१३

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तय्ँय॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् ।
तय्ँय॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् ।

मूलम्

प्र॒जाप॑तिरश्वमे॒धम॑सृजत ।
सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तय्ँय॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् ।
तय्ँय॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् ।

भट्टभास्कर-टीका

1प्रजापतिरश्वमेधमिति ॥ यज्ञक्रतवो यूपवन्तः ।

विश्वास-प्रस्तुतिः

तमिष्टि॑भि॒रन्वै॑च्छत् ।
तमिष्टि॑भि॒रन्व॑विन्दत् ।
तदिष्टी॑नामिष्टि॒त्वम् ।

मूलम्

तमिष्टि॑भि॒रन्वै॑च्छत् ।
तमिष्टि॑भि॒रन्व॑विन्दत् ।
तदिष्टी॑नामिष्टि॒त्वम् ।

भट्टभास्कर-टीका

इष्टित्वमिति । इष्यते प्राप्यते अश्वमेध आभिरिति इष्टयः ‘इष गतौ’ यद्वा - इच्छैव लाभान्ता ।

मूलम्

यत्सव्ँ॑वत्स॒रमिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति ।

विश्वास-प्रस्तुतिः

यत्सव्ँ॑वत्स॒रमिष्टि॑भि॒र्यज॑त॒ अश्व॑मे॒व तदन्वि॑च्छति ।

मूलम्

यत्सव्ँ॑वत्स॒रमिष्टि॑भि॒र्यज॑त॒ अश्व॑मे॒व तदन्वि॑च्छति ।

भट्टभास्कर-टीका

इष्टिभिरिति । सावित्रीभिरश्वस्यापक्रान्तस्य अन्वेषणस्थानीयं तत् यत्संवत्सरमिष्टिभिर्यजते ॥

विश्वास-प्रस्तुतिः

सा॒वि॒त्रियो॑ भवन्ति ॥49॥

मूलम्

सा॒वि॒त्रियो॑ भवन्ति ॥49॥

भट्टभास्कर-टीका

2सावित्रियः सवित्रेऽष्टाकपालाः । विहितानामेव पुनर्वचनं गुणान्तराभिधानार्थम् ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै स॑वि॒ता ।

मूलम्

इ॒यव्ँ वै स॑वि॒ता ।

भट्टभास्कर-टीका

इयं वा इति । सर्वस्य प्रेरयित्री अनुज्ञात्री वा ।

विश्वास-प्रस्तुतिः

यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते ।

मूलम्

यो वा अ॒स्यान्नश्य॑ति॒ यो नि॒लय॑ते ।

भट्टभास्कर-टीका

तत्कथमित्याह - यो वा अस्यामिति । यः पदार्थोऽस्यां नश्यति पलायते अदर्शनं गच्छति वा, यश्च निलयते स्वदेशे निलीनो भवति अपवरकादौ सुरक्षितस्तिष्ठति । लीयतेर्व्यत्ययेन शप् ।

विश्वास-प्रस्तुतिः

अ॒स्याव्ँ वाव तव्ँ वि॑न्दन्ति ।

मूलम्

अ॒स्याव्ँ वाव तव्ँ वि॑न्दन्ति ।

भट्टभास्कर-टीका

तं सर्वमप्यस्यां पृथिव्यामेव विन्दन्ति लभन्ते न तामतीत्य गच्छन्ति ॥

विश्वास-प्रस्तुतिः

न वा इ॒माङ्कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ ।

मूलम्

न वा इ॒माङ्कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोत्ये॑तुमर्ह॒तीति॑ ।

भट्टभास्कर-टीका

3तदेवाह - न वा इति ॥ इत्याहुरित्येतत् अर्हतीत्यस्यानन्तरं द्रष्टव्यम् । कश्चन कश्चिदपि गोपक्ष्यादिः तिर्यग्देहः, ऊर्ध्वदेहः पुरुषादिश्च इमां अत्येतुं अतिक्रम्य गन्तुं नार्हति न शक्नोतीत्याहुः पुराविदः ।

मूलम्

यत्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति ।

विश्वास-प्रस्तुतिः

यत्सा॑वि॒त्रियो॒ भव॑न्ति सवि॒तृप्र॑सूत ए॒वैन॑मिच्छति ।

मूलम्

यत्सा॑वि॒त्रियो॒ भव॑न्ति सवि॒तृप्र॑सूत ए॒वैन॑मिच्छति ।

भट्टभास्कर-टीका

तस्मात् इयमेव सर्वस्य सवित्रीति सवितृत्वेनोपचर्यते । तस्मात्सावित्रत्वात् सवित्रैवानुज्ञात एनं अश्वं अनष्टं इच्छति नष्टमपि लभते वा । गत्यर्थस्य वर्णव्यत्ययेन छत्वम् ॥

विश्वास-प्रस्तुतिः

ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । यत्सा॒यन्धृती॑र्जु॒होति॑ ।

मूलम्

ई॒श्व॒रो वा अश्व॒ᳶ प्रमु॑क्त॒ᳶ परा॑म्परा॒वत॒ङ्गन्तोः॑ । यत्सा॒यन्धृती॑र्जु॒होति॑ ।

भट्टभास्कर-टीका

4ईश्वरो वा इति ॥ प्रमुक्तत्वात् परांपरावतं अतिदूरदेशं गन्तुं ईश्वरः समर्थः स्यात् ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । ‘उपसर्गाच्छन्दसि’ इति वतिः ।

विश्वास-प्रस्तुतिः

अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ॥50॥

मूलम्

अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ॥50॥

भट्टभास्कर-टीका

तस्मात् ‘इह धृतिस्स्वाहा’ इत्यादीनां धृतीनां सायं होमः अश्वस्य यत्यै यमनाय बन्धनाय भवति प्रमुक्तो न भवतीति यावत्, धृत्यै धारणाय भवति ॥

विश्वास-प्रस्तुतिः

अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ॥50॥ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति ।

मूलम्

अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ ॥50॥ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति ।

भट्टभास्कर-टीका

5यदित्यादि ॥ एवमुक्तेन प्रकारेण प्रातरिष्टिभिर्विमुक्तं अश्वं अन्विच्छति, सायं धृतिभिरविमुक्तत्वमेव क्रियत इति ।

विश्वास-प्रस्तुतिः

यत्सा॒यन्धृती॑र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ । तस्मा॑त्सा॒यम्प्र॒जाः क्षे॒म्या॑ भवन्ति ।

मूलम्

यत्सा॒यन्धृती॑र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै॑ । तस्मा॑त्सा॒यम्प्र॒जाः क्षे॒म्या॑ भवन्ति ।

भट्टभास्कर-टीका

क्षेम्या इति । क्षेमे साधवः क्षेमे भवा वा सायं प्रजा भवन्ति विस्रब्धत्वात्सायं धृतिभिर्गृह एवाश्वस्य गुप्तत्वात् ।

विश्वास-प्रस्तुतिः

यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति ।

मूलम्

यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति ।

भट्टभास्कर-टीका

दिवा तु विमुक्तस्य गवादेरन्वेषणव्यग्रत्वान्न क्षेम्या भवन्ति, योगे व्यापृतत्वादिति भावः । विमुक्तमश्वमन्विच्छन्तो यस्मात् प्रातरिष्टिभिर्यजन्ति तस्मादद्यत्वेऽपि दिवा सर्वोऽपि नष्टैष एति नष्टं विमुक्तमिच्छतीति नष्टैषः । कर्मण्यण् । विमुक्तमन्विच्छन् गच्छति सर्वत्र ॥

विश्वास-प्रस्तुतिः

यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृती॑र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति ।

मूलम्

यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यन्धृती॑र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति ।

भट्टभास्कर-टीका

6यदित्यादि ॥ प्रातस्सायं च इष्टिघृतिकरणात् अहोरात्राभ्यामेव सहायाभ्यां एनमन्विच्छति । ततो निश्चितो लाभ इति भावः ।

विश्वास-प्रस्तुतिः

अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगक्षे॒मङ्क॑ल्पयति ॥51॥

मूलम्

अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगक्षे॒मङ्क॑ल्पयति ॥51॥

भट्टभास्कर-टीका

अथो अपिच अहोरात्राभ्यामेवाश्वस्य योगक्षेमं योगसहितं क्षेमं कल्पयति । प्रातरिष्टिभिर्योगं सायं धृतिभिः क्षेममिति ॥

इति तृतीये नवमे त्रयोदशोऽनुवाकः ॥