विश्वास-प्रस्तुतिः
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
मूलम्
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
भट्टभास्कर-टीका
1अप वा इत्यादि ॥ राजोपचारवैधुर्यात् श्रीश्च राष्ट्रं च अस्मात् अपक्रामति अध्वर्यवे राज्यप्रदानात् ।
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः ।
मूलम्
ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः ।
भट्टभास्कर-टीका
तस्मात् द्वौ ब्राह्मणौ वीणागाथिनौ गायतः सावित्र्या इष्टेः स्विष्टकृतः पुरस्तात् गायतः । वीणावादनं वीणागाथः, औणादिकः थः, तद्वन्तौ, तत्साधुकारिणि वा औणादिक इनिप्रत्यये थुगागमः ।
वीणावादनशिल्पज्ञौ षड्जादिस्वरवेदिनौ ।
वृत्तगाथादिनिर्माणनिपुणौ तत्र गायतः ॥
मूलम्
श्रि॒या वा ए॒तद्रू॒पम् ।
यद्वीणा॑ ।
श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः ।
विश्वास-प्रस्तुतिः
श्रि॒या वा ए॒तद्रू॒पम् यद्वीणा॑ ।
श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः ।
मूलम्
श्रि॒या वा ए॒तद्रू॒पम् यद्वीणा॑ ।
श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः ।
भट्टभास्कर-टीका
श्रिया वा इति । र्वीणावादनं श्रिया एव रूपं तस्मात् वीणावादनेनास्मिन् श्रियं धत्तः स्थापयतः तेनापक्रान्ता न भवति ।
मूलम्
य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते ।
वीणा॑ऽस्मै वाद्यते ।
विश्वास-प्रस्तुतिः
य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते वीणा॑ऽस्मै वाद्यते ।
मूलम्
य॒दा खलु॒ वै पुरु॑ष॒श्श्रिय॑मश्ञु॒ते वीणा॑ऽस्मै वाद्यते ।
भट्टभास्कर-टीका
इदानीं श्रिया रूपत्वं वीणावादनस्य समर्थ्यते - यदेति । श्रीमदेकान्तत्वात् न राज्ञः श्रीरपक्रामति ॥
मूलम्
तदा॑हुः ।
यदु॒भौ ब्रा॑ह्म॒णौ गाये॑ताम् ॥52॥
प्र॒भ्रँशु॑कास्मा॒च्छ्रीस्स्या॑त् ।
विश्वास-प्रस्तुतिः
तदा॑हु॒र् यदु॒भौ ब्रा॑ह्म॒णौ गाये॑ताम् प्र॒भ्रँशु॑कास्मा॒च्छ्रीस्स्या॑त् ।
मूलम्
तदा॑हु॒र् यदु॒भौ ब्रा॑ह्म॒णौ गाये॑ताम् प्र॒भ्रँशु॑कास्मा॒च्छ्रीस्स्या॑त् ।
भट्टभास्कर-टीका
2तदाहुरिति ॥ उक्तं दूषयति । ब्राह्मणावेव यदि द्वौ गायेतां श्रीरस्मात् भ्रंशनशीलैव स्यात् ।
विश्वास-प्रस्तुतिः
न वै ब्रा॑ह्म॒णे श्री र॑मत॒ इति॑ ।
ब्रा॒ह्म॒णो॑ऽन्यो गाये॑त् ।
मूलम्
न वै ब्रा॑ह्म॒णे श्री र॑मत॒ इति॑ ।
ब्रा॒ह्म॒णो॑ऽन्यो गाये॑त् ।
भट्टभास्कर-टीका
कुत इत्याह - न हि ब्राह्मणे श्रीः रमते सक्ता विधेया न प्रवर्तते तपस्स्वाध्यायविरोधात् त्याज्यत्वात्तस्याः ।
विश्वास-प्रस्तुतिः
रा॒ज॒न्यो॑ऽन्यः ।
ब्रह्म॒ वै ब्रा॑ह्म॒णः ।
क्ष॒त्रँ रा॑ज॒न्यः॑ ।
मूलम्
रा॒ज॒न्यो॑ऽन्यः ।
ब्रह्म॒ वै ब्रा॑ह्म॒णः ।
क्ष॒त्रँ रा॑ज॒न्यः॑ ।
भट्टभास्कर-टीका
तस्मात् एको ब्राह्मणः एको राजन्य इति युक्तम् ।
विश्वास-प्रस्तुतिः
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यत॒श्श्रीᳶ परि॑गृहीता भवति ।
मूलम्
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यत॒श्श्रीᳶ परि॑गृहीता भवति ।
भट्टभास्कर-टीका
तथा खलु क्रियमाणे ब्रह्मबलेन क्षत्रबलेन चास्योभयतः उभाभ्यां श्रीः परिगृहीता भवति ॥
विश्वास-प्रस्तुतिः
तदा॑हुः ।
यदु॒भौ दिवा॒ गाये॑ताम् ।
अपा॑स्माद्रा॒ष्ट्रङ्क्रा॑मेत् ॥ 53॥
मूलम्
तदा॑हुः ।
यदु॒भौ दिवा॒ गाये॑ताम् ।
अपा॑स्माद्रा॒ष्ट्रङ्क्रा॑मेत् ॥ 53॥
भट्टभास्कर-टीका
3तदाहुरिति ॥ तस्मिन्नपि पक्षे विशेषमाहुरित्यर्थः । यदुभौ ब्राह्मणराजन्यौ दिवा गायेतां न केवलं ब्राह्मण एव तदन्यो वा । तदाऽस्मात् राष्ट्रमपक्रामेत् उभयबलपरिग्रहाभावात् ।
विश्वास-प्रस्तुतिः
न वै ब्रा॑ह्म॒णे रा॒ष्ट्रँ र॑मत॒ इति॑ ।
मूलम्
न वै ब्रा॑ह्म॒णे रा॒ष्ट्रँ र॑मत॒ इति॑ ।
भट्टभास्कर-टीका
तत्कथमित्याह - न हि ब्राह्मणे राष्ट्रं रमते राजन्यसंनिधावपायात् तस्मान्नित्यसंबन्धि ब्राह्मणे राष्ट्रं न भवति ।
विश्वास-प्रस्तुतिः
य॒दा खलु॒ वै राजा॑ का॒मय॑ते ।
अथ॑ ब्राह्म॒णञ्जि॑नाति ।
मूलम्
य॒दा खलु॒ वै राजा॑ का॒मय॑ते ।
अथ॑ ब्राह्म॒णञ्जि॑नाति ।
भट्टभास्कर-टीका
तदेवाह - यदा खलु वै राजा राष्ट्रं कामयते अथ अनन्तरं ब्राह्मणं राष्ट्रभुजमपि प्रबलो गजन्यो जिनाति क्षपयति च्यावयति राष्ट्रात् । तस्मात् ब्राह्मणे राष्ट्रं न रमते नित्यसंबन्धि न भवति ‘ज्या वयोहनौ’ ग्रहिज्यादिना संप्रसारणम् ।
विश्वास-प्रस्तुतिः
दिवा॑ ब्राह्म॒णो गा॑येत् ।
नक्तँ॑ राज॒न्यः॑ ।
मूलम्
दिवा॑ ब्राह्म॒णो गा॑येत् ।
नक्तँ॑ राज॒न्यः॑ ।
भट्टभास्कर-टीका
तस्मादुभयोस्सहगानस्यायुक्तत्वात् दिवा ब्राह्मणो गायेत् नक्तं राजन्य इति युक्तम् ।
विश्वास-प्रस्तुतिः
ब्रह्म॑णो॒ वै रू॒पमहः॑ ।
क्ष॒त्रस्य॒ रात्रिः॑ ।
मूलम्
ब्रह्म॑णो॒ वै रू॒पमहः॑ ।
क्ष॒त्रस्य॒ रात्रिः॑ ।
भट्टभास्कर-टीका
ब्रह्मणो हि रूपमहः उज्ज्वलत्वान्निर्भयत्वाच्च । क्षत्रस्य रूपं रात्रिः क्रूरकर्माधिष्ठानत्वात् सभयत्वाच्च ।
विश्वास-प्रस्तुतिः
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृहीतम्भवति ।
मूलम्
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृहीतम्भवति ।
भट्टभास्कर-टीका
तथा च क्रियमाणे उभाभ्यां राष्ट्रं परिगृहीतं भवति ॥
विश्वास-प्रस्तुतिः
इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये॑त् ।
इ॒ष्टा॒पू॒र्तव्ँ वै ब्रा॑ह्म॒णस्य॑ ॥54॥
मूलम्
इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये॑त् ।
इ॒ष्टा॒पू॒र्तव्ँ वै ब्रा॑ह्म॒णस्य॑ ॥54॥
भट्टभास्कर-टीका
4इत्यददा इत्यादि ॥ दानादिप्रकारविशेषे इतिशब्दः । इत्यददाः - एवं ब्राह्मणेभ्यो गोभूहिरण्यादि दत्तवानसि । इत्ययजथाः - एवं वाजपेयराजसूयद्वादशाहादिभिरिष्टवानसि । इत्यपचः - एवं कुल्माषशाकसूपपायसादीनि ब्राह्मणेभ्योऽन्नानि पक्ववानसि । एवं ईदृशार्थप्रतिपादिनीभिः गाथाभिः संस्कृतैः पदैः ब्राह्मणो गायेत् ।
विश्वास-प्रस्तुतिः
इ॒ष्टा॒पू॒र्तेनै॒वैनँ॒ स सम॑र्धयति ।
मूलम्
इ॒ष्टा॒पू॒र्तेनै॒वैनँ॒ स सम॑र्धयति ।
भट्टभास्कर-टीका
इष्टापूर्तयोः ब्राह्मणसंबन्धित्वात् ताभ्यां एनं यजमानं समर्धयति ॥
विश्वास-प्रस्तुतिः
इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मुँ स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ ।
यु॒द्धव्ँ वै रा॑ज॒न्य॑स्य ।
मूलम्
इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मुँ स॑ङ्ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ ।
यु॒द्धव्ँ वै रा॑ज॒न्य॑स्य ।
भट्टभास्कर-टीका
5इत्यजिना इत्यादिना सायंधृतिषु हूयमानासु राजन्यो वीणागाथी गायेत् । इत्यजिनाः - एवं पृथुभरतभगीरथयुधिष्ठिरादिभिस्सुकृतकर्मभिस्समानं शत्रून् क्षपितवानसि । इत्ययुध्यथाः - एवं करिरथतुरगपदातिसमेतः शरचापतोमरकरवाळादिभीषणमहाशूरपरिवृतोऽरिभिस्सह युद्धं कृतवानसि । इत्यमुं संग्राममहन् - एवं दुष्यन्तयुधिष्ठिरादिवत् महापुरुषसिंहसहस्रसमधिष्ठितं संग्रामं अमुं काश्मीरं मागधं पौण्ड्रमित्यादीन् निशितासिमात्रसहायः त्वं हतवानसि ।
विश्वास-प्रस्तुतिः
यु॒द्धेनै॒वैनँ॒ स सम॑र्धयति ।
मूलम्
यु॒द्धेनै॒वैनँ॒ स सम॑र्धयति ।
भट्टभास्कर-टीका
इत्थं राजन्यसंबन्धिना युद्धेन समृद्धमेनं करोति ॥
अथ श्लोकैरपि, दानस्य यथा -
सौवर्णीं निष्ककोटिं प्रतिदिनमददास्सादरं ब्राह्मणेभ्यः
ब्रह्यभ्यो वेदविद्भ्यो दिशिदिशि विहिता अग्रहारा स्समृद्धाः ।
कुण्डोघ्नीनां गवामप्यविरतमयुतं ब्राह्मणेभ्यो वितीर्णं
वासोरत्नादिदाने न हि तव गणना भूपचूडामणेऽभूत् ॥
यागस्य यथा -
मखैरयजथा महीशतमुखस्फुरद्दक्षिणैः
अविक्षतविधिक्रमैस्सममहीनभेदैस्सदा ।
सर्वैः पशुभिरिष्टिभिर्विविधनित्यकाम्यात्मभिः
महाक्रतुभिरुज्ज्वलैरपि च राजसूयादिभिः ॥
पाकस्य यथा-
खण्डजीरकघृताम्लसैन्धवस्वादुसूपमरिचादिसंस्कृतैः ।
व्यञ्जनैस्सह बहूपदंशकैः ब्राह्मणार्थमपचस्त्वमोदनम् ॥
ज्यानेर्यथा -
विषयाम् प्रविलुप्य गोधनानां अपहर्ता त्वमुदारदारहारी ।
विनिवार्य च मङ्गलोपचारान् अजिना विद्विषतां महाकुलानि ॥
युद्धस्य यथा -
आकर्षन् मददुर्दिनां गजघटां सिन्दुरसन्ध्यारुणां
उद्दृप्तोत्प्लुतवाजिलोकपिहितव्योमावकाशो भृशम् ।
पादातैर्निशितासिभीषणकरैर्दिङ्मण्डग्राहिभिः
विक्रान्तस्त्वमयुध्यथाः परबलैस्सार्धं महीवासव ॥
वधस्य यथा -
विक्रान्तान् रथगजवाजिलोकजुष्टान् अक्षोभ्यान् धृतविविधायुधप्रधानान् ।
संग्रामे मगधकळिङ्गवङ्गपूर्वान् शत्रूंस्त्वं प्रसभमहन् महीमहेन्द्र ॥
विश्वास-प्रस्तुतिः
अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
ति॒स्रो॑ऽन्यो गाय॑ति ति॒स्रो॑ऽन्यः ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒वास्मै॑ कल्पयतः ।
मूलम्
अकॢ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः ।
यो॑ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
ति॒स्रो॑ऽन्यो गाय॑ति ति॒स्रो॑ऽन्यः ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒वास्मै॑ कल्पयतः ।
भट्टभास्कर-टीका
6अकॢप्ता वा इत्यादि ॥ ऋतूपचाराणां राज्ञा त्यक्तत्वात् ऋतुधर्माणामुत्सन्नसमत्वात् तत्र गाथानां षट्त्वादृतूनां कॢप्तिः ॥
मूलम्
ताभ्याँ॑ सँ॒स्थाया॑म् ।
अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति ।
विश्वास-प्रस्तुतिः
ताभ्याँ॑ सँ॒स्थाया॑मनोयु॒क्ते च॑ श॒ते च॑ ददाति ।
मूलम्
ताभ्याँ॑ सँ॒स्थाया॑मनोयु॒क्ते च॑ श॒ते च॑ ददाति ।
भट्टभास्कर-टीका
7ताभ्यामित्यादि ॥ एतानि सावित्रादीनि कर्माणि संवत्सरं क्रियन्ते संवत्सरश्च समाप्तो भवति षष्ट्यधिकशतत्रयदिवसः । तस्य संवत्सरस्य संस्थायां समाप्तौ ताभ्यां वीणागाथिभ्यां अनोयुक्ते अनसि शकटे युक्ते बद्धे द्वे गावौ शते च गवां शतद्वयं च ददाति ॥
विश्वास-प्रस्तुतिः
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥55॥
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥55॥
भट्टभास्कर-टीका
8शतायुरित्यादि ॥ गतम् ॥
इति तृतीये नवमे चतुर्दशोऽनुवाकः ॥