१९

विश्वास-प्रस्तुतिः

ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः ।

मूलम्

ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः ।

भट्टभास्कर-टीका

1एष वा इत्यादि ॥ ब्रह्मौदनस्तुतिरिति केचित् । अश्वमेधस्तुतिरित्यन्ये । विविधं भावयिता श्रेयसां विभुः । ण्यन्तात्क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक् ।

विश्वास-प्रस्तुतिः

सर्वँ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

सर्वँ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

यस्मिन्देशे एतेन यज्ञेन यजन्ते तत्र सर्वं गवादिकमपि विभु भवति ।
एवं सर्वत्र ॥

विश्वास-प्रस्तुतिः

ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

प्रकृष्टं भावयिता प्रभुः ।

विश्वास-प्रस्तुतिः

ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्रोर्ज॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्रोर्ज॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

ऊर्जस्वान् अन्नवान् ।

विश्वास-प्रस्तुतिः

ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥70॥
सर्वँ॑ ह॒ वै तत्र॒ पय॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥70॥
सर्वँ॑ ह॒ वै तत्र॒ पय॑स्वद्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

पयस्वान् रसवान् ।

विश्वास-प्रस्तुतिः

ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ विधृ॑तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ विधृ॑तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

विधृतो विशेषेण धृतः व्यवस्थितस्वभावः फलैकान्तः ।

विश्वास-प्रस्तुतिः

ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ व्यावृ॑त्तम्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

व्यावृत्तः इतरस्माद्विलक्षणः ।

विश्वास-प्रस्तुतिः

ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ॥71॥
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॒ प्रति॑ष्ठितम्भवति ॥71॥
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

प्रतिष्ठितः अविचलः ।

विश्वास-प्रस्तुतिः

ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः ।
सर्वँ॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

तेजस्वी ख्यातिमान् ।

विश्वास-प्रस्तुतिः

ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः ।
आ ह॒ तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः ।
आ ह॒ तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

ब्रह्मवर्चसी ब्राह्मण बलवान् ।

विश्वास-प्रस्तुतिः

ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः ।
आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः ।
आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

टीकाṀ

अतिव्याधी अनिष्टानामत्यर्थं वेद्धा ।

विश्वास-प्रस्तुतिः

ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः ।
दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

मूलम्

ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः ।
दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

भट्टभास्कर-टीका

दीर्घो दीर्घफलः ।

विश्वास-प्रस्तुतिः

ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥72॥

मूलम्

ए॒ष वै कॢ॒प्तो नाम॑ य॒ज्ञः ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥72॥

भट्टभास्कर-टीका

कॢप्तः संपन्नः । तस्मात् प्रजाभ्यस्सपद्यते योगक्षेमः । योगसहितः क्षेमः योगक्षेमः । अलब्धलाभो योगः, लब्धपरिपालनं क्षेमः ॥

इति तृतीये नवमे एकोनविंशोऽनुवाकः ॥