विश्वास-प्रस्तुतिः
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् ।
तद॑श्वस्तो॒मीय॑मभवत् ।
मूलम्
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् ।
तद॑श्वस्तो॒मीय॑मभवत् ।
यद॑श्वस्तो॒मीय॑ञ्जु॒होति॑ ।
समे॑धमे॒वैन॒माल॑भते ।
विश्वास-प्रस्तुतिः
यद॑श्वस्तो॒मीय॑ञ्जु॒होति॒ समे॑धमे॒वैन॒माल॑भते ।
मूलम्
यद॑श्वस्तो॒मीय॑ञ्जु॒होति॒ समे॑धमे॒वैन॒माल॑भते ।
भट्टभास्कर-टीका
1अश्वस्य वा इत्यादि ॥ मेधः सारः आलम्भनानन्तरं अश्वात् उदक्रामत्, ततोऽश्वस्तोमीयात्मना अतिष्ठत् । ‘यदक्रन्दः’ इत्यनुवाकत्रयाम्नातानां मन्त्राणां इयमाख्या, अश्वस्तुतिः प्रयोजनम् । अनुप्रवचनादित्वाच्छः । समेधं ससार एवालब्धो भवति ॥
विश्वास-प्रस्तुतिः
आज्ये॑न जुहोति ।
मेधो॒ वा आज्य॑म् ।
मेधो॑ऽश्वस्तो॒मीय॑म् ।
मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति ।
मूलम्
आज्ये॑न जुहोति ।
मेधो॒ वा आज्य॑म् ।
मेधो॑ऽश्वस्तो॒मीय॑म् ।
मेधे॑नै॒वास्मि॒न्मेध॑न्दधाति ।
भट्टभास्कर-टीका
2आज्येनेत्यादि ॥ मेधद्वयसंयोगादश्वमेधं भूयिष्ठं दधाति ॥
विश्वास-प्रस्तुतिः
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ॥46॥
मूलम्
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ॥46॥
भट्टभास्कर-टीका
3षट्त्रिंशतमिति ॥ अनुवाकत्रये पञ्चत्रिंशत्, ‘क्रमैरत्यक्रमीत्’ इत्येका तथा षट्त्रिंशदाहुतिः ।
विश्वास-प्रस्तुतिः
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
मूलम्
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
भट्टभास्कर-टीका
बार्हता इति । बृहत्याः पशुहेतुत्वात् । बृहतीशब्द उत्सादिः ।
विश्वास-प्रस्तुतिः
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ।
तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् ।
प॒शून्मात्र॑या॒ व्य॑र्धयेत् ।
मूलम्
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ।
तायद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् ।
प॒शून्मात्र॑या॒ व्य॑र्धयेत् ।
भट्टभास्कर-टीका
मात्रा परिमाणं षटत्रिंशत्संख्या पशूनां बार्हतत्वात् । तस्मात्संख्याविशेषेण निजमात्रालाभात् समृद्धाः पशवो भवन्ति ।
विश्वास-प्रस्तुतिः
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ॥47॥
मूलम्
षट्त्रिँ॑शतञ्जुहोति ।
षट्त्रिँ॑शदक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
सा प॑शू॒नाम्मात्रा॑ ।
प॒शूने॒व मात्र॑या॒ सम॑र्धयति ॥47॥
भट्टभास्कर-टीका
तस्मात् षट्त्रिंशतो भूयस्यः अतिरिक्ताः कनीयस्य ऊनाश्चाहुतयः पशूनां व्यृद्धिहेतवः ।
तस्मात् षट्त्रिंशतमेवेत्यादरार्थं पुनर्वचनम् । एताश्च स्विष्टकृतः प्रागेव होतव्याः ॥
विश्वास-प्रस्तुतिः
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः ।
मूलम्
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः ।
भट्टभास्कर-टीका
4अश्वस्तोमीयमिति ॥ स्तोमीयानन्तरं द्विपदाः ‘इमा नुकं भुवना सीषधेम’ इत्याद्यास्तिस्रो जुहोति । द्वौ पादौ आसामिति ‘संख्यासुपर्वूस्य’ इति लोपे समासान्तोऽपि ‘पादः पत्’ दति पद्भावः । द्विप्रतिष्ठः प्रतितिष्ठत्याभ्यामिति प्रतिष्ठे पादौ ताभ्यामेव प्रतिष्ठातुं शक्नोतीति द्विप्रतिष्ठः । यद्वा - द्विप्रतिष्ठः द्युपृथिवीप्रतिष्ठः
विश्वास-प्रस्तुतिः
तदे॑नम्प्रति॒ष्ठया॒ सम॑र्धयति ।
मूलम्
तदे॑नम्प्रति॒ष्ठया॒ सम॑र्धयति ।
भट्टभास्कर-टीका
तस्माद्द्वित्वलाभेनैनं प्रतिष्ठासमृद्धं करोति ॥
विश्वास-प्रस्तुतिः
तदा॑हुः ।
अ॒श्व॒स्तो॒मीय॒म्पूर्वँ॑ होतव्ँ॒ या ३ न्द्वि॒पदाँ ३ इति॑ ।
अश्वो॒ वा अ॑श्वस्तो॒मीय॑म् ।
पुरु॑षो द्वि॒पदाः॑ ।
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।
मूलम्
तदा॑हुः ।
अ॒श्व॒स्तो॒मीय॒म्पूर्वँ॑ होतव्ँ॒ या ३ न्द्वि॒पदाँ ३ इति॑ ।
अश्वो॒ वा अ॑श्वस्तो॒मीय॑म् ।
पुरु॑षो द्वि॒पदाः॑ ।
अ॒श्व॒स्तो॒मीयँ॑ हु॒त्वा द्वि॒पदा॑ जुहोति ।
तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।
भट्टभास्कर-टीका
5तदाहुरिति ॥ विचार्यमाणानामित्युभयत्र प्लुतः । अश्व एवाश्वस्तोमीयं तत्स्तोत्रप्रधानत्वात्, पुरुषः स्वयं द्विपदा ऋचः द्विपात्त्वात् । तस्मात् अश्वस्तोमीयानन्तरं द्विपदाहोमात् द्विपात् प्रधानत्वात् गुणभूतं चतुष्पादं अत्ति भुङ्क्ते ।
विश्वास-प्रस्तुतिः
अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ।
मूलम्
अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ।
भट्टभास्कर-टीका
अपिच पश्चात् सृष्टे द्विपदि प्रथमसृष्टान् चतुष्पदः प्रतिष्ठापयति द्विपादधीनत्वाच्चतुष्पदां प्रतिष्ठायाः रक्षणादिरूपायाः ।
विश्वास-प्रस्तुतिः
द्वि॒पदा॑ हु॒त्वा ।
नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् ।
यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् ।
प्र प्र॑ति॒ष्ठाया॑श्च्यवेत ।
मूलम्
द्वि॒पदा॑ हु॒त्वा ।
नान्यामुत्त॑रा॒माहु॑तिञ्जुहुयात् ।
यद॒न्यामुत्त॑रा॒माहु॑तिञ्जुहु॒यात् ।
प्र प्र॑ति॒ष्ठाया॑श्च्यवेत ।
भट्टभास्कर-टीका
अथ द्विपदा हुत्वा उत्तरामनन्तरभाविनीं आहुतिं स्तेगाद्याहुतिं न जुहुयात् । यदि जुहूयात् प्रतिष्ठायाः प्रच्यवेत । तस्मात् अन्ततः द्विपदा जुहोति अश्वस्तोमीयात्पर्वूमेव स्तेगाद्याहुतिः ।
विश्वास-प्रस्तुतिः
द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ॥48॥
मूलम्
द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ॥48॥
भट्टभास्कर-टीका
द्विपदा हुत्वा स्विष्टकृदेव, तत्प्रतिष्ठित्यै भवति ॥
इति तृतीये नवमे द्वादशोऽनुवाकः ॥