मूलम्
तदा॑हुः ।
द्वाद॑श ब्रह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ ।
विश्वास-प्रस्तुतिः
तदा॑हु॒र् “द्वाद॑श ब्रह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒ते"ति॑ ।
मूलम्
तदा॑हु॒र् “द्वाद॑श ब्रह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒ते"ति॑ ।
भट्टभास्कर-टीका
1तदाहुः याज्ञिका विकल्पं - संस्थिते समाप्तेऽश्वमेधे गृहं गत्वा द्वादश ब्रह्मौदनान्निर्वपेत्, इष्टिभिर्वा द्वादशभिर्यजेत सर्वेऽप्याग्नेयाष्टाकपाला इत्याहुः । एतद्दूषयति - यदितादि ॥ इष्टिपक्षो दूष्यते ।
मूलम्
यदिष्टि॑भि॒र्यजे॑त ।
उ॒प॒नामु॑क एनय्ँ य॒ज्ञस्स्या॑त् ।
विश्वास-प्रस्तुतिः
यदिष्टि॑भि॒र्यजे॑त उप॒नामु॑क एनय्ँ य॒ज्ञस्स्या॑त् ।
मूलम्
यदिष्टि॑भि॒र्यजे॑त उप॒नामु॑क एनय्ँ य॒ज्ञस्स्या॑त् ।
भट्टभास्कर-टीका
यदिष्टिभिर्यजेत एनं यज्ञ उपनामुकस्स्यात् अस्मिन् सदा उपनमनशीलस्स्यात्, यज्ञः फलतीति भावः । यज्ञफलं एनं न जहात्येव ।
विश्वास-प्रस्तुतिः
पापी॑याँ॒स्तु स्या॑त् ।
मूलम्
पापी॑याँ॒स्तु स्या॑त् ।
भट्टभास्कर-टीका
किं तर्हीति - पापीयांस्तु स्यात् पापतरो भवति । कस्यचिदप्यकरणे पापः इष्टिकरणे पापतरः ब्रह्मौदनकरणे अपाप इति भावः ॥
मूलम्
आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाँ॑सि॒ य ई॑जा॒नः ।
विश्वास-प्रस्तुतिः
आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाँ॑सि ।
य ई॑जा॒नः ।
मूलम्
आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाँ॑सि ।
य ई॑जा॒नः ।
भट्टभास्कर-टीका
2अथ पापीयस्त्वमेव प्रतिपादयति - आप्तानीत्यादि ॥ य ईजानः समाप्तयागस्तस्य सर्वाणि छन्दांस्यपि हि आप्तानि उपयुक्तानि भवन्ति ।
विश्वास-प्रस्तुतिः
तानि॒ क ए॒ताव॑दाशु॒ पुन॒ᳶ प्रयु॑ञ्जी॒तेति॑ ।
मूलम्
तानि॒ क ए॒ताव॑दाशु॒ पुन॒ᳶ प्रयु॑ञ्जी॒तेति॑ ।
भट्टभास्कर-टीका
तानि तादृशानि एतावदाशु एतावत्प्रमाणं शैघ्र्यं यत्र तादृशमतिक्षिप्रं कः पुनः प्रयुञ्जीत प्रयोक्तुमर्हति अयुक्तमेतदिति यावन् । इतिशब्दो हेतौ ।
विश्वास-प्रस्तुतिः
सर्वा॒ वै सँस्थि॑ते य॒ज्ञे वागा॑प्यते ॥68 ॥
मूलम्
सर्वा॒ वै सँस्थि॑ते य॒ज्ञे वागा॑प्यते ॥68 ॥
भट्टभास्कर-टीका
किंच - संस्थिते यज्ञे सर्वा वागाप्यते कृतप्रयोजना उपयुक्ता वर्तते ।
विश्वास-प्रस्तुतिः
साप्ता भ॑वति या॒तया॑म्नी ।
क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता ।
मूलम्
साप्ता भ॑वति या॒तया॑म्नी ।
क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता ।
भट्टभास्कर-टीका
सा च तथाभूता यातयाम्नी आत्तसारा भवति । तस्मात् सा अरुष्कृता पिष्टपेषणस्थानीयेन पुनः प्रयोगपीडनेन बाधिता क्रूरीकृतेव हि भवति हिंसकस्वभावतां नीतेव भवति ।
विश्वास-प्रस्तुतिः
“सा न पुन॑ᳶ प्र॒युज्ये"त्या॑हुः ।
मूलम्
“सा न पुन॑ᳶ प्र॒युज्ये"त्या॑हुः ।
भट्टभास्कर-टीका
तस्मात् सा न पुनः प्रयुज्या तदानीमेव न पुनः प्रयोक्तव्येत्याहुर्वेदार्थविदः । छान्दसः क्यप् ।
विश्वास-प्रस्तुतिः
द्वाद॑शै॒व ब्र॑ह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
मूलम्
द्वाद॑शै॒व ब्र॑ह्मौद॒नान्त्सँस्थि॑ते॒ निर्व॑पेत् ।
भट्टभास्कर-टीका
तस्मात् ब्रह्मौदनानेव द्वादश निर्वपेत् ॥
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
उ॒प॒नामु॑क एनय्ँ य॒ज्ञो भ॑वति ।
न पापी॑यान्भवति ।
द्वाद॑श भवन्ति ।
द्वाद॑श॒मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ॥69॥
मूलम्
प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।
य॒ज्ञᳶ प्र॒जाप॑तिः ।
उ॒प॒नामु॑क एनय्ँ य॒ज्ञो भ॑वति ।
न पापी॑यान्भवति ।
द्वाद॑श भवन्ति ।
द्वाद॑श॒मासा॑स्सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑तिष्ठति ॥69॥
भट्टभास्कर-टीका
3ननु अस्मिन्नपि पक्षे उक्तदोषप्रसङ्ग इत्याह - प्रजापतिर्वा इति ॥ सर्वोत्पत्तिहेतुत्वात् स्वयं प्रजापतिरेवौदनः, प्रजापतिर्नाम यज्ञ एव, प्रजापतिश्च सर्वार्थकृदिति न कश्चिद्दोषः । द्वादशत्वयोगात् संवत्सरे प्रतिष्ठितो भवति ॥
इति तृतीये नवमे अष्टादशोऽनुवाकः ॥