विश्वास-प्रस्तुतिः
तय्ँयत्प्रा॑जाप॒त्यङ्कु॒र्यात् ।
या दे॒वता॒ अपि॑भागाः ।
मूलम्
तय्ँयत्प्रा॑जाप॒त्यङ्कु॒र्यात् ।
या दे॒वता॒ अपि॑भागाः ।
भट्टभास्कर-टीका
1वैश्वदेवो वा इति ॥ प्राजापत्यमेव यदि कुर्यात् या अन्या देवता अपिभागाः संभावितभागाः । संभावनायामपिशब्दः ।
विश्वास-प्रस्तुतिः
ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।
मूलम्
ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।
भट्टभास्कर-टीका
ताः भागधेयेन आत्मीयेन व्यर्धयेत् वियोजयेत् ।
विश्वास-प्रस्तुतिः
दे॒वता॑भ्यस्स॒मद॑न्दध्यात् ।
स्ते॒गान्दँष्ट्रा॑भ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ ।
मूलम्
दे॒वता॑भ्यस्स॒मद॑न्दध्यात् ।
स्ते॒गान्दँष्ट्रा॑भ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ ।
भट्टभास्कर-टीका
ततो देवताभ्यः समदं कलहं दध्यात् उत्पादयेत् सह माद्यन्त्यस्यामिति समत् कलहः, अधिकरणे संपदादित्वात् क्विप् । स्तेगादिभ्यो होमस्सर्वा देवतास्समर्धयति समृद्धभागाः करोति ।
विश्वास-प्रस्तुतिः
आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति ।
मूलम्
आज्य॑मव॒दान॑ङ्कृ॒त्वा प्र॑तिस॒ङ्ख्याय॒माहु॑तीर्जुहोति ।
मूलम्
या ए॒व दे॒वता॒ अपि॑भागाः ।
ता भा॑ग॒धेये॑न॒ सम॑र्धयति ।
विश्वास-प्रस्तुतिः
या ए॒व दे॒वता॒ अपि॑भागा॒स् ता भा॑ग॒धेये॑न॒ सम॑र्धयति ।
न दे॒वता॑भ्यस्स॒मद॑न्दधाति ॥42॥
मूलम्
या ए॒व दे॒वता॒ अपि॑भागा॒स् ता भा॑ग॒धेये॑न॒ सम॑र्धयति ।
न दे॒वता॑भ्यस्स॒मद॑न्दधाति ॥42॥
भट्टभास्कर-टीका
आज्यमवदानं अवदानप्रमाणं कृत्वा गृहीत्वा आहुतीर्जुहोति प्रतिसंख्यायं प्रतिसंख्याय ‘ख्या प्रकथने’ प्रत्येकं सम्यक्कथयित्वा मन्त्रान् जुहोति प्रतिमन्त्रमिति यावत् । आभीक्ष्ण्ये णमुल्, ‘आतो युक्विण्कृतोः’ इति युक् ॥
विश्वास-प्रस्तुतिः
चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै ।
मूलम्
चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै ।
भट्टभास्कर-टीका
2चतुर्दशेति ॥ हविष्षु हुतेषु नारिष्ठान् हुत्वा एतैश्चतुर्दशानुवाकैश्शरीरहोमान् जुहोति । अनन्तरित्यै कस्याश्चिदपि देवताया अनन्तर्हितत्वाय ।
विश्वास-प्रस्तुतिः
“प्र॒या॒साय॒ स्वाहा॑” +इति॑ पञ्चद॒शम् ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
मूलम्
“प्र॒या॒साय॒ स्वाहा॑” +इति॑ पञ्चद॒शम् ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।
भट्टभास्कर-टीका
पञ्चदशमिति । क्रमप्राप्तं ‘द्यौस्ते पृष्ठं’ इति हित्वा ‘प्रयासाय’ इति पञ्चदशस्यानुवाकस्य स्थाने जुहोति तत्संख्याद्वारेण संवत्सराप्तौ संवत्सरनिलयास्सर्वा देवताः प्रीता भवन्ति ।
ततः ‘चित्तं सन्तानेन’ इति षोडशं हुत्वा ‘द्यौस्ते पृष्ठं’ इति सप्तदशः कार्यः ॥
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
मूलम्
ते॑ऽब्रुवन्न॒ग्नय॑स्स्विष्ट॒कृतः॑ ।
अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै ।
अथै॒तान॒भि भ॑वा॒मेति॑ ।
विश्वास-प्रस्तुतिः
ते॑ऽब्रुवन्- “अ॒ग्नय॑स्स्विष्ट॒कृतः॑ ।
अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै ।
अथै॒तान॒भि भ॑वा॒मे"ति॑ ।
मूलम्
ते॑ऽब्रुवन्- “अ॒ग्नय॑स्स्विष्ट॒कृतः॑ ।
अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै ।
अथै॒तान॒भि भ॑वा॒मे"ति॑ ।
भट्टभास्कर-टीका
3देवासुरा इत्यादि ॥ देवासुरेषु संयत्तेषु ये अश्वमेधस्य त्रयः स्विष्टकृतः तेऽब्रुवन् अस्य मेध्यस्याश्वस्य संबन्धि किंचिद्द्रव्यं वयमुद्धारं आत्मीयभागादधिकं भागं उद्धरामहै तत एतान् असुरान् अभिभवामेति ।
विश्वास-प्रस्तुतिः
ते लोहि॑त॒मुद॑हरन्त ।
ततो॑ दे॒वा अभ॑वन्न् ॥43॥
पराऽसु॑राः ।
मूलम्
ते लोहि॑त॒मुद॑हरन्त ।
ततो॑ दे॒वा अभ॑वन्न् ॥43॥
पराऽसु॑राः ।
भट्टभास्कर-टीका
अथ देवैरनुज्ञाते लोहितं अश्वस्य उदहरन्त अधिकं गृहीतवन्तः ।
विश्वास-प्रस्तुतिः
यत्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
यत्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।
भट्टभास्कर-टीका
तस्मात् स्विष्टकृद्भ्यो लोहितहोमो भ्रातृव्याभिभूत्यै भवति ॥
विश्वास-प्रस्तुतिः
गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति ।
मूलम्
गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिञ्जुहोति ।
भट्टभास्कर-टीका
4गोमृगकण्ठेनेत्यादि ॥ उक्तो गोमृगः । तस्य कण्ठे बिले अश्वस्य लोहितमानीय तेन प्रथमामाहुतिं जुहोति पशुसिद्धि हेतुत्वात् ।
विश्वास-प्रस्तुतिः
प॒शवो॒ वै गो॑मृ॒गः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
मूलम्
प॒शवो॒ वै गो॑मृ॒गः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
भट्टभास्कर-टीका
पशवो गोमृगः । स्वयं रुद्र एव स्विष्टकृदग्निः तद्रूपेणाविर्भावात् । तस्मादनेन होमो रुद्रात्पशूनन्तर्दधाति दर्शनपथादपनयति ।
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ॥44॥
विश्वास-प्रस्तुतिः
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ॥
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ॥
भट्टभास्कर-टीका
अथो अपिच यत्रैषाऽऽहुतिः गोमृगकण्ठेन रुद्रात्मने स्विष्टकृते हूयते तत्र देशे रुद्रोऽपि पशून् नाभिमन्यते हन्तुमना न बुध्यते ॥
विश्वास-प्रस्तुतिः
अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति ।
प॒शवो॒ वा एक॑शफम् ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
मूलम्
अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिञ्जुहोति ।
प॒शवो॒ वा एक॑शफम् ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ।
विश्वास-प्रस्तुतिः
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ।
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प॒शून॒भिम॑न्यते ।
भट्टभास्कर-टीका
5अश्वशफेनेत्यादि ॥ अश्वशफं बिलयुक्तं कृत्वा लोहितमवदाय जुहोति । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया॑म् ।
मूलम्
अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया॑म् ।
भट्टभास्कर-टीका
6अयस्मयेनेत्यादि ॥ भत्वाद्रुत्वाभावः ।
विश्वास-प्रस्तुतिः
आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति ।
मूलम्
आहु॑तिञ्जुहोत्याया॒स्यो॑ वै प्र॒जाः ।
रु॒द्रो॑ऽग्निस्स्वि॑ष्ट॒कृत् ।
रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति ।
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॑ ।
न तत्र॑ रु॒द्रᳶ प्र॒जा अ॒भिम॑न्यते ॥45॥
विश्वास-प्रस्तुतिः
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प्र॒जा अ॒भिम॑न्यते ॥
मूलम्
अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते॒ न तत्र॑ रु॒द्रᳶ प्र॒जा अ॒भिम॑न्यते ॥
भट्टभास्कर-टीका
आयास्य इति । अयास्येन सृष्टाः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् - ‘उदात्तस्वरितयोर्यणः’ इति विभक्तिस्स्वर्यते । गतमन्यत् । प्रजा इति विशेषः ॥
इति तृतीये नवमे एकादशोऽनुवाकः ॥