१५

विश्वास-प्रस्तुतिः

सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः ।

मूलम्

सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः ।

भट्टभास्कर-टीका

1सर्वेषु वा इत्यादि ॥ सर्वेष्वपि लोकेषु मृत्यवो मरणहेतवो व्याध्यादयः अन्वायत्ताः अनुप्रविश्य स्थिताः ।

मूलम्

तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् ।
लो॒केलो॑क एनम्मृ॒त्युर्वि॑न्देत् ।

विश्वास-प्रस्तुतिः

तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् ।
लो॒केलो॑क एनम्मृ॒त्युर्वि॑न्देत् ।

मूलम्

तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् ।
लो॒केलो॑क एनम्मृ॒त्युर्वि॑न्देत् ।

भट्टभास्कर-टीका

तेभ्य आहुत्यकरणे स्थानेस्थाने मृत्युः एनं अश्वमेधयाजिनं विन्देत् असहमान इव बाधेत ।

विश्वास-प्रस्तुतिः

मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते ।
नैनल्ँ॑ लो॒केलो॑के मृ॒त्युर्वि॑न्दति ।

मूलम्

मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति ।
लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते ।
नैनल्ँ॑ लो॒केलो॑के मृ॒त्युर्वि॑न्दति ।

भट्टभास्कर-टीका

तस्मात् मृत्यवे स्वाहा मृत्यवे स्वाहेति सर्वस्थानस्थाय मृत्यवे अभिपूर्वं अनुक्रमेण आहुतीर्जुहोति अवभृथे । सर्वस्मात् स्थानात् मृत्युमवयजते नाशयति ततः क्वचिदपि स्थाने नैनं मृत्युः गृह्नाति ॥

विश्वास-प्रस्तुतिः

यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑त्स॒ञ्चक्षी॑त ।
ब॒हुम्मृ॒त्युम॒मित्र॑ङ्कुर्वीत ।
मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका॑ञ्जुहुयात् ।

मूलम्

यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑त्स॒ञ्चक्षी॑त ।
ब॒हुम्मृ॒त्युम॒मित्र॑ङ्कुर्वीत ।
मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका॑ञ्जुहुयात् ।

भट्टभास्कर-टीका

2यदित्यादि ॥ यदि मृत्युविशेषाणां ज्वरयक्ष्मशूलादीनां नाम गृहीत्वा ‘ज्वराय स्वाहा, यक्ष्मणे स्वाहा, शूलाय स्वाहेति’ जुह्वत् होमं कुर्वन् संचक्षीत संकीर्तयेन्मृत्युनामानि तदा बहुं अनेकं मृत्युं स्वस्य अमित्रं शत्रुं कुर्वीत ख्यापयेत् । ततस्तेन शत्रुत्वेन कीर्तिता मृत्युप्रकारास्सेर्वऽपि ज्वरादयः एनं शत्रुत्वेन बाधेरन् । तस्मादनेकामित्रत्वं मा प्रसाङ्क्षीदिति मृत्यवे स्वाहेति सकृदेव विशेषनाम संकीर्त्य एकामेवाहुतिं जुहुयात् तत्र अमुष्मिन् अपि लोके प्रसिद्धो य एको मृत्युः स एव अनया आहुत्या अवेष्टो भवति ।

विश्वास-प्रस्तुतिः

एको॒ वा अ॒मुष्मिल्ँ॑ लो॒के मृ॒त्युः ॥56॥
अ॒श॒न॒या॒मृ॒त्युरे॒व ।
तमे॒वामुष्मिल्ँ॑ लो॒केऽव॑यजते ।

मूलम्

एको॒ वा अ॒मुष्मिल्ँ॑ लो॒के मृ॒त्युः ॥56॥
अ॒श॒न॒या॒मृ॒त्युरे॒व ।
तमे॒वामुष्मिल्ँ॑ लो॒केऽव॑यजते ।

भट्टभास्कर-टीका

अस्मिंश्च लोके स एव अनया मृत्युरेकः प्रबलः प्रसिद्धः, तस्मिंश्चावेष्टे सर्वे मृत्यवोऽवेष्टा भवन्ति तन्निदानत्वात्सर्वेषाम् । अशनेच्छा अशनया क्षुत् ‘अशनायोदन्या’ इति निपात्यते । छान्दसं ह्रस्वत्वम् । क्षुदुपहतं अपथ्यसेविनं मृत्यवो बाधन्ते ॥

विश्वास-प्रस्तुतिः

भ्रू॒ण॒ह॒त्यायै स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति ।
भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते ।

मूलम्

भ्रू॒ण॒ह॒त्यायै स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जुहोति ।
भ्रू॒ण॒ह॒त्यामे॒वाव॑ यजते ।

भट्टभास्कर-टीका

3भ्रूणहत्यायै स्वाहेति द्वितीयाहुतिरवभृते । तया भ्रूणहत्यालक्षणो मृत्युश्चावेष्टो भवति । त्रिवेदविद्वधो गर्भिणीवधो वा भ्रूणहत्या ॥

मूलम्

तदा॑हुः ।
यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ ।
कस्मा॑द्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ ।

विश्वास-प्रस्तुतिः

तदा॑हु॒र्- “यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ ।
कस्मा॑द्य॒ज्ञेऽपि॑ क्रियत॒” इति॑ ।

मूलम्

तदा॑हु॒र्- “यद्भ्रू॑णह॒त्या पा॒त्र्याऽथ॑ ।
कस्मा॑द्य॒ज्ञेऽपि॑ क्रियत॒” इति॑ ।

भट्टभास्कर-टीका

4तदाहुरिति ॥ तत्र चोदयन्ति - यद्येवं नाम भ्रूणहत्या अपात्र्या पुरुषस्यापात्रीकरणमर्हति । रक्षकं पात्रं तद्विपरीतमपात्रं अयोग्यं तत्करणमर्हतीति अपात्रात् ‘छन्दसि च’ इति यः, ‘पात्रात् घंश्च’ इति वा । तदन्तादपि भवति । इकारोपजनच्छान्दसः । घन्नेव वा । तदन्तादपि भवति । अथ कस्मात् कारणात् भ्रूणहत्याहुतिर्यज्ञेऽपि क्रियते? ननु यज्ञारम्भ एव क्षाळितसर्वपापो ह्यश्वमेधेऽधिक्रियते तत्र कूश्माण्डादिवत् कर्मादावेवेयं कर्तव्या न यज्ञमध्य इति यज्ञविदश्चोदयन्ति ॥

विश्वास-प्रस्तुतिः

अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः ।
भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ ।
यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ॥57॥

मूलम्

अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः ।
भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ ।
यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिञ्जु॒होति॑ ॥57॥

भट्टभास्कर-टीका

5उत्तरं - अमृत्युर्वा इति ॥ भ्रूणहत्यामवेक्ष्य अन्यदेनः अमृत्युः अबाधकं भ्रूणहत्यैव मृत्युस्थानीया अलङ्घनीयविनिपातत्वात् । अश्वमेधावभृथाहुतिमन्तरेणेयं नोपशाम्यतीति मृत्यूनामवयजनस्थाने अस्या अपि मृत्युत्वाद्धोमः क्रियत इति न कूश्माण्डादिवदियं कर्मादौ होतव्या । उक्तं च - ‘यदर्वाचीनमेनो भ्रूणहत्यायाः’ । इति ।

मूलम्

मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा ।
भ्रू॒ण॒घ्ने भे॑ष॒जङ्क॑रोति ।

विश्वास-प्रस्तुतिः

मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा भ्रूण॒घ्ने भे॑ष॒जङ्क॑रोति ।

मूलम्

मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑ङ्कृ॒त्वा भ्रूण॒घ्ने भे॑ष॒जङ्क॑रोति ।

भट्टभास्कर-टीका

तस्मादवभृथे भ्रूणहत्याहुत्या मृत्युं तर्पयित्वा परिपाणं सर्वतःपानं पातृत्वमस्य कृत्वा । ‘कृत्यचः’ इति णत्वम् । यद्वा - र्पारेपाणं परिपणनं आहुतिप्रदानेन निष्क्रयमिवास्य मृत्योः कृत्वा भ्रूणघ्ने भेषजं सर्वोपद्रवशमनं करोति । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । पातेर्ल्युटि उत्तरपदप्रकृतिस्वरत्वेन लट्स्वरः । पक्षान्तरे ‘परादिच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

ए॒ताँ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः ।
भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्ँ वि॒दाञ्च॑कार ।

मूलम्

ए॒ताँ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः ।
भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्ँ वि॒दाञ्च॑कार ।

भट्टभास्कर-टीका

6एतां हेति ॥ उदकमात्मन इच्छतीत्युदन्युः तस्यापत्यमौदन्यवः मुण्डिभो नाम भ्रूणहत्यायाः प्रायश्चित्तिमेतामाहुतिं विदांचकार वेत्ति स्म । ‘उषविदजागृभ्यः’ इति आंप्रत्ययः । अदन्तत्वाद्विदेर्गुणाभावः ।

मूलम्

यो हा॒स्यापि॑ प्र॒जाया॑म्ब्राह्म॒णँ हन्ति॑ ।
सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति ।

विश्वास-प्रस्तुतिः

यो हा॒स्यापि॑ प्र॒जाया॑म्ब्राह्म॒णँ हन्ति॒ सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति ।

मूलम्

यो हा॒स्यापि॑ प्र॒जाया॑म्ब्राह्म॒णँ हन्ति॒ सर्व॑स्मै॒ तस्मै॑ भेष॒जङ्क॑रोति ।

भट्टभास्कर-टीका

यो हेति । तिष्ठतु मुण्डिभः, वयं तु मन्यामहे । अस्य अश्वमेधयाजिनः प्रजायाम् । जातावेकवचनम् । प्रजास्वपि मध्ये यो नाम कश्चित्प्रमादात् ब्राह्मणं हन्ति अस्मै सर्वस्मा अपि भेषजं करोति अनयाऽऽहुत्या शुद्धि करोति, किं पुनरस्मा अश्वमेधयाजिन इति ॥

मूलम्

जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति ।
वरु॑णो॒ वै जु॑म्ब॒कः ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।

विश्वास-प्रस्तुतिः

“जु॒म्ब॒काय॒ स्वाहा॑” इत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति ।
वरु॑णो॒ वै जु॑म्ब॒कः ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।

मूलम्

“जु॒म्ब॒काय॒ स्वाहा॑” इत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिञ्जुहोति ।
वरु॑णो॒ वै जु॑म्ब॒कः ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।

भट्टभास्कर-टीका

7अथ जुम्बकाय स्वाहेत्युत्तमां तृतीयामाहुतिं जुहोति । वरुणपाशात्मकमृत्युमपि अन्ततोऽवसाने अवयजते अपनयति । जुबि वर्जने ॥

विश्वास-प्रस्तुतिः

ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्धञ्जु॑होति ।
ए॒तद्वै वरु॑णस्य रू॒पम् ।
रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥58॥

मूलम्

ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्धञ्जु॑होति ।
ए॒तद्वै वरु॑णस्य रू॒पम् ।
रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥58॥

भट्टभास्कर-टीका

8खलतेरिति । । खलतिरलोममस्तकः, विक्लिधो विक्लिन्नः स्वेदनशीलशरीरः विक्लिन्नाक्ष डति केचित् । शुक्लः श्वित्रिः, पिङ्गाक्षः पिङ्गलनेत्रः । तस्य शिरसि एतास्तिस्र आहुतीर्जुहोति । श्वेतरूपेण सह वरुणोऽपनीतो भवति ॥

इति तृतीये नवमे पञ्चदशोऽनुवाकः ॥