विश्वास-प्रस्तुतिः
ता॒र्प्येणाश्वँ॒ संज्ञ॑पयन्ति ।
मूलम्
ता॒र्प्येणाश्वँ॒ संज्ञ॑पयन्ति ।
भट्टभास्कर-टीका
1तार्प्येणेत्यादि ॥ तार्प्यं घृताक्तं कम्बळं तेन संज्ञपयन्ति मारयन्ति । ‘ज्ञप मारणादौ’ ।
विश्वास-प्रस्तुतिः
य॒ज्ञो वै ता॒र्प्यम् ।
य॒ज्ञेनै॒वैनँ॒ सम॑र्धयन्ति ।
मूलम्
य॒ज्ञो वै ता॒र्प्यम् ।
य॒ज्ञेनै॒वैनँ॒ सम॑र्धयन्ति ।
भट्टभास्कर-टीका
यज्ञो वा इति । प्रधानसाधनत्वात् ।
विश्वास-प्रस्तुतिः
या॒मेन॒ साम्ना॑ प्रस्तो॒ताऽनूप॑तिष्ठते ।
य॒म॒लो॒कमे॒वैन॑ङ्गमयति ।
मूलम्
या॒मेन॒ साम्ना॑ प्रस्तो॒ताऽनूप॑तिष्ठते ।
य॒म॒लो॒कमे॒वैन॑ङ्गमयति ।
भट्टभास्कर-टीका
यामेन यमसंबन्धिना पितृमेधप्रयोज्येन अनूपतिष्ठते । संज्ञप्यमानमश्वं पार्श्वत उपतिष्ठते ॥
विश्वास-प्रस्तुतिः
ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्वँ॒ संज्ञ॑पयन्ति ।
मूलम्
ता॒र्प्ये च॑ कृत्यधीवा॒से चाश्वँ॒ संज्ञ॑पयन्ति ।
भट्टभास्कर-टीका
2तार्प्ये चेत्यादि ॥ तार्प्यं प्रथमं संस्तीर्य, तत उपरि कत्त्यधीवासं कृत्त्यात्मकमधिवासं छादनपटमास्तीर्य, तत उपरि हिरण्यकशिपु हिरण्मयं कशिपु आस्तरणपटमास्तीर्य तत उपरि रुक्मं शतपलिकं स्वर्णशकलं निधाय, तत उपरि अश्वं संज्ञपयन्ति ॥
विश्वास-प्रस्तुतिः
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒व प॒शूनव॑रुन्धे ।
हि॒र॒ण्य॒क॒शि॒पु भ॑वति ।
तेज॒सोऽव॑रुद्ध्यै ॥73॥
रु॒क्मो भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
अश्वो॑ भवति ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् ।
मूलम्
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒व प॒शूनव॑रुन्धे ।
हि॒र॒ण्य॒क॒शि॒पु भ॑वति ।
तेज॒सोऽव॑रुद्ध्यै ॥73॥
रु॒क्मो भ॑वति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
अश्वो॑ भवति ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
अ॒स्य वै लो॒कस्य॑ रू॒पन्ता॒र्प्यम् ।
भट्टभास्कर-टीका
3अस्य लोकस्य रूपं तार्प्यं अधोभावात् ।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षस्य कृत्यधीवा॒सः ।
मूलम्
अ॒न्तरि॑क्षस्य कृत्यधीवा॒सः ।
भट्टभास्कर-टीका
कृत्यधीवासोऽन्तरिक्षस्य रूपं द्वितीयत्वात् ।
विश्वास-प्रस्तुतिः
दि॒वो हि॑रण्यकशि॒पु ।
मूलम्
दि॒वो हि॑रण्यकशि॒पु ।
भट्टभास्कर-टीका
दिवो रूपं हिरण्यकशिपु तृतीयत्वात् ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यस्य॑ रु॒क्मः ।
मूलम्
आ॒दि॒त्यस्य॑ रु॒क्मः ।
भट्टभास्कर-टीका
आदित्यस्य रूपं रुक्मः रोचनशीलत्वात् ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒रश्वः॑ ।
इ॒ममे॒व लो॒कन्ता॒र्प्येणा॑प्तोति ॥74॥
अ॒न्तरि॑क्षङ्कृत्यधीवा॒सेन॑ ।
दिवँ॑ हिरण्यकशि॒पुना॑ ।
आ॒दि॒त्यँ रु॒क्मेण॑ ।
मूलम्
प्र॒जाप॑ते॒रश्वः॑ ।
इ॒ममे॒व लो॒कन्ता॒र्प्येणा॑प्तोति ॥74॥
अ॒न्तरि॑क्षङ्कृत्यधीवा॒सेन॑ ।
दिवँ॑ हिरण्यकशि॒पुना॑ ।
आ॒दि॒त्यँ रु॒क्मेण॑ ।
भट्टभास्कर-टीका
प्रजापतेः रूपमश्वः प्रजापत्यक्षिपरिणामत्वात् ।
विश्वास-प्रस्तुतिः
अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति ।
मूलम्
अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑ते॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति ।
भट्टभास्कर-टीका
सायुज्यं सयुक्त्वं ऐक्यम् । सलोकतां समानलोकताम् ।
विश्वास-प्रस्तुतिः
ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् ।
सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति ।
मूलम्
ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् ।
सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति ।
भट्टभास्कर-टीका
एतासामेव देवतानां सायुज्यमैक्यम् । सार्ष्टितां समानवीर्यत्वं समानलोकतां चाप्नोति ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥75॥
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥75॥
भट्टभास्कर-टीका
योऽश्वमेधेन यजते, यश्चैनं एवंमहिमानं वेदैव न यजते सोऽप्युक्तफलभागिति । ऋच्छ गतीन्द्रियप्रळयमूर्तिभावेषु, क्तिनि समानस्य सभावः, वर्णविकारश्छान्दसः ॥
इति तृतीये नवमं विंशोऽनुवाकः ॥