विश्वास-प्रस्तुतिः
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह ।
मूलम्
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रङ्क्रा॑मति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह ।
भट्टभास्कर-टीका
1अप वा इत्यादि ॥ दीर्घकालं राजोपचारविरहात् श्रीश्च राष्ट्रं चास्मात् अपक्रामति ।
विश्वास-प्रस्तुतिः
श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः ।
श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति ।
मूलम्
श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः ।
श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति ।
भट्टभास्कर-टीका
श्रीर्वा इति । तदुभयसाधनत्वात्ताच्छब्द्यम् । तत्र योन्युच्छ्रयणवाचोयुक्त्या श्रीराष्ट्रयोरुच्छ्रितिहेतुत्वं कर्मणो दर्शयति ॥
विश्वास-प्रस्तुतिः
वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह ।
रा॒ष्ट्रव्ँ वै भा॒रः ।
रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति ।
मूलम्
वे॒णु॒भा॒रङ्गि॒रावि॒वेत्या॑ह ।
रा॒ष्ट्रव्ँ वै भा॒रः ।
रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति ।
भट्टभास्कर-टीका
2राष्ट्रं वा इति ॥ भरणीयत्वात् राष्ट्रं भारः । योन्युच्छ्रयणस्य वेणुभारोच्छ्रितिहेतुसाम्यात् राष्ट्रमस्मै पर्यूहति परितस्समूहीकरोति अपक्रान्तमेकत्र प्रकृतिस्थं स्थापयति ॥
विश्वास-प्रस्तुतिः
अथा॑स्या॒ मध्य॑मेधता॒मित्या॑ह ।
श्रीर्वै रा॒ष्ट्रस्य॒ मध्य॑म् ॥30॥
श्रिय॑मे॒वाव॑रुन्धे ।
मूलम्
अथा॑स्या॒ मध्य॑मेधता॒मित्या॑ह ।
श्रीर्वै रा॒ष्ट्रस्य॒ मध्य॑म् ॥30॥
श्रिय॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
3श्रीर्वा इति ॥ योनिमध्ये धनवाचोयुक्त्या राष्ट्रमध्यात्मकश्रीलाभः ॥
विश्वास-प्रस्तुतिः
शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह ।
क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ ।
क्षेम॑मे॒वाव॑रुन्धे ।
मूलम्
शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह ।
क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ ।
क्षेम॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
4क्षेम इति ॥ योनिमध्ये धने शीते वाते पुनत उपमानत्वकथनात् तस्य च राष्ट्रक्षेमहेतुत्वात् यजमानस्य क्षेमलाभः, येन राष्ट्रं नापक्रामति ॥
विश्वास-प्रस्तुतिः
यद्ध॑रि॒णी यव॒मत्तीत्या॑ह ।
विड्वै ह॑रि॒णी ।
रा॒ष्ट्रय्ँयवः॑ ।
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
मूलम्
यद्ध॑रि॒णी यव॒मत्तीत्या॑ह ।
विड्वै ह॑रि॒णी ।
रा॒ष्ट्रय्ँयवः॑ ।
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
भट्टभास्कर-टीका
5विड्वा इति ॥ विट् प्रजा हरिणीस्थानीया बलिहरणात् पोष्यवर्गत्वाच्च । राष्ट्रं स्वयं यवः तेन धार्यमाणत्वात् । अत्र योनिभोगे हरिण्याः यवादनसाम्यकथनात् तादृशं विड्राष्ट्रे समीची संगते स्थापयति । ऋत्विगादिना क्विनि, ‘समस्समि ’ हति सम्यादेशे, ‘चौ’ इति दीर्घत्वे, ‘नपुंसकाच्च’ इति शिभावः ॥
विश्वास-प्रस्तुतिः
न पु॒ष्टम्प॒शु म॑न्यत॒ इत्या॑ह ।
तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ॥31॥
मूलम्
न पु॒ष्टम्प॒शु म॑न्यत॒ इत्या॑ह ।
तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ॥31॥
भट्टभास्कर-टीका
6यस्मादिति ॥+++(अस्य प्रतीकस्य मूलं किमिति विचारणीयम्)+++ योनिभोगे तृप्त्यभावस्य अतृप्तहरिणीभोगस्य उपमानत्वं कथयता पर्याप्तसांप्रतत्वाभिधायकपुष्टिपशुग्रहणं कुर्वता राज्ञः पशुपुष्टिः वृत्तिर्न भवतीति सूचितम् ॥
विश्वास-प्रस्तुतिः
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह ।
तस्मा॑द्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते ।
मूलम्
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह ।
तस्मा॑द्वैशीपु॒त्रन्नाभिषि॑ञ्चन्ते ।
भट्टभास्कर-टीका
विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति । 7अश्वमेधयाजी निकृष्टवैश्यवृत्तिभाक् न भवतीति ख्याप्यते - तस्मादिति ॥ कामुकायाः धनाया नास्तीति दर्शयता यदर्थग्रहणं कृतं तस्मात् वैशीपुत्रं वैश्यस्त्रीपुत्रं नाभिषिञ्चन्ते ‘अर्यस्स्वामिवैश्ययोः’ इति अर्यशब्दो निपात्यते ॥
विश्वास-प्रस्तुतिः
विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
मूलम्
विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
भट्टभास्कर-टीका
8विड्वा इति ॥ प्राजा शकुन्तिका शकुन्तवदनवस्थितत्वात् शक्तस्वभावत्वाच्च सर्वकार्येषु । राष्ट्रमेवाश्वमेधः सर्वराष्ट्रसाध्यत्वात् । तत्र अनुरागातिशये शकुन्तिकोपमानकथनात् विड्राष्ट्रे समीची नित्यानुरक्ते स्थापयति यथाऽस्मान्नापक्रामति ॥
विश्वास-प्रस्तुतिः
आ॒हल॒मिति॒ सर्प॒तीत्या॑ह ।
तस्मा॑द्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति ।
मूलम्
आ॒हल॒मिति॒ सर्प॒तीत्या॑ह ।
तस्मा॑द्रा॒ष्ट्राय॒ विश॑स्सर्पन्ति ।
भट्टभास्कर-टीका
9तस्मादिति ॥ दयितविरहाक्षमत्वं स्त्रीणां दर्शयता कुरर्यादिस्समन्तादाक्रुश्य भर्तृदेशमेव सर्पतीति यदुक्तं तस्मात् राष्ट्राय परराष्ट्रविजयाय विशः सर्पन्ति अस्य वा राष्ट्रं प्रपद्यन्ते नापक्रामन्ति ॥
विश्वास-प्रस्तुतिः
आह॑तङ्ग॒भे पस॒ इत्या॑ह ।
विड्वै गभः॑ ॥ 32॥
रा॒ष्ट्रम्पसः॑ ।
रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
मूलम्
आह॑तङ्ग॒भे पस॒ इत्या॑ह ।
विड्वै गभः॑ ॥ 32॥
रा॒ष्ट्रम्पसः॑ ।
रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
भट्टभास्कर-टीका
10विड्वा इति ॥ प्रजा गभः गर्भः वर्णलोपः, भगी वा वर्णविपर्ययः, तत्रोत्पन्नत्वात् । राष्ट्रमेव पसः शुक्लं शेफो वा राष्ट्रवृद्धिहेतुत्वात् । तत्र योन्याः शेफसो यदाहननं यच्चाघातजशुक्लपानं योन्या तदुभयकथनं राष्ट्रस्य विश्याघातसूचनार्थम् । हन्तिर्गतिकर्मा आगमयति राष्ट्रं विट्सु तस्य तदधीनात्मलाभत्वात् ।
विश्वास-प्रस्तुतिः
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
मूलम्
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
भट्टभास्कर-टीका
तस्मात् अद्यत्वेऽपि राष्ट्रं विशं प्रजां धातुकं ताच्छील्येन गच्छति कृष्यादेस्तदधीनत्वात् ॥
विश्वास-प्रस्तुतिः
मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
मूलम्
मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह ।
इ॒यव्ँ वै मा॒ता ।
अ॒सौ पि॒ता ।
आ॒भ्यामे॒वैन॒म्परि॑ददाति ।
भट्टभास्कर-टीका
11इयं वा इति ॥ प्रजननयोस्संयोगोक्तौ मातापितृग्रहणात् मातृपितृस्थानीयाभ्यां द्यावापृथिवीभ्यां यजमानं परिददाति रक्षार्थं, येन श्रीराष्ट्रे अस्मात् नापक्रामतः ॥
विश्वास-प्रस्तुतिः
अग्रव्ँ॑ वृ॒क्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒क्षस्याग्र॑म् । श्रि॒यमे॒वाव॑ रुन्धे ॥33॥
मूलम्
अग्रव्ँ॑ वृ॒क्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒क्षस्याग्र॑म् । श्रि॒यमे॒वाव॑ रुन्धे ॥33॥
भट्टभास्कर-टीका
12श्रीर्वा इति ॥ संभोगकाष्ठां कथयता वृक्षाग्ररोहणकथनात् श्रीकाष्ठालाभो यजमानस्य । श्रीर्हि वृक्षस्याग्रं खट्वारोहणमित्यर्थः । यद्वा - बहुप्रकारोपजीव्यत्वात् राष्ट्रं वृक्षः उच्छ्रायः तस्याग्रं सा श्रीः श्रीरेव साऽवरुद्धा तस्मात् नापक्रामति ॥
विश्वास-प्रस्तुतिः
प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रम्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
मूलम्
प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रम्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति ।
भट्टभास्कर-टीका
13विड्वा इति ॥ संभोगातिप्रसङ्गं कथयता गभे भगे मुष्टेः शेफसः यत्पतनं उक्तं तत् राष्ट्रमेव विशि आहन्ति आगमयति अनुप्रवेशयति ।
विश्वास-प्रस्तुतिः
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
मूलम्
तस्मा॑द्रा॒ष्ट्रव्ँ विश॒ङ्घातु॑कम् ।
भट्टभास्कर-टीका
तस्मात् राष्ट्रं विश्यागमनशीलं यस्मात् विट् भगः राष्ट्रं मुष्टिः वृद्धिहेतुत्वात् ॥
विश्वास-प्रस्तुतिः
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ।
मूलम्
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ।
मूलम्
ये य॒ज्ञेऽपू॑तव्ँ॒वद॑न्ति । द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृचव्ँ॑वदन्ति ।
विश्वास-प्रस्तुतिः
ये य॒ज्ञेऽपू॑तव्ँ॒वद॑न्ति “दधि॒क्राव्ण्णो॑ अकारिष॒"मिति॑ सुरभि॒मती॒मृचव्ँ॑वदन्ति ।
प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
मूलम्
ये य॒ज्ञेऽपू॑तव्ँ॒वद॑न्ति “दधि॒क्राव्ण्णो॑ अकारिष॒"मिति॑ सुरभि॒मती॒मृचव्ँ॑वदन्ति ।
प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
भट्टभास्कर-टीका
14अप वा इत्यादि ॥ ये यज्ञे अपूतं असत्यं अन्यपराक्षरं वाक्यं वदन्ति तेभ्यः सुरभिस्वरूपाः पवित्रस्वभावाः प्राणा अपक्रामन्ति तस्मात् ‘दधिक्राव्णः’ इति सुरभिशब्दवत्या ऋचो जपात् सुरभीन् प्राणान् आत्मनि स्थापयन्ति ॥
विश्वास-प्रस्तुतिः
आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा॑र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒वात्मान॑म्पवयन्ते ॥34॥
मूलम्
आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा॑र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः॑ । दे॒वता॑भिरे॒वात्मान॑म्पवयन्ते ॥34॥
भट्टभास्कर-टीका
15आपोहिष्ठेत्यादि ॥ गतम् ॥
हति तृतीये नवमे सप्तमोऽनुवाकः ॥