+काठकम्

Source: TW

सायण-टीका

कठेन मुनिना दृष्टं
काठकं परिकीर्त्यते ।
सावित्रो नाचिकेतश्च
चातुर्होत्रस् तृतीयकः ॥ १० ॥

तुर्यो वैश्वसृजस् तद्वद्
वह्निर् आरुणकेतुकः । स्वाध्यायब्राह्मणं चेति
सर्वं काठकमीरितम् ॥ ११ ॥

नारण्याधीतिनियमः
सावित्रादिचतुष्टये ।
अतस्तद् ब्राह्मणग्रन्थे
श्रुतं व्याख्यातमप्यदः ॥ १२ ॥

वह्निर् आरुणकेत्वाख्यः
काठके पञ्चमः श्रुतः ।
आरण्यकादाव् आम्नातस्
तद्-व्याख्या ऽथ प्रतन्यते ॥ १३ ॥