२३

मूलम्

यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

विश्वास-प्रस्तुतिः

यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेदाश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

मूलम्

यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेदाश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

भट्टभास्कर-टीका

1यो वा इत्यादि ॥ अहोरात्रादीनां अश्वावयवरूपणेन अश्वः स्तूयते । इत्थमिदं ज्ञातव्यमिति स्तुतिफलम् । अश्वस्य मेधार्हस्य संवत्सरप्रजापत्यात्मनः लोम्नोर्वेदिता तस्य लोम्नि लोम्नि सर्वेषु लोमसु होता बह्वीनामाहुतीनां होता भवति, आहुतिभूयस्त्वात् फलभूयस्त्वमिति भावः ।

विश्वास-प्रस्तुतिः

अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी ।

मूलम्

अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी ।

भट्टभास्कर-टीका

के तर्हि महानुभावे अश्वस्य लोमनी? इत्याह - अहोरात्रे इति । संवत्सरप्रजापत्यात्मनोऽश्वस्य लोमस्थानीये अहोरात्रे,

मूलम्

यत्सा॒यम्प्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

विश्वास-प्रस्तुतिः

यत्सा॒यम्प्रा॑तर्जु॒होत्य् अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

मूलम्

यत्सा॒यम्प्रा॑तर्जु॒होत्य् अश्व॑स्यै॒व मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुहोति ।

भट्टभास्कर-टीका

एवं विदित्वा सायं प्रातरग्निहोत्रं जुह्वता अश्वस्य मेध्यस्य प्रजापतेरेव लोम्नि लोम्नि हुतं भवति ।

विश्वास-प्रस्तुतिः

ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुह्वति ।

मूलम्

ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोमल्ँ॑लोमञ्जुह्वति ।

भट्टभास्कर-टीका

एतदनुकरणीयं यस्य तदेतदनुकृति इदमेवानुकुर्वन्तः पुराकल्पे अश्वस्य लोम्नि लोम्नि जुह्वति स्म अद्यत्वे तु ज्ञानमात्रेणैव तत्फलसिद्धिरिति भावः । ‘लट् स्मे’ इति लट् । एवमुत्तरत्र द्रष्टव्यम् ॥

मूलम्

यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।

द॒र्श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ॥83॥

यद्द॑र्शपूर्णमा॒सौ यज॑ते । अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।

विश्वास-प्रस्तुतिः

यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेदाश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।

द॒र्श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ॥

यद्द॑र्शपूर्णमा॒सौ यज॑त अश्व॑स्यै॒व मेध्य॑स्य प॒देप॑दे जुहोति ।

ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अश्व॑स्य॒ मेध्य॑स्य प॒देप॑दे जुह्वति ।

2संवत्सरात्मनः प्रजापतेः पदस्थानीयौ दर्शपूर्णमासौ अमावास्यापौर्णमास्यौ तयोः दर्शपूर्णमासयोः कर्मणोः कर्ता । गतमन्यत् ॥

मूलम्

यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नव्ँ॒वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।

अ॒सौ वा आ॑दि॒त्योऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते ।

यद॑ग्निहो॒त्रञ्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।

विश्वास-प्रस्तुतिः

यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नव्ँ॒वेदाश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।

अ॒सौ वा आ॑दि॒त्योऽश्वः॑ ।

स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते ।

यद॑ग्निहो॒त्रञ्जु॒होत्य् अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुहोति ।

ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अ॑श्वस्य॒ मेध्य॑स्य वि॒वर्त॑नेविवर्तने जुह्वति ॥84॥

3संवत्सरात्मा प्रजापतिरादित्य एव । स एवाश्वत्वेन विवर्तते तस्य विवर्तनं आहवनीयप्रवेशः ‘अग्निं वावादित्यस्सायं प्रविशति’ इत्येवं विदित्वा अग्निहोत्रं जुह्वता अश्वस्य विवर्तने विवर्तने सर्वस्मिन् विवर्तनरूपे हुतं भवति । एवमीदृशप्रजापत्यात्मा अयमश्च इति अश्वस्यैव स्तुतिः ॥

इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये अश्वमेधे तृतीयाष्टके नवमप्रपाठके त्रयोविंशोऽनुवाकः ॥ अश्वमेधस्समाप्तः ॥