०५

विश्वास-प्रस्तुतिः

तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यव्ँ॑ वदतः ।
तेज॑सा चै॒वैन॑म्ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।

मूलम्

तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते ।
यो॑ऽश्वमे॒धेन॒ यज॑ते ।
होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यव्ँ॑ वदतः ।
तेज॑सा चै॒वैन॑म्ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।

भट्टभास्कर-टीका

1तेजसा वा इत्यादि ॥ भीष्मस्वभावत्वात् । ब्रह्मोद्यमिति । ब्रह्मणो वादो ब्रह्मोद्यं प्रश्नप्रतिज्ञारूपेण वेदार्थाध्यवसायः । ‘वदस्सुपि क्यप् च’ इति क्यप् । तत्राश्वमेधस्य प्राशस्त्यसमर्थतया यजमानस्य तेजोब्रह्मवर्चसयोः समृद्धिं कुरुतो ब्रह्मोद्यं वदन्तौ होतृब्रह्माणौ ॥

विश्वास-प्रस्तुतिः

द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्ह॒स्प॒त्यो वै ब्र॒ह्मा ।

मूलम्

द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्ह॒स्प॒त्यो वै ब्र॒ह्मा ।

भट्टभास्कर-टीका

2दक्षिणत इत्यादि ॥ वक्ष्यति ‘यूपमभितो वदतः’ इति । तत्राग्निष्ठस्य यूपस्य दक्षिणतो ब्रह्मा आसीनो वदति । उत्तरत आसीनो होता वदति । वेद्या दक्षिणतः ब्रह्मणस्स्थानं, उत्तरतो होतुः ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।

मूलम्

ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः ।

भट्टभास्कर-टीका

बृहस्पतिप्रधानत्वात्तद्वत् ब्रह्मा ब्रह्मवर्चसी, अग्निप्रधानत्वात् अग्निवद्धोता तेजस्वी, तस्मात् दक्षिणतो वदन् ब्रह्मा यजमानस्य दक्षिणभागे ब्रह्मवर्चसं दधाति ।

विश्वास-प्रस्तुतिः

उ॒त्त॒र॒तो होता॑ भवति ॥20॥
उ॒त्त॒र॒त आ॑यतनो॒ वै होता॑ ।
आ॒ग्ने॒यो वै होता॑ ।
तेजो॒ वा अ॒ग्निः ।
तेज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः ।

मूलम्

उ॒त्त॒र॒तो होता॑ भवति ॥20॥
उ॒त्त॒र॒त आ॑यतनो॒ वै होता॑ ।
आ॒ग्ने॒यो वै होता॑ ।
तेजो॒ वा अ॒ग्निः ।
तेज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः ।

भट्टभास्कर-टीका

उत्तरतो वदन् होता उत्तरभागे तेजो दधाति । तस्मात् दक्षिणोऽर्ध इतरस्मात् ब्रह्मवर्चसितरः उत्तरश्चेतरस्मात् तेजस्वितरः शक्तिमत्तरः ॥

विश्वास-प्रस्तुतिः

यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।

मूलम्

यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः ।

भट्टभास्कर-टीका

3यूपमित्यादि ॥ ‘अभितः परितः’ इति द्वितीया । ‘पर्यभिभ्यां च’ इति तसिल् । यजमानदेवत्य इति । यजमानप्रधान इत्यर्थः ॥

विश्वास-प्रस्तुतिः

“किँ स्वि॑दासीत्पू॒र्वचि॑त्ति॒"रित्या॑ह ।
द्यौर्वै वृष्टि॑ᳶ पू॒र्वचि॑त्तिः ॥21॥

दिव॑मे॒व वृष्टि॒मव॑रुन्धे ।
“किँ स्वि॑दासीद्बृ॒हद्वय॒” इत्या॑ह ।

मूलम्

“किँ स्वि॑दासीत्पू॒र्वचि॑त्ति॒"रित्या॑ह ।
द्यौर्वै वृष्टि॑ᳶ पू॒र्वचि॑त्तिः ॥21॥

दिव॑मे॒व वृष्टि॒मव॑रुन्धे ।
“किँ स्वि॑दासीद्बृ॒हद्वय॒” इत्या॑ह ।

भट्टभास्कर-टीका

4किंस्विदित्यादि ॥

होतुः प्रश्नाः ब्रह्मणस्स्युः प्रतिज्ञाः
प्रत्युक्तेषु ब्रह्मणा तेषु सम्यक् ।
तत्रासीना ये सदस्या यशस्ते
हृष्टाः सद्यो ब्रह्मणः ख्यापयन्ति ॥

द्यौर्वा इत्यादिभिर्विशिष्टफललाभार्थतया तत्तत्फलसाधनत्वं प्रश्नानां दर्शयति । वृष्टिहेतुर्द्यौः पूर्वचित्तिः प्रथमं चिन्त्यते ।
बुद्ध्यते सर्वैः स्थितिहेतुत्वात् प्रजानाम् ।
तस्मादाभ्यां प्रश्नप्रतिवचनाभ्यां वृष्टिलाभः ॥

विश्वास-प्रस्तुतिः

अश्वो॒ वै बृ॒हद्वयः॑ ।
अश्व॑मे॒वाव॑रुन्धे ।
“किँ स्वि॑दासीत्पिशङ्गि॒ले"त्या॑ह ।

मूलम्

अश्वो॒ वै बृ॒हद्वयः॑ ।
अश्व॑मे॒वाव॑रुन्धे ।
“किँ स्वि॑दासीत्पिशङ्गि॒ले"त्या॑ह ।

भट्टभास्कर-टीका

5अश्वो वा इति ॥ अश्वो बृहदन्नं देवानामप्यदनीयत्वात् । तस्मात् वृष्ट्या अश्वादिसमृद्धान्नलाभः ॥

विश्वास-प्रस्तुतिः

रात्रि॒र्वै पि॑शङ्गि॒ला ।
रात्रि॑मे॒वाव॑रुन्धे ।
“किँ स्वि॑दासीत्पिलिप्पि॒ले"त्या॑ह ।

मूलम्

रात्रि॒र्वै पि॑शङ्गि॒ला ।
रात्रि॑मे॒वाव॑रुन्धे ।
“किँ स्वि॑दासीत्पिलिप्पि॒ले"त्या॑ह ।

भट्टभास्कर-टीका

6रात्रिर्वा इति ॥ पिश अवयवे, तमसा रूपाणि गिलति छादयतीति पिशङ्गिला । पृषोदरादिः । तस्मात् प्रभूतान्नो रात्रिमपि विधेयीकरोति ॥

विश्वास-प्रस्तुतिः

श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥22॥

मूलम्

श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥22॥

भट्टभास्कर-टीका

7श्रीर्वा इति ॥ भृशं प्रजानां प्रीणयित्री पिलिप्पिला प्रीणातेर्यङ् लुकि अभ्यासस्य लिगागमो वर्णविकारोपजनश्छान्दसः । तस्मात् विधेयीकृताहोरात्रत्वात् महतोऽन्नादनसामर्थ्यस्य लाभः ॥

विश्वास-प्रस्तुतिः

“कस्स्वि॑देका॒की च॑र॒ती"त्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे ।

मूलम्

“कस्स्वि॑देका॒की च॑र॒ती"त्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

8असौ वा इति ॥ आदित्यस्सर्वदा एकाकी चरति सेनान्यादीनामनुपलम्भात् तस्मात् आदित्यवत्तेजस्वी भवति ॥

विश्वास-प्रस्तुतिः

“क उ॑स्विज्जायते॒ पुन॒"रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे ।

मूलम्

“क उ॑स्विज्जायते॒ पुन॒"रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

9चन्द्रमा वा इति ॥ पुनःपुनर्जायते चन्द्रमाश्शुक्लादौ, तस्मात् तेजस्वी भूत्वा आयुष्मांश्च भवति ॥

विश्वास-प्रस्तुतिः

“किँ स्वि॑द्धि॒मस्य॑ भेष॒ज"मित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे ।

मूलम्

“किँ स्वि॑द्धि॒मस्य॑ भेष॒ज"मित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समेवाव॑रुन्धे ।

भट्टभास्कर-टीका

10अग्निर्वा इत्यादि ॥ आग्नेयत्वाद्ब्राह्मणस्य ब्रह्मवर्चसत्वलाभः ॥

विश्वास-प्रस्तुतिः

“किँ स्वि॑दा॒वप॑नम्म॒हदि"त्या॑ह ॥23॥
अ॒यव्ँ वै लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।

मूलम्

“किँ स्वि॑दा॒वप॑नम्म॒हदि"त्या॑ह ॥23॥
अ॒यव्ँ वै लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

11अयं वा इति ॥ ओप्यते सर्वमस्मिन्निति सर्वाश्चर्याधारोऽयं लोकः तेनात्र प्रतिष्ठितो भवति ॥

विश्वास-प्रस्तुतिः

“पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्या” इत्या॑ह । वेदि॒र्वै परोऽन्त॑ᳶ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे ।

मूलम्

“पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्या” इत्या॑ह । वेदि॒र्वै परोऽन्त॑ᳶ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

12वेदिर्वा इति ॥ ‘सा वा इयं सर्वैव वेदिः’ इति पृथिव्याः प्रकृष्टं स्थानं वेदिका तस्मात् पृथिव्यां प्रतिष्ठाय वेदिमन्ति कर्माण्यवरुन्धे ॥

विश्वास-प्रस्तुतिः

“पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒"मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे ।

मूलम्

“पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒"मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

13यज्ञो वा इति ॥ यज्ञेन यज्ञफलेन सर्वं भूतजातं नह्यते बध्यते, तस्मात् यज्ञफलान्यवरुन्धे ॥

विश्वास-प्रस्तुतिः

“पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒” इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे ।

मूलम्

“पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒” इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

14सोमो वा इति ॥ वृषा सेक्ता अश्वो व्यापक आत्मा तस्य रेतस्स्थानीयस्सोमः सारत्वात् विश्वोत्पत्तिहेतुत्वाच्च । तस्मात् सोमयागानामाहर्ता भवति ॥

विश्वास-प्रस्तुतिः

“पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्व्ँयो॑मे"त्या॑ह । ब्रह्म॒ वै वा॒चᳶ प॑र॒मव्व्ँयो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥24॥

मूलम्

“पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्व्ँयो॑मे"त्या॑ह । ब्रह्म॒ वै वा॒चᳶ प॑र॒मव्व्ँयो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥24॥

भट्टभास्कर-टीका

15ब्रह्म वा इति ॥ वाचः परमं रक्षणस्थानं ब्रह्म वेदः तस्मात् ब्रह्मवर्चसलाभः ब्रह्महेतुकत्वात्तस्य । एवं गूढाभिप्रायेण होत्रा अश्वमेधप्रभावाविष्करणाय कृतान् प्रश्नान् तत्तदभिप्रायविशेषवेदी ब्रह्मा सदस्यानुमानं फलिताश्वमेधप्रभावं च यथायथा प्रतिक्षेप्तुमर्हति तथा ब्राह्माणेनैवेत्थं प्रदर्शितमिति बोद्धव्यम् ॥

इति तैत्तिरीये ब्राह्मणे तृतीये नवमे पञ्चमोऽनुवाकः ॥