विश्वास-प्रस्तुतिः
वा॒रु॒णो वा अश्वः॑ ।
तन्दे॒वत॑या॒ व्य॑र्धयति ।
यत्प्रा॑जाप॒त्यङ्क॒रोति॑ ।
“नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒ये” त्या॑ह ।
वा॒रु॒णो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
“नमोऽश्वा॑य॒ नम॑ᳶ प्र॒जाप॑तय॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
मूलम्
वा॒रु॒णो वा अश्वः॑ ।
तन्दे॒वत॑या॒ व्य॑र्धयति ।
यत्प्रा॑जाप॒त्यङ्क॒रोति॑ ।
“नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒ये” त्या॑ह ।
वा॒रु॒णो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
“नमोऽश्वा॑य॒ नम॑ᳶ प्र॒जाप॑तय॒” इत्या॑ह ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति ।
भट्टभास्कर-टीका
1वारुणो वा इत्यादि ॥ अप्सुयोनित्वाद्वारुणः । स यदि प्राजापत्यस्स्यात् स्वया देवतया तं व्यर्धयेत् वियोजयेत् । वारुण्या आहुत्या निजदेवतासमृद्धिः । प्राजापत्यया चात्मीयदेवतासमृद्धिः, अश्वस्य प्रजापत्यक्षिपरिणामत्वेन प्राजापत्यत्वात् ॥
विश्वास-प्रस्तुतिः
“नमोऽधि॑पतय॒” इत्या॑ह ॥59॥
धर्मो॒ वा अधि॑पतिः ।
धर्म॑मे॒वाव॑रुन्धे ।
मूलम्
“नमोऽधि॑पतय॒” इत्या॑ह ॥59॥
धर्मो॒ वा अधि॑पतिः ।
धर्म॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
2धर्मो वा इति ॥ अधिकं पाता धर्म एवेति ।
विश्वास-प्रस्तुतिः
“अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒"मित्या॑ह ।
अधि॑पतिमे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
मूलम्
“अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒"मित्या॑ह ।
अधि॑पतिमे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
भट्टभास्कर-टीका
अधिपतिरसीत्यादि । गतम् ।
विश्वास-प्रस्तुतिः
“मान्धे॑हि॒ मयि॑ धे॒ही"त्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
मूलम्
“मान्धे॑हि॒ मयि॑ धे॒ही"त्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
भट्टभास्कर-टीका
आशिषमिति । यथाशासनं संपद्यत एवेति यावत् ।
विश्वास-प्रस्तुतिः
“उ॒पाकृ॑ताय॒ स्वाहा॑” इत्यु॒पाकृ॑ते जुहोति ।
“आल॑ब्धाय॒ स्वाहा॑” इति॒ नियु॑क्ते जुहोति ।
मूलम्
“उ॒पाकृ॑ताय॒ स्वाहा॑” इत्यु॒पाकृ॑ते जुहोति ।
“आल॑ब्धाय॒ स्वाहा॑” इति॒ नियु॑क्ते जुहोति ।
भट्टभास्कर-टीका
उपाकृत इति । देवतायै संकल्पितेऽश्वे जुहोति ।
नियुक्ते यूपे बद्धे ।
विश्वास-प्रस्तुतिः
“हु॒ताय॒ स्वाहा॑” इति॑ हु॒ते जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ॥60 ॥
मूलम्
“हु॒ताय॒ स्वाहा॑” इति॑ हु॒ते जु॑होति ।
ए॒षाल्ँ लो॒काना॑म॒भिजि॑त्यै ॥60 ॥
भट्टभास्कर-टीका
हुते अग्नौ । इष्टिहोमत्रयेण लोकत्रयलाभः ॥
विश्वास-प्रस्तुतिः
प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते ।
मूलम्
प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते ।
भट्टभास्कर-टीका
3प्र वा एष इत्यादि ॥ क्षीण कर्मतया लोकाधारभोगादृष्टाभावादेभिर्लोकैः बद्धो न स्यात् ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
आ॒ग्ने॒यमै॑न्द्रा॒ग्नमा॑श्वि॒नम् ।
तान्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
आ॒ग्ने॒यमै॑न्द्रा॒ग्नमा॑श्वि॒नम् ।
तान्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
आग्नेयमित्यादि । पात्नीवते कर्मणि आग्नेयादिपशुत्रयालम्भात् प्रतिष्ठितो भवति ।
विश्वास-प्रस्तुतिः
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।
मूलम्
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
यदित्यादि । गतम् । अग्नीन्द्राभ्यां सह जातत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
ब्रह्म॒ वा अ॒ग्निः ।
क्ष॒त्रमिन्द्रः॑ ।
यदै॑न्द्रा॒ग्नो भव॑ति ॥61॥
ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे ।
मूलम्
ब्रह्म॒ वा अ॒ग्निः ।
क्ष॒त्रमिन्द्रः॑ ।
यदै॑न्द्रा॒ग्नो भव॑ति ॥61॥
ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
ब्रह्मक्षत्रे वशीकरोति । आश्विनेनेष्टलाभः । अनिष्टोपशमनस्य तदधीनत्वात् देवतानां त्रित्वात्त्रिलोके प्रतिष्ठितो भवति ॥
विश्वास-प्रस्तुतिः
यदा॑श्वि॒नो भव॑ति ।
आ॒शिषा॒मव॑रुद्ध्यै ।
त्रयो॑ भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ।
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति ।
मूलम्
यदा॑श्वि॒नो भव॑ति ।
आ॒शिषा॒मव॑रुद्ध्यै ।
त्रयो॑ भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ।
अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒न्निर्व॑पति ।
भट्टभास्कर-टीका
4अग्नयेंऽहोमुच इत्यादि ॥ तेषां आग्नेयादीनां पशुपुरोडाशप्रचरणानन्तरं एतां दशहविषं मृगारेष्टिमनुनिर्वपति ।
विश्वास-प्रस्तुतिः
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
मूलम्
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
भट्टभास्कर-टीका
दशाक्षरेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥62॥
मूलम्
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥62॥
भट्टभास्कर-टीका
5अग्नेर्मन्वे इत्येतास्तेषां हविषां याज्यानुवाक्याः स्विष्टकृतोन्त्ये सर्वत्वाय सर्वदेवताराधनेनाभिमतार्थसाकल्याय तद्भवति सर्वदेवतागुणकीर्तनत्वादासाम् । यद्वा - प्राकृतपरित्यागेन स्विष्टकृत्सहितानां हविषामत्रैव याज्यानुवाक्याम्नानं अभिमतानां पौष्कल्याय भवति ॥
इति तृतीये नवमे षोडशोऽनुवाकः ॥