१०

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयत “म॒हान॑न्ना॒दस्स्या॒"मिति॑ ।

मूलम्

प्र॒जाप॑तिरकामयत “म॒हान॑न्ना॒दस्स्या॒"मिति॑ ।

भट्टभास्कर-टीका

1प्रजापतिरकामयतेत्यादि ॥ अन्नादनसामर्थ्यविषयं महत्त्वम् । यद्वा ऐश्वर्येण महान् अन्नादनसमर्थश्च स्यामिति ।

विश्वास-प्रस्तुतिः

स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् ।

मूलम्

स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् ।

भट्टभास्कर-टीका

महिमानौ महिमाख्यौ ग्रहावपश्यत् ।

विश्वास-प्रस्तुतिः

ताव॑गृह्णीत ।

मूलम्

ताव॑गृह्णीत ।

भट्टभास्कर-टीका

अगृह्णीत च । ‘यः प्राणतः, य आत्मदाः’ इति पूर्वोत्तरौ महिमानौ ।

विश्वास-प्रस्तुतिः

ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् ।

मूलम्

ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् ।

मूलम्

यᳵ का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॑ ।
स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत ।

विश्वास-प्रस्तुतिः

यᳵ का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॒ स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत ।
म॒हाने॒वान्ना॒दो भ॑वति ।

मूलम्

यᳵ का॒मये॑त म॒हान॑न्ना॒दस्स्या॒मिति॒ स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत ।
म॒हाने॒वान्ना॒दो भ॑वति ।

भट्टभास्कर-टीका

गतमन्यत् ॥

विश्वास-प्रस्तुतिः

य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा ।
राजा॑ महि॒मा ।

मूलम्

य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा ।
राजा॑ महि॒मा ।

मूलम्

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति ।
यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।

विश्वास-प्रस्तुतिः

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति॒ यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।

मूलम्

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति॒ यज॑मानमे॒व रा॒ज्येनो॑भ॒यत॒ᳶ परि॑गृह्णाति ।

भट्टभास्कर-टीका

2यजमानदेवत्येति ॥ उभयोः प्राधान्याद्देवतैश्वर्यमुपचर्य देवतोक्ता । ‘देवतान्तात्तादर्थ्ये यत्’ राजा दीप्तिमान् तत्स्थानो महिमाख्यो होमः हूयमानाया एव वपाया दीप्तिस्थानीयत्वात् तत्र महिम्ना पूर्वेणोत्तरेण च उभयतः आदावन्ते वपायाः परियजनात् यजमानमेव राज्येन राज्यैश्वर्येण उभयतः अग्रतः पृष्ठतश्च इह चामुत्र च वा परिगृह्णाति ॥

विश्वास-प्रस्तुतिः

पु॒रस्ता॑त्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः ।
उ॒परि॑ष्टात्स्वाहाकारा अ॒न्ये ।

मूलम्

पु॒रस्ता॑त्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः ।
उ॒परि॑ष्टात्स्वाहाकारा अ॒न्ये ।

भट्टभास्कर-टीका

3पुरस्तात्स्वाहाकारा इत्यादि ॥ ते उभये द्विप्रकारा देवाः मेध्ये अस्मिन् अश्वे ।

विश्वास-प्रस्तुतिः

ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते ।

मूलम्

ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते ।

भट्टभास्कर-टीका

ते वा एत इति । अश्वस्य विश्वदेवत्वात् परिवप्ययोर्वेयं स्तुतिः ।

मूलम्

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति ।
ताने॒वोभया॑न्प्रीणाति ॥41॥

विश्वास-प्रस्तुतिः

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति॒ ताने॒वोभया॑न्प्रीणाति ॥

मूलम्

यद्व॒पाम्म॑हि॒म्नोभ॒यत॑ᳶ परि॒यज॑ति॒ ताने॒वोभया॑न्प्रीणाति ॥

भट्टभास्कर-टीका

ताभ्यां अवरुद्धान् महिमभ्यां प्रीणयतीति ॥

इति तृतीये नवमे दशमोऽनुवाकः ॥