विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् ।
ताभ्य॒ᳶ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् ।
सो॑ऽब्रवीत् -
“ऋ॒ध्नव॒दित्सः ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् ।
ताभ्य॒ᳶ पुन॒स्सम्भ॑वितु॒न्नाश॑क्नोत् ।
सो॑ऽब्रवीत् -
“ऋ॒ध्नव॒दित्सः ।
भट्टभास्कर-टीका
1प्रजापतिः प्रजास्सृष्टेत्यादि ॥ प्रेणा प्रेम्णा । छान्दसो वर्णलोपः । प्रजासु क्षिप्तस्यात्मीयेन रूपेण संहत्यावस्थानं संभवः पृथक्त्वं, तत्कर्तुमशक्तोऽब्रवीत् ऋध्नवदिति ।
विश्वास-प्रस्तुतिः
यो मे॒तᳶ पुन॑स्स॒म्भर॒"दिति॑ ।
मूलम्
यो मे॒तᳶ पुन॑स्स॒म्भर॒"दिति॑ ।
भट्टभास्कर-टीका
ऋध्नुयादेव सः यो मा इतः प्रजाभ्यः संभरत् संभरेत् । भृञोलेट् । एकत्र संभृतं कुर्यात् ।
विश्वास-प्रस्तुतिः
तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन् ।
ततो॒ वै त आ॑र्ध्नुवन् ।
मूलम्
तन्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन् ।
ततो॒ वै त आ॑र्ध्नुवन् ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ ।
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒ध्नोति॑ ।
भट्टभास्कर-टीका
तमित्यादि गतम् ॥
विश्वास-प्रस्तुतिः
पुरु॑ष॒माल॑भते ॥35॥
वै॒रा॒जो वै पुरु॑षः ।
वि॒राज॑मे॒वाल॑भते ।
मूलम्
पुरु॑ष॒माल॑भते ॥35॥
वै॒रा॒जो वै पुरु॑षः ।
वि॒राज॑मे॒वाल॑भते ।
भट्टभास्कर-टीका
2पुरुषमालभत इत्यादि ॥ जातिनिर्देशोऽयं, यदुक्तं ‘वैराजी पुरुषी’ इति । वैराजः पुरुषः विराजः प्रजापतेः अपत्यत्वात् । तस्मात् विराडेव आलब्धो भवति ।
विश्वास-प्रस्तुतिः
अथो॒ अन्नव्ँ॒ वै वि॒राट् ।
अन्न॑मे॒वाव॑रुन्धे ।
मूलम्
अथो॒ अन्नव्ँ॒ वै वि॒राट् ।
अन्न॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
अपि च विराजोऽन्नत्वात् अन्नं लब्धं भवति ॥
विश्वास-प्रस्तुतिः
अश्व॒माल॑भते ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिमे॒वाल॑भते ।
मूलम्
अश्व॒माल॑भते ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑तिमे॒वाल॑भते ।
भट्टभास्कर-टीका
3अश्वमिति ॥ अश्वस्य प्रजापतेरक्षिपरिणामत्वात् प्रजापतिरेवालब्धो भवति ।
विश्वास-प्रस्तुतिः
अथो॒ श्रीर्वा एक॑शफम् ।
श्रिय॑मे॒वाव॑रुन्धे ।
मूलम्
अथो॒ श्रीर्वा एक॑शफम् ।
श्रिय॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
अपि च - श्रीमत्सम्बन्धित्वेन वा एकशफपशूनां श्रीत्वात् श्रीः आलब्धा भवति । जातिनिर्देशवस्त्वभिप्रायेण नपुंसकत्वम् ॥
विश्वास-प्रस्तुतिः
गामाल॑भते ॥36॥
य॒ज्ञो वै गौः ।
य॒ज्ञमे॒वाल॑भते ।
मूलम्
गामाल॑भते ॥36॥
य॒ज्ञो वै गौः ।
य॒ज्ञमे॒वाल॑भते ।
भट्टभास्कर-टीका
4गामिति ॥ अभिमतप्रदत्वेन पावनत्वेन वा यज्ञ एव गौः तस्मात् यज्ञ एवालब्धो भवति ।
विश्वास-प्रस्तुतिः
अथो॒ अन्नव्ँ॒ वै गौः ।
अन्न॑मे॒वाव॑रुन्धे ।
मूलम्
अथो॒ अन्नव्ँ॒ वै गौः ।
अन्न॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
अपि च अदनीयानां क्षीरादीनां हेतुत्वात् अन्नमेव गौः तस्मात् अन्नं लब्धं भवति ॥
विश्वास-प्रस्तुतिः
अ॒जा॒वी आल॑भते भू॒म्ने ।
अथो॒ पुष्टि॒र्वै भू॒मा ।
पुष्टि॑मे॒वाव॑रुन्धे ।
मूलम्
अ॒जा॒वी आल॑भते भू॒म्ने ।
अथो॒ पुष्टि॒र्वै भू॒मा ।
पुष्टि॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
5अजावी इति ॥ भूमा बहुत्वं वृद्धिः ‘बहोर्लोपो भू च बहोः’ ॥
विश्वास-प्रस्तुतिः
पर्य॑ग्निकृत॒म्पुरु॑षञ्चार॒ण्याँश्चोत्सृ॑ज॒न्त्यहिँ॑सायै ।
मूलम्
पर्य॑ग्निकृत॒म्पुरु॑षञ्चार॒ण्याँश्चोत्सृ॑ज॒न्त्यहिँ॑सायै ।
भट्टभास्कर-टीका
पर्यग्निकृतमित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते ।
यश्चा॑व॒मो यश्च॑ पर॒मः ।
मूलम्
उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते ।
यश्चा॑व॒मो यश्च॑ पर॒मः ।
भट्टभास्कर-टीका
6उभौ वा इति ॥ अवमः पुरुषादि परमः विराडादिः
विश्वास-प्रस्तुतिः
ते॑ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति ।
मूलम्
ते॑ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति ।
भट्टभास्कर-टीका
ते उभये पशवः अस्य यज्ञे बद्धाः नियुक्ताः पर्यग्निकृतोत्सर्गविनियोगमात्रेण अभीष्टाः आभिमुख्येन प्राप्ताः । इष गतौ । अभिप्रीताः आभिमुख्येन प्रीताः अभिजिताः वशीकृताः अभिहुताः अग्नौ परिहुता एव भवन्ति ।
विश्वास-प्रस्तुतिः
नैन॑न्द॒ङ्क्ष्णव॑ᳶ प॒शवो॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
मूलम्
नैन॑न्द॒ङ्क्ष्णव॑ᳶ प॒शवो॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः ।
भट्टभास्कर-टीका
ये पुनः अस्य यज्ञे बद्धाः दंक्ष्णवः दंशनशीलाः हिंस्राः पशवः ‘दंशेश्च’ इति कसुन्प्रत्ययः । अत्र दखषटणान् +++(दक्षण्वान् इति स्यात् )+++प्रातिशाख्यविद आहुः ।
विश्वास-प्रस्तुतिः
अ॒भिजि॑ता अ॒भिहु॑ता हिँसन्ति ।
मूलम्
अ॒भिजि॑ता अ॒भिहु॑ता हिँसन्ति ।
भट्टभास्कर-टीका
अथ तेऽप्यभीष्टादिगुणा भवन्तो नैव हिंसन्ति ।
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ॥37॥
विश्वास-प्रस्तुतिः
यो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ॥37॥
मूलम्
यो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ॥37॥
भट्टभास्कर-टीका
कम्? योऽश्वमेधेन यजते । यश्चैनमश्वमेधं एवंप्रभावं वेदैव न त्वनेन यजते तावुभावपि न हिंसन्ति ॥
इति तृतीये नवमे अष्टमोऽनुवाकः ॥