२२

मूलम्

प्र॒जाप॑तिव्ँ॒ वै दे॒वाᳶ पि॒तर॑म् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त ।

तमा॒लभ्योपा॑वसन् ।प्रा॒तर्यष्टा॑स्मह॒ इति॑ ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिव्ँ॒ वै दे॒वाᳶ पि॒तर॑म् प॒शुम्भू॒तम्मेधा॒याल॑भन्त ।

तमा॒लभ्योपा॑वसन्न् - “प्रा॒तर्यष्टा॑स्मह॒” इति॑ ।

एकव्ँ॒वा ए॒तद्दे॒वाना॒महः॑ । यत्सव्ँ॑वत्स॒रः । तस्मा॒दश्व॑ᳶ पु॒रस्ता॑त्सव्ँवत्स॒र आल॑भ्यते ।

यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्वः॑ ।

मूलम्

प्र॒जाप॑तिव्ँ॒ वै दे॒वाᳶ पि॒तर॑म् प॒शुम्भू॒तम्मेधा॒याल॑भन्त ।

तमा॒लभ्योपा॑वसन्न् - “प्रा॒तर्यष्टा॑स्मह॒” इति॑ ।

एकव्ँ॒वा ए॒तद्दे॒वाना॒महः॑ । यत्सव्ँ॑वत्स॒रः । तस्मा॒दश्व॑ᳶ पु॒रस्ता॑त्सव्ँवत्स॒र आल॑भ्यते ।

यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्वः॑ ।

भट्टभास्कर-टीका

1प्रजापतिं वा इत्यादि ॥ पशुं भूतं पशुरूपेणावस्थितं निजपितरं प्रजापतिं देवाः मेधाय यज्ञाय आलभ्योपावसन् प्रातः श्वो यष्टास्मह इति । तस्मात्संवत्सरसमाप्तेः पुरस्तात् अश्व आलभ्यते देवानामेकमहस्संवत्सर इत्युक्तत्वात्तस्मिंश्चाहन्यालब्धत्वात् । अश्वभूतः प्रजापतिर्यस्मादालब्धः, तस्मादद्याप्यश्व आलभ्यते । यस्माच्च तदानीं सद्यः समाने एकस्मिन्नेवाहनि अश्वः मेधोऽभवत्, अश्वसंबन्धेन उक्थ्यस्समपादि , तस्मादश्वमेधोऽभवत् ।

विश्वास-प्रस्तुतिः

यत्स॒द्यो मेधोऽभ॑वत् ॥ 79॥
तस्मा॑दश्वमे॒धः ।

वेदु॒कोऽश्व॑मा॒शुम्भ॑वति ।
य ए॒वव्ँ वेद॑ ।

मूलम्

यत्स॒द्यो मेधोऽभ॑वत् ॥ 79॥
तस्मा॑दश्वमे॒धः ।

वेदु॒कोऽश्व॑मा॒शुम्भ॑वति ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

एवं सद्य एवाश्वमेधसंपत्तेर्वेदिता आशुं शीघ्रगामिनमश्वं वेदुको लब्धा भवति महाधनो भवति । विन्दतेश्छान्दस उकञ् ॥

विश्वास-प्रस्तुतिः

यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्व॑ᳶ प्र॒जाप॑तेᳶ पशू॒नामनु॑रूपतमः ।
आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते ।
य ए॒वव्ँ वेद॑ ।

मूलम्

यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्व॑ᳶ प्र॒जाप॑तेᳶ पशू॒नामनु॑रूपतमः ।
आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

2यद्वा इति ॥ यस्मादश्वात्मा प्रजापतिः आलब्धः तस्मात्पशूनां मध्ये अश्वः प्रजापतेरनुरूपतमः अनुकूलतमः, तस्मात् प्रजापतयेऽश्व आलभ्यते ।

विश्वास-प्रस्तुतिः

आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते ।
य ए॒वव्ँ वेद॑ ।

मूलम्

आऽस्य॑ पु॒त्रᳶ प्रति॑रूपो जायते ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

एवं वेदितुः प्रतिरूप आत्मतुल्यः पुत्र आजायते ॥

विश्वास-प्रस्तुतिः

सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते ।
समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ॥80॥
य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

सर्वा॑णि भू॒तानि॑ स॒म्भृत्याल॑भते ।
समे॑नन्दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ॥80॥
य उ॑ चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

3सर्वाणीति ॥ अश्वस्य प्रजापत्यात्मकत्वात् प्रजापतेश्च सर्वभूतात्मकत्वात् सर्वाणि भूतानि संभृत्य एकीकृत्य आलभते अश्वमेधयाजी । तस्मादेनं देवास्तेजसे ब्रह्मवर्चसाय च संभरन्ति तदुभयं सम्यक्कल्पयन्ति योऽश्वमेधेन यजते, यश्चैनमेवंमहिमानं वेद ॥

विश्वास-प्रस्तुतिः

ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वता॑म् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । य॒ज्ञमे॒व ।

मूलम्

ए॒तद्वै तद्दे॒वा ए॒तान्दे॒वता॑म् । प॒शुम्भू॒तम्मेधा॒याल॑भन्त । य॒ज्ञमे॒व ।

भट्टभास्कर-टीका

4एतद्वा इत्यादि । । यदुक्तं देवाः एतां देवतां प्रजापतिं पशुं भूतं मेघाय आलभन्तेति पूर्वमस्माभिः एतत् वक्ष्यमाणं तदिति मन्तव्यम् । यज्ञमेवेति । यज्ञमेव यज्ञायालभन्तेति तदभिप्राय इत्यर्थः ।

विश्वास-प्रस्तुतिः

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।

मूलम्

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।

भट्टभास्कर-टीका

अस्तु किमनेन साधितेनेत्याह - यज्ञेनेत्यादि । ‘यज्ञेन यज्ञमयजन्त देवा:’ इत्युक्तं भवतीत्यर्थः । ऋच एव प्रतीकग्रहणमिति केचित् । यज्ञात्मानं प्रजापतिं यज्ञात्मना प्रजापतिना अयजन्त इति ।

विश्वास-प्रस्तुतिः

का॒म॒प्रय्ँ य॒ज्ञम॑कुर्वत ।

मूलम्

का॒म॒प्रय्ँ य॒ज्ञम॑कुर्वत ।

भट्टभास्कर-टीका

ते हि देवाः कामप्रं सर्वेषां कामानां प्रापयितारं पूरयितारं यज्ञमकुर्वत । तस्मात् यज्ञेन यज्ञमयजन्तेति । ‘प्रा पूरणे’ । ‘आतोऽनुपसर्गे कः’ ।

विश्वास-प्रस्तुतिः

ते॑ऽमृत॒त्वम॑कामयन्त ।
ते॑ऽमृत॒त्वम॑गच्छन् ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
दे॒वाना॑मे॒वाय॑नेनैति ॥81॥

मूलम्

ते॑ऽमृत॒त्वम॑कामयन्त ।
ते॑ऽमृत॒त्वम॑गच्छन् ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
दे॒वाना॑मे॒वाय॑नेनैति ॥81॥

भट्टभास्कर-टीका

कः पुनर्देवानां काम इत्याह - तेऽमृततत्वमित्वादि । तस्मात् अश्वमेधयाजी देवानामयनेन मार्गेण एति गच्छति यत्र न मृत्युः ।

मन्त्रः

प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति ।

टीका

तस्मात् प्राजापत्येन कामप्रेणानेन यज्ञेन यष्टा अपुनर्मारं पुनर्मरणनिवृतिं गच्छति जरामरणरहितो भवति ॥

विश्वास-प्रस्तुतिः

ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता॑त्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते । सर्वे॑भ्य॒ᳵ कामे॑भ्यः ।

मूलम्

ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता॑त्प्राजाप॒त्यमृ॑ष॒भन्तू॑प॒रम्ब॑हुरू॒पमाल॑भते । सर्वे॑भ्य॒ᳵ कामे॑भ्यः ।

भट्टभास्कर-टीका

5एतस्येति । । एतस्य प्रजापतेः रूपेणोपलक्षितं प्राजापत्यमृषभं सेक्तारं तूपरं शृङ्गरहितं बहुरूपं नानावर्णं पुरस्तात् अश्वमेधारम्भ एव साङ्गहणीसंज्ञान्योरनन्तरमेव वैशाख्यां पौर्णमास्यामालभते सर्वेभ्यः कामेभ्यः ।

मूलम्

सर्व॒स्याप्त्यै॑ । सर्व॑स्य॒ जित्यै॑ । सर्व॑मे॒व तेना॑प्नोति ।

विश्वास-प्रस्तुतिः

सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।

मूलम्

सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना॑प्नोति ।
सर्व॑ञ्जयति ।

भट्टभास्कर-टीका

स च सर्वस्याप्त्यै भवति सर्वस्य च जित्यै । तस्मत् तेन तादृशेन पशुनोपलक्षितेन अश्वमेधेन सर्वमाप्नोतीष्टं, जयति च सर्वं जेतव्यम् ।

विश्वास-प्रस्तुतिः

यो॑ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥82॥

मूलम्

यो॑ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥82॥

भट्टभास्कर-टीका

योऽनेन यजते, यश्चैनमेवं ईदृक्प्रभावपशुं क्रतुं वेद, स च सर्वमाप्नोति जयति च ॥

इति तृतीये नवमे द्वाविंशोऽनुवाकः ॥