्रहः अस्ति ।
-
पदपाठस्य अनित्यत्वविषये १-काण्डे ५ प्रपाठके इदमुच्यते । `त्वसमसीमनेमेत्यनुच्चानि’ इति त्वशब्दस्यानुदात्तत्वात्तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । इति । तेन पदकारा इतिपदेन पदपाठस्यानित्यत्वं सूचितं भवति ।
-
संहिताभागे क्वचिद् यजूंषि, क्वचिद् ऋचश्च भवन्ति ।तत्र ‘पुरस्तादुपयामा यजुषा गृह्यन्ते’ इति सामान्यनियमः । तत्रापवादः १-४प्रपाठके ३ अनुवाके भट्टभास्कराचार्येण प्रतिपादितः ।
-
-
“अत्रेदमुक्तमाचार्येण” - (उक्तमाचार्येण २-१-९) इति १-७-१ आदिमभागे प्रथममन्त्रव्याख्याने प्रयुक्तम् । कोयमाचार्यः ?
-
शाखान्तरपाठोदाहरणम्
- २का.-५प्र.-९ -अनु.
आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑ ,भ्रातृ॑व्यमस्मै जनयेत् । आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह । यज॑मानमे॒वैतेन॑ वर्धयति ।
अत्र टीका - 6यद्ब्रूयादिति ॥ आवह देवान् यजमानाय इत्यन्ता निवित् । शाखान्तरेषु तु ‘आवह देवान् देवयते यजमानाय’ इति पाठः ।
- २का.-५प्र.-९ -अनु.
-
२का.-५प्र.-९ -अनु.
-
सा॒धु ते॑ यजमान दे॒वतेत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते ।
यद्ब्रू॒याद् यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इति॑ । -
अत्र टीका- स्मः स्याम वयं होतारः सर्वदा तवेति मन्त्रार्थं दर्शयति - आशिषमिति ॥ हे यजमान इज्यमाना देवता तव साधयित्री अभिमतानां इत्येतामाशिषमनेनाशास्ते । भवत्येव च तत्फलमिति । अत्र ‘साधु ते यजमान देवता योऽग्निं होतारमवृथाः’ इत्यध्वर्युप्रवरानुवाकेन शाखान्तरीयपाठः ।
-
-
शाखान्तरपाठनिराकरणम्- संहितायामिति निर्देशः (२-५-९) यद्ब्रू॒यात्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानस्स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्
- यदा हीत्यादि ॥ मृत्युभिः पृथिवीमुपेत्यावस्यतीति । एवमिदं शाखान्तरीयं पाठं निन्दित्वा पाठान्तरं दर्शयति ।
-
१-७ प्रपाठके उक्तं च प्रातिशाख्ये इति प्रातिशाख्योदाहरणं कृतम् ।
भाष्यसमीकरणम्
- क्वचिन् मन्त्राणां व्याख्या पूर्वमेवागता इत्यस्मात् ‘व्याख्यातं पूर्वत्र’ इति, ‘गतमन्यत् ’ इत्यादिदिशा भाष्य उच्यते । तत्र अध्येतृसौकर्याय पूर्वतनभाष्यभाग एव सूचिरूपेण स्थापितः । तेन अयमत्र पूर्वतनभाग इति स्पष्टं ज्ञायते ।
- भाष्ये लुप्तपङ्किनिवेशः क्वचित् कृतः।
- भाष्ये टङ्कणदोषः क्वचित् निवारितः ।
टङ्कितसञ्चिकासु दोषः द्वेधा भवति। सुष्ट्वर्थापरिज्ञानेन अनर्थकशब्द-अपार्थकशब्दप्रयुक्त एकः । टङ्कणकाले अनवधानेन अपरः । इदं प्रासङ्गिकमुक्तम् ॥ इति । अपरो यथा - तत्र च ते व्यतृष्यन् इति स्थाने व्यतृप्यन् इति । (व्यतृप्यन् भूयोपि ऋद्ध्यभावेन विविधं तृष्यन्तोभवन् ।) इत्युदाहरणम् । एतादृशाः तत्रतत्र भवन्तः समीकृताः । - क्वचित् वाक्यामध्ये दण्डः अनवधानेन स्थापितः । सच निष्कासितः ।योग्यस्थाने पूरणेन सार्थकीकृतः । यथा -“उपासदत् उपसीदति दोग्धा । ऌदित्वादङ् “। इति । अत्र “उपासदत् उपसीदति । दोग्धा ऌदित्वादङ् ।इति वाक्यं समीचीनम् ।
- भाष्ये क्वचिन् मन्त्राणां व्याख्या नास्ति ।
-
यथा - पञ्चमप्रपाठके तद्रेत॑स्सि॒क्तन्न इत्यादि ३५-तः ४० पर्यन्तम् ।
-
भाष्योक्तप्रतीकानि मूले क्वचित् पूर्वापरीकरेणोपलभ्यते । यथा - ५ प्रपाठके पुत्रस्येति ॥ अमुष्मा+++(अमुष्मै इति पदम् उत्तरमूले उपलभ्यते । अत्र नोपलभ्यते)+++ इत्यत्र यथा नारायणाय केशवायेति ।
-
- भाष्ये ५ प्रपाठकेे केचित्, अन्ये इति पक्षद्वयम् उल्लिखितम् । अस्य विवरणं न लब्धम् । केचित्कारपक्षः कः अन्य इति कस्य वोल्लेख इत्यादि विचारणीयम् ।
- क्वचित् अन्ये एके इति उल्लिखितम् ।यथा “अत्र वृत्तिद्वययोगात्संशये सङ्ख्यया त्रिष्टुबित्येके । ‘आद्यात्सन्देहे । देवतादिभ्यश्च’ इति जगतीत्यन्ये ॥” इति । ब्राह्मण्यां क्षत्रियेण जातस्येत्येके ।
- क्वचिद् केचित्कारपक्षे अस्वारस्यं सूचितम् । यथा - १-७प्रपाठके “केचिदाहुः - ‘आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिः’ इत्यस्यैकाक्षरादारभ्योच्यन्ते, इति । तेषां बहुव्रीहिस्वरो नोपपद्यते ।” इति ।
विषयपरिष्कारः
- 1काण्डे 8-प्रपाठके 11 अनुवाके अयं मन्त्रः प्रस्तुतः । [] चिन्हान्तर्गतभागः मन्त्रस्य पूर्णरूपतां स्पष्टयति । संहितायां पूर्णमन्त्रः न पठितः ।
शु॒क्रा व॑श्शु॒क्रेणोत्पु॑नामि [स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥]
च॒न्द्राश्च॒न्द्रेण [उत्पुनामि , स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः॥]
अमृता॑ अ॒मृते॑न॒ [उत्पुनामि] स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥
अत्र भाष्यम्- " केचित्तु - त्रिभिरुत्पवनमाहुः । तदा ‘शुक्रा वश्शुक्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः’ इति ‘अमृता अमृतेनोत्पुनामि स्वाहा राजसूयाय चितानाः’ इति ‘अमृता अमृतेनोत्पुनामि स्वाहा राजसुयाय चितानाः’ इति प्रयोगाः ॥ " इति ।
अत्र संहितानुरोधात् " च॒न्द्राश्च॒न्द्रेण उत्पुनामि स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः॥” इति भाष्ये स्यात् । द्विवारम् ‘अमृता’ इति मन्त्रग्रहणे कारणं न पश्यामः ।
सम्पादकस्य टिप्पन्यः
- संहिता-भाष्ययोर्मध्ये पूर्वतनपुस्तकापेक्षया ऽनेकधा व्यत्यासो ऽस्मिंसंस्करणे कृतः । तत्र तत्र “संपादकस्य लेख” इति किमपि लिख्यते ।
- यत्राधिकजिज्ञासा भवति तत्रापि सम्पादकस्य लेख इति निर्दिष्टम् । तत्र क्वचित् परिशीलनीयमपि वाक्यजातं भवति ।
- क्वचिन् मन्त्राणां व्याख्या नास्ति । यथा - ए॒वैनँ॑ समा॒नाना॑ङ्करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठति । एतादृशस्थलेषु सम्पादकस्य लेख इति स्थापितम् । तेन अन्यत्र भाष्यादिष्वैतादृशवाक्यजातस्यार्थोपलब्धावत्र तदर्थो निवेशितुं सुकरो भवति ।
किं अन्यत् कार्यं विद्यते अत्र कर्तुम्
- यस्मिन् भागे ??? चिह्नं विद्यते तत्र मुद्रितपुस्तकानुसारेण वाक्यानि योजनीयानि ।
- इदानीं टङ्कितभट्टभास्कभाष्यस्य मुद्रितपुस्तकेन सह तोलनं कार्यम् । क्वचित् पङ्क्तयः लुप्ताः