२१

विश्वास-प्रस्तुतिः

आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त ।
तेऽङ्गि॑रस आदि॒त्येभ्यः॑ ।

मूलम्

आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के॑ऽस्पर्धन्त ।
तेऽङ्गि॑रस आदि॒त्येभ्यः॑ ।

भट्टभास्कर-टीका

1आदित्याश्चेत्यादि ॥ सुवर्ग इति निमित्तात्सप्तमी ।

विश्वास-प्रस्तुतिः

अ॒मुमा॑दि॒त्यमश्वँ॑ श्वे॒तम्भू॒तन्दक्षि॑णामनयन् ।

मूलम्

अ॒मुमा॑दि॒त्यमश्वँ॑ श्वे॒तम्भू॒तन्दक्षि॑णामनयन् ।

भट्टभास्कर-टीका

अमुमिति । असौ दृश्यमान आदित्य श्वेतोऽश्वोऽभवत् । तं तथाभूतं आदित्यात्मानं अश्वं आदित्येभ्यो दक्षिणामनयन्नङ्गिरसः ।

मूलम्

ते॑ऽब्रुवन् ।
यन्नोने॑ष्ट ।
स वर्यो॑ भू॒दिति॑ ।

विश्वास-प्रस्तुतिः

ते॑ऽब्रुव॒न्न् - “यन्नोने॑ष्ट॒ स वर्यो॑ भू॒दि"ति॑ ।

मूलम्

ते॑ऽब्रुव॒न्न् - “यन्नोने॑ष्ट॒ स वर्यो॑ भू॒दि"ति॑ ।

भट्टभास्कर-टीका

अथ त आदित्या अब्रुवन् - यमश्वं नोऽस्माकं अनेष्ट नीतवन्तः स्थ स वर्यो वरणीयोऽभूत् भवत्विति । छान्दसो लुङ् ।

विश्वास-प्रस्तुतिः

तस्मा॒दश्वँ॒ सव॒र्येत्याह्व॑यन्ति ।

मूलम्

तस्मा॒दश्वँ॒ सव॒र्येत्याह्व॑यन्ति ।

भट्टभास्कर-टीका

तस्मादश्वं सान्त्वनादौ सवर्येत्याह्वयन्ति । वर्यैरुत्कृष्टैर्गुणैस्सहितः सवर्य इति भावः । यस्मादेवमङ्गिरोभिः दत्तस्याश्वस्य वरणीयत्वमभूत् >

विश्वास-प्रस्तुतिः

तस्मा॑द्य॒ज्ञे वरो॑ दीयते ।

मूलम्

तस्मा॑द्य॒ज्ञे वरो॑ दीयते ।

भट्टभास्कर-टीका

तस्माद्यज्ञे वरो वरणीयं द्रव्यं दक्षिणात्वेन दीयते ॥

मूलम्

यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् ।
तस्मा॒दश्वो॒ नाम॑ ॥76॥

विश्वास-प्रस्तुतिः

यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑व॒त् तस्मा॒दश्वो॒ नाम॑ ॥

मूलम्

यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑व॒त् तस्मा॒दश्वो॒ नाम॑ ॥

भट्टभास्कर-टीका

2यदित्यादि ॥ देवैरालब्धः प्रजापतिः यस्मादश्वोऽभवत् तस्मादश्व आसीत् प्रजापतिरश्वत्वाद्व्यापकत्वादश्व इति भावः । ‘अशू व्याप्तौ’ औणादिकः क्वन्प्रत्ययः ।

मूलम्

यच्छ्वय॒दरु॒रासी॑त् ।
तस्मा॒दर्वा॒ नाम॑ ।

विश्वास-प्रस्तुतिः

यच्छ्वय॒दरु॒रासी॒त् तस्मा॒दर्वा॒ नाम॑ ।

मूलम्

यच्छ्वय॒दरु॒रासी॒त् तस्मा॒दर्वा॒ नाम॑ ।

भट्टभास्कर-टीका

यच्छ्वयदिति । ‘प्रजापतेरक्ष्यश्वयत्’ इति यस्मात्तस्याक्षि श्वयत् शूनं भवत् अरुर्व्यथाहेतुरासीत् तस्मादर्वाऽभवदश्वः । अर्तेरुसि अरुः । तत एव वनिपि अर्वा ।

मूलम्

यत्स॒द्यो वाजा॑न्त्स॒मज॑यत् ।
तस्मा॑द्वा॒जी नाम॑ ।

विश्वास-प्रस्तुतिः

यत्स॒द्यो वाजा॑न्त्स॒मज॑य॒त् तस्मा॑द्वा॒जी नाम॑ ।

मूलम्

यत्स॒द्यो वाजा॑न्त्स॒मज॑य॒त् तस्मा॑द्वा॒जी नाम॑ ।

भट्टभास्कर-टीका

यत्सद्य इति । सद्यः जातमात्र एव वाजान् अन्नानि समजयत् आजिजयेनाहरत् तस्मात् वाजी अन्नवान् ।

मूलम्

यदसु॑राणाल्ँ लो॒कानाद॑त्त ।
तस्मा॑दादि॒त्यो नाम॑ ।

विश्वास-प्रस्तुतिः

यदसु॑राणाल्ँ लो॒कानाद॑त्त॒ तस्मा॑दादि॒त्यो नाम॑ ।

मूलम्

यदसु॑राणाल्ँ लो॒कानाद॑त्त॒ तस्मा॑दादि॒त्यो नाम॑ ।

भट्टभास्कर-टीका

आदित्य इति । असुरैरार्जितान् लोकान् अश्व आदित्यो भूत्वा असुरान् जित्वा देवार्थमादत्त तस्मादादानादादित्यः । आदानमादितिः । छान्दसमित्त्वम् । तदर्हतीति ‘छन्दसि च’ इति यः ॥

विश्वास-प्रस्तुतिः

अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् ।

मूलम्

अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् ।

भट्टभास्कर-टीका

3अश्वमेधस्याग्निर्योनिः कारणं, तेनात्मलाभात् आयतनं स्थानं च अग्निरश्वमेधस्य, अग्निं चित्वा तत्र करणात् । तस्याप्यग्नेः सूर्यो योनिः ‘सूर्यस्त्वा पुरस्तात्पातु’ इति मन्त्रात् । तदधीनत्वादग्नेः सूर्य आयतनं ‘उद्यन्तं वावाऽदित्यमग्निरनु समारोहति’ इति दर्शनात् ।

मूलम्

यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति ।
योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ॥77॥

विश्वास-प्रस्तुतिः

यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति॒ योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ॥77॥

मूलम्

यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति॒ योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तङ्करोति ॥77॥

भट्टभास्कर-टीका

तत्र चित्येऽग्नौ उत्तरवेद्युपवपनादुपस्थानात् एनं उत्तरवेद्यां क्रियमाणमश्वमेधं योनिमन्तं आयतनवन्तं च करोति ।

विश्वास-प्रस्तुतिः

योनि॑माना॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।

मूलम्

योनि॑माना॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

एवं वेदिता च तथा भवति ॥

मूलम्

प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् ।
यद॑र्काश्वमे॒धौ ।

विश्वास-प्रस्तुतिः

प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॒म् यद॑र्काश्वमे॒धौ ।

मूलम्

प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॒म् यद॑र्काश्वमे॒धौ ।

भट्टभास्कर-टीका

4अथ ‘सूर्योऽग्रेर्योनिः’ हति यदुक्तं तत्प्रयोजनमाह - प्राणापानाविति ॥ देवानां प्राणापानस्थानीयावर्काश्वमेधौ आदित्यश्चाग्निश्च । अर्क आदित्यः, अश्वमेधोऽग्निः । कारणे कार्यशब्दः ।

विश्वास-प्रस्तुतिः

प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे ।

मूलम्

प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

तयोरुपरि अश्वमेधस्य कर्ता प्राणापानाववरुन्धे ।

विश्वास-प्रस्तुतिः

ओजो॒ बलव्ँ॒वा ए॒तौ दे॒वाना॑म् ।
यद॑र्काश्वमे॒धौ ।
ओजो॒ बल॑मे॒वाव॑रुन्धे ।

मूलम्

ओजो॒ बलव्ँ॒वा ए॒तौ दे॒वाना॑म् ।
यद॑र्काश्वमे॒धौ ।
ओजो॒ बल॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

ओजो बलस्थानीयादोजो बलावरोधः ॥

विश्वास-प्रस्तुतिः

अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् ।

यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ ।
ताव॑र्काश्वमे॒धौ ।

अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे ।

मूलम्

अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् ।
सूर्यो॒ग्नेर्योनि॑रा॒यत॑नम् ।

यद॑श्वमे॒धे॑ऽग्नौ चित्य॑ उत्तरवे॒दिञ्चि॒नोति॑ ।
ताव॑र्काश्वमे॒धौ ।

अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

5कौ पुनरर्काश्वमेधौ? को वा तयोरर्काश्वमेधान्वयः? इत्याह - अग्निर्वा इत्यादि ॥ व्याख्यातम् । तत्र चित्याग्नेरुपर्युत्तरवेदिचित्यात्मनोऽग्रेः करणात् द्वौ चित्याग्री अर्काश्वमेधौ भवतः । तयोरुपरि यजनादग्न्यादित्ययोरवरोधो विधेयीकरणम् ।

विश्वास-प्रस्तुतिः

अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ॥78॥

मूलम्

अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ॥78॥

भट्टभास्कर-टीका

अपि च तयोः प्रतिष्ठितश्च भवति ॥

इति तृतीये नवमे एकविंशोऽनुवाकः ॥