विश्वास-प्रस्तुतिः
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति ।
प्रा॒णाने॒वास्मि॑न्दधाति ।
नास्मा॑त्प्रा॒णा अप॑क्रामन्ति ।
मूलम्
अप॒ वा ए॒तस्मा॑त्प्रा॒णाᳵ क्रा॑मन्ति ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति ।
प्रा॒णाने॒वास्मि॑न्दधाति ।
नास्मा॑त्प्रा॒णा अप॑क्रामन्ति ।
भट्टभास्कर-टीका
1अप वा इत्यादि ॥ बहूनां पशूनां प्राणवियोजनकरणात् तत्कारिणो यजमानादपि प्राणा अपक्रामन्ति तस्मात् अनेन होमेन यजमाने प्राणान् स्थापयति ॥
विश्वास-प्रस्तुतिः
अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु ।
प्रि॒यन्त्वा॑ प्रि॒याणा॑म् ।
वर्षि॑ष्ठ॒माप्या॑नाम् ।
नि॒धी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो म॒मेत्या॑ह ।
अपै॒वास्मै॒ तद्ध्नु॑वते ॥25॥
मूलम्
अव॑न्ती॒स्स्थाव॑न्तीस्त्वाऽवन्तु ।
प्रि॒यन्त्वा॑ प्रि॒याणा॑म् ।
वर्षि॑ष्ठ॒माप्या॑नाम् ।
नि॒धी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो म॒मेत्या॑ह ।
अपै॒वास्मै॒ तद्ध्नु॑वते ॥25॥
भट्टभास्कर-टीका
2अवन्तीस्स्थेति ॥ अत्र राजपत्न्यो दक्षिणान् केशपक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरवधून्वन्त्यः त्रिः प्रदक्षिणमश्वं धुवन्त्यः परियन्ति अनेन मन्त्रेण । अथ सव्यानुद्ग्रथ्य दक्षिणान् प्रस्रस्य सव्यानूरूनाघ्नानाः अनभिधून्वन्त्यः त्रिः प्रतिपरियन्ति प्रदक्षिणमन्ततो यथा प्रथमे पर्याये । तत्र मृतोपचारभूतसिग्वातस्थानीयं सिग्भिरश्वस्य अभिधूननं क्रियते । तत्सर्वमस्मा अश्वाय अपह्नुवते । अनेन मन्त्रेण करणानि चादधति । अपीत्यै देवतास्त्वामवन्तु, प्रियत्वादिगुणकं त्वामाह्वयामः इति च मन्त्रलिङ्गात् ।
विश्वास-प्रस्तुतिः
अथो॑ धु॒वन्त्ये॒वैन॑म् ।
मूलम्
अथो॑ धु॒वन्त्ये॒वैन॑म् ।
भट्टभास्कर-टीका
कोऽर्थस्तर्हि मृतोपचारस्थानीयेन सिग्भिरभिधवनेनेत्याह - अथो इति । परिधवनच्छलेन एनमश्वमेता धुवन्ति चलयन्ति अप्रेतत्वान्नानयन्ति ।
विश्वास-प्रस्तुतिः
अथो॒ न्ये॑वास्मै॑ ह्नुवते ।
मूलम्
अथो॒ न्ये॑वास्मै॑ ह्नुवते ।
भट्टभास्कर-टीका
तदपि किमर्थमित्याह । अथो इति । संज्ञपनमेवास्मै निह्नुवते अपलपन्ति न मृतोऽसीति ॥
विश्वास-प्रस्तुतिः
त्रिᳶ परि॑यन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।
मूलम्
त्रिᳶ परि॑यन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ धुवते ।
भट्टभास्कर-टीका
3एभ्य इति ॥ एभ्यस्त्रिभ्यो लोकेभ्यः एनं धुवते लोकत्रयसंचरणसामर्थ्याय लोकस्थितये वा ॥
विश्वास-प्रस्तुतिः
त्रिᳶ पुन॒ᳶ परि॑यन्ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
मूलम्
त्रिᳶ पुन॒ᳶ परि॑यन्ति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
भट्टभास्कर-टीका
4त्रिः पुनरिति ॥ पुनरपि त्रिः प्रदक्षिणं परियन्ति सामर्थ्यान्मध्ये त्रिः परियन्तीत्युक्तं भवति । तदाह - ‘नवकृत्वः परियन्ति’ इति ।
विश्वास-प्रस्तुतिः
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ॥26॥
मूलम्
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
ऋ॒तुभि॑रे॒वैन॑न्धुवते ।
अप॒ वा ए॒तेभ्य॑ᳶ प्रा॒णाᳵ क्रा॑मन्ति ॥26॥
भट्टभास्कर-टीका
ऋतुभिरिति । ऋतवो हि मृतमप्युत्थापयेयुरिति भावः ॥
विश्वास-प्रस्तुतिः
ये य॒ज्ञे धुव॑नन्त॒न्वते॑ ।
न॒व॒कृत्व॒ᳶ परि॑यन्ति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
प्रा॒णाने॒वात्मन्द॑धते ।
नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
मूलम्
ये य॒ज्ञे धुव॑नन्त॒न्वते॑ ।
न॒व॒कृत्व॒ᳶ परि॑यन्ति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
प्रा॒णाने॒वात्मन्द॑धते ।
नैभ्य॑ᳶ प्रा॒णा अप॑क्रामन्ति ।
भट्टभास्कर-टीका
5ये यज्ञ इति ॥ ये प्रेतोपचारं सिग्भिर्धुवनं यज्ञे दैवे कर्मणि कुर्वते । गुणाभावश्छान्दसः । तत्र नवत्वान्वयात् प्राणानात्मनि दधते महिष्यादयः । ततः प्राणा एभ्यो नापक्रामन्ति ॥
विश्वास-प्रस्तुतिः
“अम्बे॒ अम्बा॒ल्यम्बि॑क॒” इति॒ पत्नी॑मु॒दान॑यति ।
अह्व॑तै॒वैना॑म् ।
मूलम्
“अम्बे॒ अम्बा॒ल्यम्बि॑क॒” इति॒ पत्नी॑मु॒दान॑यति ।
अह्व॑तै॒वैना॑म् ।
भट्टभास्कर-टीका
6अम्ब इत्यादिना महिषीमलंकृतामुदानयति हस्ते गृह्णाति रमणवत् आह्वयत्येनामेतेन कर्मणे ।
विश्वास-प्रस्तुतिः
“सुभ॑गे॒ काम्पी॑लवासि॒नी"त्या॑ह ।
तप॑ ए॒वैना॒मुप॑नयति ।
मूलम्
“सुभ॑गे॒ काम्पी॑लवासि॒नी"त्या॑ह ।
तप॑ ए॒वैना॒मुप॑नयति ।
भट्टभास्कर-टीका
तप एवेति । संतापहेतुत्वात् अस्या एतत्तपस्स्थानीयं यन्मृतेन मिथुनीभवनम् ।
विश्वास-प्रस्तुतिः
“सु॒व॒र्गे लो॒के सम्प्रोर्ण्वा॑था॒"मित्या॑ह ॥27॥
सु॒व॒र्गमे॒वैनाल्ँ॑ लो॒कङ्ग॑मयति ।
मूलम्
“सु॒व॒र्गे लो॒के सम्प्रोर्ण्वा॑था॒"मित्या॑ह ॥27॥
सु॒व॒र्गमे॒वैनाल्ँ॑ लो॒कङ्ग॑मयति ।
भट्टभास्कर-टीका
स्वर्गमेवेति । स्वर्गमनायैवेदं कर्म भवत्यस्या रत्यर्थं छादनं यत्क्रियते छादितत्वात्स्वर्गस्य ॥
विश्वास-प्रस्तुतिः
“आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒ध"मित्या॑ह ।
प्र॒जा वै प॒शवो॒ गर्भः॑ ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
मूलम्
“आऽहम॑जानि गर्भ॒धमा त्वम॑जाऽसि गर्भ॒ध"मित्या॑ह ।
प्र॒जा वै प॒शवो॒ गर्भः॑ ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
7एवं प्रहेळिकास्थानीयान्यन्यपराणि एतानि वाक्यानि कर्मप्राशसत्यप्रतिपादनपरतया व्याख्यायन्ते ब्राह्मणेन - प्रजा वा इति ॥ गर्भधारणवाचोयुक्तिः सर्वप्रजापशुधारणसामर्थ्यं कर्मणः ख्यापयति ॥
विश्वास-प्रस्तुतिः
दे॒वा वा अ॑श्वमे॒धे पव॑माने ।
सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।
मूलम्
दे॒वा वा अ॑श्वमे॒धे पव॑माने ।
सु॒व॒र्गल्ँ लो॒कन्न प्राजा॑नन् ।
तमश्व॒ᳶ प्राजा॑नात् ।
भट्टभास्कर-टीका
8देवा वा इत्यादि ॥ व्याख्यातम् ।
मूलम्
यत्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
विश्वास-प्रस्तुतिः
यत्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
मूलम्
यत्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
भट्टभास्कर-टीका
यत्सूचीभिरिति । विशसनकाले यैः पथिभिरसिर्गच्छति तान् असिमार्गान् सूचीभिः कल्पयन्ति महिष्यादयः । तन्मार्गज्ञानं स्वर्गस्य प्रज्ञात्यै भवति ।
विश्वास-प्रस्तुतिः
गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥28॥
मूलम्
गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥28॥
भट्टभास्कर-टीका
गायत्रीत्यादि । ‘गायत्री त्रिष्टुप्’ इत्यारभ्य द्वाभ्यां द्वाम्यामृग्भ्यां महिष्यादयः क्रमेण कल्पयन्ति ।
विश्वास-प्रस्तुतिः
य॒था॒य॒जुरे॒वैतत् ।
मूलम्
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
यथायजुरिति । गायत्र्यादिभिरेवासिमार्गाः प्रवर्तिता भवन्ति ततः ऋत्विजां नापराधः ॥
विश्वास-प्रस्तुतिः
त्र॒य्यस्सू॒च्यो॑ भवन्ति ।
मूलम्
त्र॒य्यस्सू॒च्यो॑ भवन्ति ।
भट्टभास्कर-टीका
9त्रय्य इति ॥ त्रयोऽवयवा आसामिति । ‘द्वित्रिभ्यां तयस्यायच्’ इत्ययजादेशः ।
विश्वास-प्रस्तुतिः
अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः ।
मूलम्
अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः ।
भट्टभास्कर-टीका
अयस्मय्य इति । ‘अयस्मयादीनि छन्दसि’ इति भत्वम् । लोकत्रयानुसारेण महिप्यादिक्रमो नादृतः ।
विश्वास-प्रस्तुतिः
अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ ।
अ॒न्तरि॑क्षस्य रज॒ताः ।
दि॒वो हरि॑ण्यः ।
दिशो॒ वा अ॑य॒स्मय्यः॑ ।
अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः ।
ऊ॒र्ध्वा हरि॑ण्यः ।
दिश॑ ए॒वास्मै॑ कल्पयति ।
मूलम्
अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ ।
अ॒न्तरि॑क्षस्य रज॒ताः ।
दि॒वो हरि॑ण्यः ।
दिशो॒ वा अ॑य॒स्मय्यः॑ ।
अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः ।
ऊ॒र्ध्वा हरि॑ण्यः ।
दिश॑ ए॒वास्मै॑ कल्पयति ।
भट्टभास्कर-टीका
तदेवाह अस्य वा इति । उत्तरोत्तरप्रशस्तत्वादेवमुक्तम् ।
हरिण्यस्सौवर्ण्यः ॥
सौवर्णीभिः पथोऽसेर्जनयति महिषी क्रोडकण्ठान्तराळे
वावाता राजतीभिर्विरचयति पथः क्रोडनाभ्यन्तराळे ।
शिष्टे गात्रेऽसिमार्गान् रचयति परिवृक्त्येवमेवायसीभिः
कण्ठादौ स्यादसक्तादधि(सि)पथकरणं सौकरीयं विशस्तिः ॥
विश्वास-प्रस्तुतिः
“कस्त्वा॑ छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहिँ॑सायै ॥29॥
मूलम्
“कस्त्वा॑ छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहिँ॑सायै ॥29॥
भट्टभास्कर-टीका
10कस्त्वेत्यश्वस्य त्वचमाच्छिनत्ति ॥ तत्र कः प्रजापतिरेव त्वा छ्यति छिनत्ति नाहमिति वचनात् अहिंसायै भवत्यात्मनः॥
इति तैत्तिरीये ब्राह्मणे तृतीयेऽष्टके नवमप्रपाठके षष्ठोऽनुवाकः ॥