विश्वास-प्रस्तुतिः
प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा ।
च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेह॑न् ।
ए॒क॒विँ॒शे प्र॑ति॒ष्ठाया॒म्प्रति॑ तिष्ठति ।
मूलम्
प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा ।
च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेह॑न् ।
ए॒क॒विँ॒शे प्र॑ति॒ष्ठाया॒म्प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
1प्रथमेनेत्यादि ॥ प्रथमेन स्तोमेन स्तोमवता अह्ना चतुष्टोमेन चतुरुत्तरस्तोमचतुष्टयेन अयानां कालावयवानां मध्ये कृतेन कृतयुगस्थानीयेन कर्मसिद्धिहेतुत्वात्ताच्छब्द्यम् । तादृशेन प्रथमेनाह्ना राष्ट्रा कालसाद्गुण्येन वृद्धिं प्राप्य अविकलकर्मा भूत्वा उत्तरे एकविंशे अहनि प्रतिष्ठायां प्रतिष्ठाभूते प्रतितिष्ठति अविचलितसंबन्धो भवति ।
विश्वास-प्रस्तुतिः
ए॒क॒विँ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति ।
ऋ॒तवो॒ वै पृ॒ष्ठानि॑ ।
ऋ॒तव॑स्सव्ँवत्स॒रः ।
मूलम्
ए॒क॒विँ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति ।
ऋ॒तवो॒ वै पृ॒ष्ठानि॑ ।
ऋ॒तव॑स्सव्ँवत्स॒रः ।
भट्टभास्कर-टीका
ततः प्रतिष्ठाभूतादेकविंशादह्नः प्रथमं ऋतूनन्वारोहति देवीभविष्यति । पृष्ठानामृतुत्वं षट्त्वान्वयेन । ऋतवस्संवत्सरः तदारब्धत्वात् ।
मूलम्
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्र॑ति॒ष्ठाय॑ ।
दे॒वता॑ अ॒भ्यारो॑हति ।
विश्वास-प्रस्तुतिः
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्र॑ति॒ष्ठाय॑ दे॒वता॑ अ॒भ्यारो॑हति ।
मूलम्
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्र॑ति॒ष्ठाय॑ दे॒वता॑ अ॒भ्यारो॑हति ।
भट्टभास्कर-टीका
ततः ऋत्वात्मनि संवत्सरे प्रतिष्ठाय देवता अभ्यारोहति देवता लक्षीकृत्य आरोहति देवीभवतीत्यर्थः ।
विश्वास-प्रस्तुतिः
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ ।
मूलम्
शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ ।
भट्टभास्कर-टीका
शाक्वरं साम सर्वं पृष्ठं भवति छन्दस्त्वन्यदन्यद्भवति ।
विश्वास-प्रस्तुतिः
अ॒न्ये॑ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥38॥
मूलम्
अ॒न्ये॑ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥38॥
भट्टभास्कर-टीका
अस्मिन् अहनि पशवः खलु अन्येऽन्ये आलभ्यन्ते ।
विश्वास-प्रस्तुतिः
उ॒तेव॑ ग्रा॒म्याः ।
उ॒तेवा॑र॒ण्याः ।
अह॑रे॒व रू॒पेण॒ सम॑र्धयति ।
मूलम्
उ॒तेव॑ ग्रा॒म्याः ।
उ॒तेवा॑र॒ण्याः ।
अह॑रे॒व रू॒पेण॒ सम॑र्धयति ।
भट्टभास्कर-टीका
ग्राम्याश्चैव आरण्याश्चैव तस्मात् अह्नो रूपसमृद्धिमेतेन छन्दोऽन्यत्वेन करोति ।
विश्वास-प्रस्तुतिः
अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते ।
मूलम्
अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते ।
भट्टभास्कर-टीका
अथो अपि च अह्न एष बलिः ह्रियते उपह्रियते यद्द्विप्रकाराः पशवोऽस्मिन्नालभ्यन्ते ॥
मूलम्
तदा॑हुः ।
अप॑शवो॒ वा ए॒ते ।
यद॑जा॒वय॑श्चार॒ण्याश्च॑ ।
ए॒ते वै सर्वे॑ प॒शवः॑ ।
यद्ग॒व्या इति॑ ।
विश्वास-प्रस्तुतिः
तदा॑हु॒र् “अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ ।
मूलम्
तदा॑हु॒र् “अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ ।
भट्टभास्कर-टीका
2तदाहुरिति ॥ अजावयः आरण्याश्च अपशवः अपशुस्थानीयाः पशुकार्याकरणात् ।
विश्वास-प्रस्तुतिः
ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या” इति॑ ।
मूलम्
ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या” इति॑ ।
भट्टभास्कर-टीका
ये पुनः गव्याः गोजातौ साधवः त एव सर्वपशुकार्यकरणात् सर्व एव पशवः ।
विश्वास-प्रस्तुतिः
ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ॥39॥
तेनै॒वोभया॑न्प॒शूनव॑रुन्धे ।
मूलम्
ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ॥39॥
तेनै॒वोभया॑न्प॒शूनव॑रुन्धे ।
भट्टभास्कर-टीका
तस्मात् उत्तमे अहनि सर्वस्तोमेऽतिरात्रे गव्यान् पशून् आश्वमेधिकान् ऐकादशिनान्वा आलभते ।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्या भ॑वन्ति ।
अन॑भिजितस्या॒भिजि॑त्यै ।
मूलम्
प्रा॒जा॒प॒त्या भ॑वन्ति ।
अन॑भिजितस्या॒भिजि॑त्यै ।
भट्टभास्कर-टीका
तेन ग्राम्यारण्योभयपशुलाभः सर्वेषां प्राजापत्यत्वात् प्रजापतेरेवास्य न किंचिदप्यनभिजितं भवति ॥
विश्वास-प्रस्तुतिः
सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति ।
अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
मूलम्
सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति ।
अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
भट्टभास्कर-टीका
3सौरीरिति ॥ अनूबन्ध्यास्थाने सौर्यो वशा नव भवन्ति । तत्समाप्तौ यावज्जीवं ब्रह्मवर्चसं लभते ।
विश्वास-प्रस्तुतिः
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ᳶ प॒शूनाल॑भते ।
अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
मूलम्
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विन॑ᳶ प॒शूनाल॑भते ।
अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै ।
भट्टभास्कर-टीका
द्वंद्विन इति पक्षान्तरम्, द्वे द्वे परिमाणमेषां द्वंद्विनः ‘सोमाय स्वराज्ञेऽनोवाहावनड्वाहौ’ इत्यादयः, अभिव्यक्तौ द्वंद्वनिपातनम् । तत्र द्वित्वान्वयात् अहोरात्राणां अभिजयाय भवति ॥
विश्वास-प्रस्तुतिः
प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
मूलम्
प॒शुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
छ॒ग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्ँ वि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते छग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्ँ वि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते ।
प॒शुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते छग॒लङ्क॒ल्माष॑ङ्किकिदी॒विव्ँ वि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूना ल॑भते ।
प॒शुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
भट्टभास्कर-टीका
4पशुभिर्वा इत्यादि ॥ बहुपशुहिंसया पशवोऽस्मिन् अपरक्तास्स्युः । तत्र पात्नीवते कर्मणि त्वाष्ट्रच्छगलाद्यालम्भात् पशुभिस्समृद्धमेनं करोति, त्वष्टुः पशूनां रूपकृत्त्वात् । छगलः छागार्भकः, कल्माषः कृष्णबिन्दुमान्, किकिदीविः तित्तिरिः, छागविशेष इत्येके । यः किकीति शब्दयन् गच्छति, विदीगयः श्वेतबकः, अश्वविशेष इत्येके, अदान्तत्वादनभिप्रेतां दिशं यो याति ॥
विश्वास-प्रस्तुतिः
ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
मूलम्
ऋ॒तुभि॒र्वा ए॒ष व्यृ॑ध्यते ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते ।
ऋ॒तुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते ।
ऋ॒तुभि॑रे॒वात्मानँ॒ सम॑र्धयति ।
भट्टभास्कर-टीका
5ऋतुभिर्वा इति ॥ दीर्घकालमृतुधर्मानादरात् । तत्रागामिवसन्तादिऋतुपशूनामालम्भात् ऋतुभिस्समृद्धमात्मानं करोति ॥
विश्वास-प्रस्तुतिः
आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते ।
मूलम्
आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते ।
भट्टभास्कर-टीका
6आ वा इति ॥ सर्वपशुमारणे पशवोऽपरक्तास्स्युः । पर्यग्निकृताः काश्चित् पशुजातीः उत्सृजन्ति । भूयोवचनमवश्यकर्तव्यत्वाय ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
पर्य॑ग्निकृता॒ उत्सृ॑ज॒न्त्यना॑व्रस्काय ॥40॥
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते॒ पर्य॑ग्निकृता॒ उत्सृ॑ज॒न्त्यना॑व्रस्काय ॥
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते॒ पर्य॑ग्निकृता॒ उत्सृ॑ज॒न्त्यना॑व्रस्काय ॥
भट्टभास्कर-टीका
तत् अनाव्रस्काय अच्छेदाय भवति । व्रश्चतेर्घञ्, कुत्वे श्चुत्वस्य निवृत्तेः सकार एव श्रूयते ॥
इति तृतीये नवमे नवमोऽनुवाकः ॥