मूलम्
यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
विश्वास-प्रस्तुतिः
यद्यश्व॑मुप॒तप॑द्वि॒न्देद् आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
सौ॒म्यञ्च॒रुम् ।
सा॒वि॒त्रम॒ष्टाक॑पालम् ।
मूलम्
यद्यश्व॑मुप॒तप॑द्वि॒न्देद् आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत् ।
सौ॒म्यञ्च॒रुम् ।
सा॒वि॒त्रम॒ष्टाक॑पालम् ।
भट्टभास्कर-टीका
1यद्यश्वमिति ॥ उपतपत् व्याधिविशेषः ।
विश्वास-प्रस्तुतिः
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒वैन॑म्भिषज्यति ।
मूलम्
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒वैन॑म्भिषज्यति ।
भट्टभास्कर-टीका
भिषज्यति अरोगं करोति ।
मूलम्
याभ्य॑ ए॒वैनव्ँ वि॒न्दति॑ ॥63॥
ताभि॑रे॒वैन॑म्भिषज्यति ।
विश्वास-प्रस्तुतिः
याभ्य॑ ए॒वैनव्ँ वि॒न्दति॒ ताभि॑रे॒वैन॑म्भिषज्यति ।
मूलम्
याभ्य॑ ए॒वैनव्ँ वि॒न्दति॒ ताभि॑रे॒वैन॑म्भिषज्यति ।
भट्टभास्कर-टीका
याभ्य इति । उपपन्नो व्याधिः एनं अश्वं विन्दति । ताभिरेवौषधीभिरेनमश्चं भिषज्यति । ओषधीनां प्रातिकूल्याद्व्याधिरुपजायते, आनुकूल्यादुपशाम्यति ।
मूलम्
यत्सा॑वि॒त्रो भव॑ति ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति ।
विश्वास-प्रस्तुतिः
यत्सा॑वि॒त्रो भव॑ति सवि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति ।
मूलम्
यत्सा॑वि॒त्रो भव॑ति सवि॒तृप्र॑सूत ए॒वैन॑म्भिषज्यति ।
भट्टभास्कर-टीका
सवितृप्रसूतः सवित्राऽनुज्ञातः ।
विश्वास-प्रस्तुतिः
ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
मूलम्
ए॒ताभि॑रे॒वैन॑न्दे॒वता॑भिर्भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
भट्टभास्कर-टीका
अगदः अरोगः ॥
मूलम्
पौ॒ष्णञ्च॒रुन्निर्व॑पेत् ।
यदि॑ श्लो॒णस्स्यात् ।
विश्वास-प्रस्तुतिः
पौ॒ष्णञ्च॒रुन्निर्व॑पे॒द् यदि॑ श्लो॒णस्स्यात् ।
पू॒षा वै श्लौण्य॑स्य भि॒षक् ।
स ए॒वैन॑म्भिषज्यति ।
अश्लो॑णो है॒व भ॑वति ॥64॥
मूलम्
पौ॒ष्णञ्च॒रुन्निर्व॑पे॒द् यदि॑ श्लो॒णस्स्यात् ।
पू॒षा वै श्लौण्य॑स्य भि॒षक् ।
स ए॒वैन॑म्भिषज्यति ।
अश्लो॑णो है॒व भ॑वति ॥64॥
भट्टभास्कर-टीका
2श्लोणो दुष्टत्वक् ।
मूलम्
रौ॒द्रञ्च॒रुन्निर्व॑पेत् ।
यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त ।
विश्वास-प्रस्तुतिः
रौ॒द्रञ्च॒रुन्निर्व॑पे॒द् यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त ।
ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
मूलम्
रौ॒द्रञ्च॒रुन्निर्व॑पे॒द् यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त ।
ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ।
भट्टभास्कर-टीका
महती देवता पशूनां पतिः यस्मिन् अभिमन्यमाने ज्वरादिना पीड्यते । एतद्देवत्यो महादेवदेवत्योऽश्वः सर्वपशूनां पतित्वात् ॥
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे॑त् ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ।
इ॒यमे॒वैन॑म॒र्चिभ्या॑म्परि॒रोध॒मान॑यति ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे॑त् ।
इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रः ।
इ॒यमे॒वैन॑म॒र्चिभ्या॑म्परि॒रोध॒मान॑यति ।
भट्टभास्कर-टीका
3मृगाखरे निजनिवासस्थाने सायं यदि नागच्छेत्, इयं पृथिव्येव स्वयं वैश्वानरः तस्मात् इयं एव एनं अश्वं अर्चिभ्यां ज्वालाभ्यां परिरोधं सर्वतो निरुद्ध्य आनयति ।
विश्वास-प्रस्तुतिः
आहै॒व सुत्य॒मह॑र्गच्छति ।
मूलम्
आहै॒व सुत्य॒मह॑र्गच्छति ।
भट्टभास्कर-टीका
ततस्सुत्यमहरागच्छत्येव सर्वधा न ततो विलम्बते ॥
विश्वास-प्रस्तुतिः
यद्य॑धी॒यात् ॥65॥
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालः ।
सौ॒र्यम्पयः॑ ।
वा॒य॒व्य॑ आज्य॑भागः ।
यज॑मानो॒ वा अश्वः॑ ।
मूलम्
यद्य॑धी॒यात् ॥65॥
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालः ।
सौ॒र्यम्पयः॑ ।
वा॒य॒व्य॑ आज्य॑भागः ।
यज॑मानो॒ वा अश्वः॑ ।
मूलम्
अँह॑सा॒ वा ए॒ष गृ॑ही॒तः ।
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
विश्वास-प्रस्तुतिः
अँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
मूलम्
अँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
मूलम्
यदँ॑हो॒मुचे॑ नि॒र्वप॑ति ।
अँह॑स ए॒व तेन॑ मुच्यते ।
विश्वास-प्रस्तुतिः
यदँ॑हो॒मुचे॑ नि॒र्वप॒त्य् अँह॑स ए॒व तेन॑ मुच्यते ।
यज॑मानो॒ वा अश्वः॑ ।
रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ॥66॥
मूलम्
यदँ॑हो॒मुचे॑ नि॒र्वप॒त्य् अँह॑स ए॒व तेन॑ मुच्यते ।
यज॑मानो॒ वा अश्वः॑ ।
रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ॥66॥
भट्टभास्कर-टीका
4अधीयात् ॥ बडबां गर्दभीं वा चिन्तयेत् आरोहेद्वा, यजमानस्स्वयमश्वः प्राधान्यात्, तस्मात् यस्य यजमानस्य मेधाय यज्ञाय प्रोक्षितोऽश्वोध्येति बडबां, एष ह्यंहसा गृहीतः, तस्मात् अंहोमुचे निर्वापात् गृहीतांहसा विमुक्तो भवति ॥
विश्वास-प्रस्तुतिः
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
सौ॒र्यँ रेतः॑ ।
मूलम्
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
सौ॒र्यँ रेतः॑ ।
मूलम्
यत्सौ॒र्यम्पयो॒ भव॑ति ।
रेत॑सै॒वैनँ॒ स सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यत्सौ॒र्यम्पयो॒ भव॑ति॒ रेत॑सै॒वैनँ॒ स सम॑र्धयति ।
यज॑मानो॒ वा अश्वः॑ ।
गर्भै॒र्वा ए॒ष व्यृ॑ध्यते ।
मूलम्
यत्सौ॒र्यम्पयो॒ भव॑ति॒ रेत॑सै॒वैनँ॒ स सम॑र्धयति ।
यज॑मानो॒ वा अश्वः॑ ।
गर्भै॒र्वा ए॒ष व्यृ॑ध्यते ।
भट्टभास्कर-टीका
5सौर्यं रेतः वृष्ट्यादिद्वारेण तेनोत्पादितत्वात् ॥
विश्वास-प्रस्तुतिः
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
वा॒य॒व्या॑ गर्भाः॑ ।
मूलम्
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ ।
वा॒य॒व्या॑ गर्भाः॑ ।
मूलम्
यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति ।
गर्भै॑रे॒वैनँ॒ स सम॑र्धयति ।
विश्वास-प्रस्तुतिः
यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति॒ गर्भै॑रे॒वैनँ॒ स सम॑र्धयति ।
मूलम्
यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति॒ गर्भै॑रे॒वैनँ॒ स सम॑र्धयति ।
भट्टभास्कर-टीका
6वायव्या गर्भाः तत्प्रेरणभवत्वात् ॥
विश्वास-प्रस्तुतिः
अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्तिᳵ क्रि॒यते॑ ।
इ॒ष्ट्वा वसी॑यान्भवति ॥67॥
मूलम्
अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्तिᳵ क्रि॒यते॑ ।
इ॒ष्ट्वा वसी॑यान्भवति ॥67॥
भट्टभास्कर-टीका
7अथो अपि च एत्प्रायश्चित्तिकरणेनेष्ट्वा यागोत्तरं वसीयान् वसुमत्तरो भवति । अकरणे केवलेन यागेन वसुमान्, करणे वसुमत्तर इति विवेकः । उपकृतमेवाश्वेन, योऽध्येतीति भावः । वसीयश्शब्दो व्याख्यातः ॥
इति तृतीये नवमे सप्तदशोऽनुवाकः ॥